पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
त्रिपुरदाहो डिमः


अन्यः स सूर्य ! समरः क्षणमात्रमेव
 यस्मिन्चिपह्य विपदं घुनरभ्युदेषि ।
ध्वान्तापनोदमधिकृत्य निजप्रभाभि-
 रद्यैव लोकमपसृर्यमद्दं करिप्ये ॥ ८ ॥

( इत्युत्थातुमीहते )

 विश०--अयि दैत्यराज महावीर ! तिष्ठ तिष्ट । पावकसहायस्य लब्घावकाशस्य म्सूर्यस्य मिथ्यागर्वोक्तिरियम् । कोऽयमेतावानिह संरम्भः !

( सर्वतापः तथैव तिष्टति )

 विश०-( स्तगतं साशङ्कम्) ताप्यत एय तावत्स्सृर्यतापः । चन्द्रतापः कथंमास्त इति न ज्ञायते !।(प्रकाशम्)अयि स्फुटाक्षर! गन्च्छ क्रियतामप्रमत्तश्चन्द्रतापः ।

 स्फुटा०-(सप्रश्रयम्) यथाऽऽज्ञापयत्यार्यः ।

( इति निष्क्रान्तः )

(पुनर्नैपथ्ये सकरुणम् )

व्रघ्ने वह्लौ विकिरति स्पा रशिममालाः शिखालीः
 लौहेऽमुप्ठिमन्नसुरनगरे'भ्राष्ट्रवद्दह्यमाने ।
लावा दावानल इव हहा निर्गमोद्वद्धझम्पा
 भूयो भूयः स्फुरदरतयो दैत्यवीराः पतन्ति ॥ ९ ॥

 सर्व०-(प्तक्रोधं सप्तंरम्भम्) आ ! कथं दह्यत एव मे भ्रातुः सृर्पतापस्य तादृशं दुर्मदं दैत्यवलम्त। तदलमनेन सृपा भुजभारधारणायासेन । (इति संरम्भेनाटयति)

 विश०-अयि दैत्यराज ! न युज्यते निकटतो भवितुम् । दूरस्थानां भवतां दूरतो मृत्युः ।

 ( सर्वतापनः तथैव तिष्ठति )

 विश०-( प्तील्लप्तम्) अयि दैत्यनाथ ! पश्य पश्य प्लोपप्रकारसमासादितसिन्दूरपूराडम्वरं त्वद्धूतुरिदं लौहं पुरं वियदङ्गणमनुधावति ।

 सर्व०-(विमान्य प्तोल्लाप्तम्)

सूपस्पदं किमु जिघृक्षुरर्य दिघक्षुः
 किं चा पराणिा मुघनान्युपरिस्थितानि ।