स्फुट०-णउणएदंअणुसरिस्सदि अलियगव्युत्तसिदो सव्वताओ[१] ।
विश०-अयि स्फुटाक्षर ! दानवगुरुणाहमस्य साचिव्ये पौरोहित्ये च नियुक्कोऽस्मि तन्नेह मे समुचितमौदास्यम् । त्यमप्यस्य क्रमायातो हितः । तदास्तामपमानल्केशः । एहि यथा सम्भवमस्य हितमारभ्यते ।
(इत्युमौ परिक्रामतः)
स्फुटा०--(शरोऽवलोक्य ) परवसोम्द्दि अय्यस्स।विहावेदु अय्यो एसदाणवणाहो गोञ्उरपरिसरे हत्यिपीदृ समास्ल्ढो चिट्ठदि । एसावि दाणयवीरवाहिणी सुग्गहणा सव्यपाआरपरिसरे समन्तदो समन्तदो विहावीअदि [२]।
विश०-~-(पुरोऽवलोक्य सावज्ञ्ं विंहत्य ) अपि स्फुटाक्षर ।
स्फुरदुरुघनुर्वल्लिश्यामं कठोरशरोत्करं |
स्फुटा०-अय्य विसदासय!पञ्चासन्नो दाणवणाहो|उअसप्पीअटु प्तदाव[३]।
( ततः प्रविशति यथा निर्द्दिष्टः सर्वतापः )
सर्वतापः-कथमायात एव विशदाशयः ? । आर्य ! अभिवादयेऽऽव्रभवन्तम् ।
विश०-विरतविग्रहः परमानन्दभाजनं भूयाद्दानवेश्चरः ।
सर्व०-आसनमलङ्करोतु भवान् ।
विश०---( परिरनीपनीतप्राप्तनमुदिश्य स्वगतं प्तानुतापम् ) आः ! केयं मदीयमुरवमुखराहुरुदाहृतिः कालोरगी विनिर्मता । भवत्यविदितैय यातु कुतोऽपीप म् । ( प्रकाशम्) अवि दानवेश ! स्फुटाक्षरोऽयं स्फुटाक्षरः । परमहितो दानवेशस्प प्रसादमेवार्हति ।