विश°-( सप्तेदं निःश्वस्य ) अपि स्फुटाक्षर ! परवानस्मि गुरोर्भगवतो
भूगुगन्दनस्य । किं करोमि ? । नाहमन्यथैवंविधं कुलविरुद्धं विद्याविरुद्धं नामविरुद्धं च मायामयं पुण्यमपुपयं कर्म कुर्याम् ।
स्फुटा०-( सप्तम्भ्रमम्.) किं उण एञ्चहिदं अययेणा ववसिदं येण एवं अणुतप्पदि अय्यो[१] ।
विश०-अयि स्फुटाक्षर ! एवमन्यथार्थितोऽस्मि सर्वतापनेन । पथा किल भगवन्यिशादाशय ! दुराधयों मद्धग्यणां भर्गगोविन्दविरिश्चिसमधिष्टिता पौरन्दरी पुरी । तत्तत्र भवता पत्किमपि मापेन्द्रजालमासूत्र्यतां येन ते त्रिदशानां समूलनाशमाशङ्कय निराश्यः स्वयमेव तां परिहरन्ति ।
स्फुटा०-:तदा किं कअं अय्येणं[२] ? ।
विश०-कृतमपि विपरीतफलनेव तेपु तादृशेपु मायेन्द्रजालादिकम्
स्फुटा०-(समयम्) भअवंत । ताणं कए किंपि कीरदु अवरं सन्तिकम्मादिअं[३] ।
विश०-(सोद्वेगम्) अपि स्फुटाक्षर ! किमलीककर्मल्केशेन ।
उपद्रवाः क्षुद्रस्सुरासुराणां |
जानामि चैकं शान्तिकम् ।
व्यसनज्वलनेऽमुष्मिन्नविनयपवनप्रसारणोत्फुल्ले । |
नियेय निवर्तिता सर्वेऽपि देवाः कृतान्तभावमुपगताः कुद्धा युष्माकं पुराण्यभिद्रवन्ति । तत्कियतां प्रतिविधानम् ! ततः प्रभुणा सर्वतापनेन गर्णोष्मविलीनहिताहितज्ञानेन साधिक्षेपमवइस्तितोऽस्मि । तदुद्विग्नो यामि निजमवनम् । आर्यमपि उद्विममिव प्रेक्षे । तत्किंकंन्विदम् ? ।