शतपथब्राह्मणम्/काण्डम् ३/अध्यायः २

विकिस्रोतः तः

कृष्णाजिनदीक्षा

१ कृष्णाजिनदीक्षा-तस्यां चाहवनीयदक्षिणदेशे कृष्णाजिनद्वयस्य सप्र- कारकमास्तरणविधानम्, एककृष्णाजिनपक्षमुक्त्वा तत्प्रशंसनं, कृष्णा- जिनदीक्षार्थमुपवेशनप्रकारकथनं, कृष्णाजिनस्य शुक्लकृष्णसन्ध्यभिमर्शनपूर्वकं ' ऋक्सामयोः ' इति मंत्रस्य जपकरणं तद्व्याख्यानं च, कृष्णाजिनारोहणविधानं, मेखला- दीक्षाविधानं, तस्या उपादानद्रव्यकथनं, तस्या मुञ्जशाखामिश्रितत्वकथनं, केशवेणीवन्निर्माणकथनं च, बन्धनमन्त्रं विधाय तद्व्याख्यानं, वस्त्रान्तस्य समन्त्रकमुद्गूहनकथनं, वाससा शिरस आच्छादनविधानं, वस्त्रान्ते कृष्णविषाणाबन्धनविधानं, प्रसङ्गात्कृष्णविषाणोत्पत्त्यर्थमाख्यायिका, प्रसंगाद्वाग्विषयककिंचन नियमकथनं, यज्ञस्य वाचोऽभिध्यान. प्रकारः, उक्तार्थंवेदितुः प्रशंसनं, कृष्णविषाणाया बन्धनप्रकारकथनं, तया भूमेरुपरि समंत्रकमुल्लेखनविधानं, कृष्णविषाणया कण्डूयनं प्रशंसितुं साधनान्तरस्य निन्दाकरणं, दण्डदीक्षानन्तरं मुष्टिकरणवाग्यमौ कर्तव्याविति साभिप्रायं कस्यचित्पक्षमुपन्यस्य तत्र दोषं प्रदर्श्य च प्रागुक्तस्य स्वकीयस्य मुष्टि- करणवाग्यमयोर्दर्भैःपावनानन्तर्यपक्षस्योपसंहारः, तत्र स्वपक्षे गुणान्तरकथनं, वाग्यमप्रयोजनं तल्लोपे प्रायश्चित्तं चेति कथनम्, अध्वर्युकर्तृकदीक्षितावेदनविधानं, आवेदनवाक्य- गतब्राह्मणप्रयोजनकथनं,चेत्यादि.


दीक्षासंस्काराः

२ दीक्षासंस्काराः-तत्र वाग्यमनं प्रशंसितुमाख्यायिका, तस्यां च प्रसङ्गा- द्यूपपदनिरुक्तिः, पक्षपक्षान्तरसहितं सप्रकारकं समंत्रकं वाग्विमोकविधानं तन्मंत्रव्याख्यानं च, व्रतश्रवणादिकथनम्, आत्मन्येव व्रतहोमस्य पुरातनवृत्तान्ताभिधानेन प्रशंसनं, तदर्थं दीक्षितस्याग्नित्वोपपादनं, तदर्थं सम्पत्तिसम्पादनं च, प्रथमदिवसीयव्रतविषयकंकस्यचित्पक्षकथनं, तथेतरेषां पक्षकथनम्, अस्मै मानुषकालातिक्रमेण व्रतप्रदानविधानम्, अध्वर्युकारयितृकस्य यजमानकर्तृकस्योदकस्पर्शस्य विधानं, समंत्रकव्रतपानविधानं, प्रयोजनपूर्वकं समन्त्रकनाभ्युपस्पर्शनविधानं, तच्च सर्वसाधारणमतः सर्वत्र कर्तव्य- मिति कथनं, दीक्षितस्य मूत्रोत्सर्गे. विशेषविधिः, दीक्षितस्य स्वापकाले ऽग्नये परिदानकथनं, दीक्षितस्य स्वापानन्तरं प्रबोधे पुनर्निद्राया अप्राप्तौ च समंत्रकजपविधानं, दीक्षितस्याव्रत्यभाषणे क्रोधकरणे च प्रायश्चित्तकथनं, दीक्षितस्य यज्ञार्थं गवादिधनलाभे वाच्यमंत्रस्य विधानम्, अस्तमिते उदिते च काले प्रत्यहं वाग्यमतद्विसर्गकथनं, स्वस्थानादन्यत्र सञ्चरणस्य स्वापकरणस्य च निषेधकथनं च, दीक्षितस्यावभृथ- पर्यन्तं जलावगाहनमभिमर्शनं च वर्ज्यमिति प्रतिपादनं, मानुष्या वाचा वदननिषेधकथनं, एतस्य प्रशंसनं चेत्यादि. इति दीक्षितधर्माः ।


ब्राह्मण ३ प्रायणीयेष्टिः

३ प्रायणीयेष्टिः -- तत्र प्रायणीयदेवता- विधिः. तस्मिंश्चादौ-आख्यायिकया प्रायणीयचरोर्यज्ञदर्शनमुपपाद्य प्रकृते योजनम्, अर्थवादद्वाराऽऽज्यहविष्क- पथ्यास्वस्त्यग्निसोमसवितृदैवत्यानां चतुर्णां प्रधानयागानां चरुद्रव्यकादितिदेवत्यपञ्चनम् यागस्य च विध्युन्नयनम्, अस्या यागनिष्ठपञ्चसंख्याया ऋतुपरिज्ञानहेतुत्वेन दिङ्मोहनिवृत्तिहेतुत्वेन च प्रशंसनं, प्रायणी- योदयनीययोरेकरूपत्वसम्पत्या बाहुत्वसम्पत्त्या च आतिथ्येष्टेः प्राक्कर्तव्यत्वप्रदर्शनं, प्रसङ्गादातिथ्यायाः शिरोरूपत्वप्रदर्शनं देवतैक्याभिधानप्रसङ्गेन पञ्चसंख्यायाः प्रशंसनं चेत्यादि


ब्राह्मण ४ सोमक्रयविधिः

४--सोमक्रयविधिः-तदर्थमाख्यायिका आगत्या प्रयोजनसहितं सोमक्रयविधानं, सोमक्रयात्प्राक्कर्त्तव्यस्य होमस्य विधानं तत्र जुह्वां सप्रयोजनं समन्त्रकं हिरण्या वधानकथनं तन्मंत्रव्याख्यानं च, तदर्थं सोमक्रयण्यानयनप्रकारकथनं, होममंत्रस्य पञ्चधा विभागपूर्वकं ब्याख्यानं, समंत्रं हिरण्यस्यापोद्धरणविधानं, सप्रकारकं सार्थवादं शालाया द्वारे दक्षिणतः सोमक्रयण्या गोरवस्थापनकथनं तस्याः समंत्रकम- भिमंत्रणविधानं विभागशस्तन्मंत्रव्याख्यानं च, तत्र मित्रदेवतायाः पादबन्धनोपयो- गदर्शनं, कृत्स्नमंत्रतात्पर्यकथनं चेत्यादि