शतपथब्राह्मणम्/काण्डम् ३/अध्यायः २/ब्राह्मण ३

विकिस्रोतः तः


३.२.३.प्रायणीयदेवताविधिः

आदित्यं चरुं प्रायणीयं निर्वपति । देवा ह वा अस्यां यज्ञं तन्वाना इमां यज्ञादन्तरीयुः सा हैषामियं यज्ञं मोहयांचकार कथं नु मयि यज्ञं तन्वाना मां यज्ञादन्तरीयुरिति तं ह यज्ञं न प्रजज्ञुः - ३.२.३.१

ते होचुः । यन्न्वस्यामेव यज्ञमतंस्महि कथं नु नोऽमहत्कथं न प्रजानीम इति - ३.२.३.२

ते होचुः । अस्यामेव यज्ञं तन्वाना इमां यज्ञादन्तरगाम सा न इयमेव यज्ञममूमुहदिमामेवोपधावामेति - ३.२.३.३

ते होचुः । यन्नु त्वय्येव यज्ञमतंस्महि कथं नु नोऽमुहत्कथं न प्रजानीम इति - ३.२.३.४

सा होवाच । मय्येव यज्ञं तन्वाना मां यज्ञादन्तरगात सा वोऽहमेव यज्ञममूमुहं भागं नु मे कल्पयताथ यज्ञं द्रक्ष्यथाथ प्रज्ञास्यथेति - ३.२.३.५

तथेति देवा अब्रुवन् । तवैव प्रायणीयस्तवोदयनीय इति तस्मादेष आदित्य एव प्रायणीयो भवत्यादित्य उदयनीय इयं ह्येवादितिस्ततो यज्ञमपश्यंस्तमतन्वत - ३.२.३.६

स यदादित्यं चरुं प्रायणीयं निर्वपति । यज्ञस्यैव दृष्ट्यै यज्ञं दृष्ट्वा क्रीणानि तं तनवा इति तस्मादादित्यं चरुं प्रायणीयं निर्वपति तद्वै निरुप्तं हविरासीदनिष्टा देवता - ३.२.३.७

अथैभ्यः पथ्या स्वस्तिः प्रारोचत । तामयजन्वाग्वै पथ्यास्वस्तिर्वाग्यज्ञस्तद्यज्ञमपश्यंस्तमतन्वत - ३.२.३.८

अथैभ्योऽग्निः प्रारोचत । तमयजन्त्स यदाग्नेयं यज्ञस्यासीत्तदपश्यन्यद्वै शुष्कं यज्ञस्य तदाग्नेयं तदपश्यंस्तदतन्वत - ३.२.३.९

अथैभ्यः सोमः प्रारोचत । तमयजन्त्स यत्सौम्यं यज्ञस्यासीत्तदपश्यन्यद्वा आर्द्रं यज्ञस्य तत्सौम्यं तदपश्यंस्तदतन्वत - ३.२.३.१०

अथैभ्यः सविता प्रारोचत । तमयजन्पशवो वै सविता पशवो यज्ञस्तद्यज्ञमपश्यंस्तमतन्वताथ यस्यै देवतायै हविर्निरुप्तमासीत्तामयजन् - ३.२.३.११

ता वा एताः । पञ्च देवता यजति यो वै स यज्ञो मुग्ध आसीत्पाङ्क्तो वै स आसीत्तमेताभिः पञ्चभिर्देवताभिः प्राजानन् - ३.२.३.१२

ऋतवो मुग्धा आसन्पञ्च । तानेताभिरेव पञ्चभिर्देवताभिः प्राजानन् - ३.२.३.१३

दिशो मुग्धा आसन्पञ्च । ता एताभिरेव पञ्चभिर्देवताभिः प्राजानन् - ३.२.३.१४

उदीचीमेव दिशम् पथ्यया स्वस्त्या प्राजानंस्तस्मादत्रोत्तरा हि वाग्वदति कुरुपञ्चालत्रा वाग्घ्येषा निदानेनोदीचीं ह्येतया दिशं प्राजानन्नुदीची ह्येतस्यै दिक् - ३.२.३.१५

प्राचीमेव दिशम् । अग्निना प्राजानंस्तस्मादग्निं पश्चात्प्राञ्चमुद्धृत्योपासते प्राचीं ह्येतेन दिशं प्राजानन्प्राची ह्येतस्य दिक् - ३.२.३.१६

दक्षिणामेव दिशम् सोमेन प्राजानंस्तस्मात्सोमं क्रीतं दक्षिणा परिवहन्ति तस्मादाहुः पितृदेवत्यः सोम इति दक्षिणां ह्येतेन दिशं प्राजानन्दक्षिणा ह्येतस्य दिक् - ३.२.३.१७

प्रतीचीमेव दिशम् सवित्रा प्राजानन्नेष वै सविता य एष तपति तस्मादेष प्रत्यङ्ङेति प्रतीचीं ह्येतेन दिशं प्राजानन्प्रतीची ह्येतस्य दिक् - ३.२.३.१८

ऊर्ध्वामेव दिशम् । अदित्या प्राजानन्नियं वा अदितिस्तस्मादस्यामूर्ध्वा ओषधयो जायन्त ऊर्ध्वा वनस्पतय ऊर्ध्वां ह्येतया दिशं प्राजानन्नूर्ध्वा ह्येतस्यै दिक् - ३.२.३.१९

शिरो वै यज्ञस्यातिथ्यम् । बाहू प्रायणीयोदयनीयावभितो वै शिरो बाहू भवतस्तस्मादभित आतिथ्यमेते हविषी भवतः प्रायणीयश्चोदयनीयश्च - ३.२.३.२०

तदाहुः । यदेव प्रायणीये क्रियेत तदुदयनीये क्रियेत यदेव प्रायणीयस्य बर्हिर्भवति तदुदयनीयस्य बर्हिर्भवतीति तदपोद्धृत्य निदधाति तां स्थालीं सक्षामकर्षां प्रमृज्य मेक्षणं निदधाति य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति तद्यदेतत्समानं यज्ञे क्रियते तेन बाहू सदृशौ तेन सरूपौ - ३.२.३.२१

तदु तथा न कुर्यात् । काममेवैतद्बर्हिरनुप्रहरेदेवं मेक्षणं निर्णिज्य स्थालीं निदध्याद्य एव प्रायणीयस्यर्त्विजो भवन्ति त उदयनीयस्यर्त्विजो भवन्ति यद्यु ते विप्रेताः स्युरप्यन्य एव स्युः स यद्वै समानीर्देवता यजति समानानि हवींषि भवन्ति तेनैव बाहू सदृशौ तेन सरूपौ - ३.२.३.२२

स वै पञ्च प्रायणीये देवता यजति । पञ्चोदयनीये तस्मात्पञ्चेत्थादङ्गुलयः पञ्चेत्थात्तच्छम्य्वन्तं भवति न पत्नीः संयाजयन्ति पूर्वार्धं वा अन्वात्मनो बाहू पूर्वार्धमेवैतद्यज्ञस्याभिसंस्करोति तस्माच्छम्य्वन्तं भवति न पत्नीः संयाजयन्ति - ३.२.३.२३