सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ४

विकिस्रोतः तः
आतिथ्येष्टिः.

आतिथ्येष्टिः

१ आतिथ्येष्टिः- तत्र तस्याः प्रायणीयानन्तर्यविधानम्,, आतिथ्यशब्दनिर्वचनं, पक्ष- पक्षान्तरसहितं सप्रकारकं मन्त्रमंत्रार्थतत्तात्पर्यादियुतं सार्थवादं पञ्चवारमातिथ्यहविषो ग्रहणविधानं, गृहीतस्य हविषो विष्णुदेवतासम्बन्धं बोधयित्वा नवकपालत्वकथनम्, अस्यां चेष्टौ कार्ष्मर्य- मयःपरिधयः - ऐक्षव्यौ विधृती आश्ववालः प्रस्तरः - अनुयाजाभावादुपभृति- चतुर्ग्रहणमेवाज्यस्य-हवींष्यासाद्याहोमान्तं सेतिकर्तव्यताकं समंत्रमग्निमन्थनं चेति सहेतुकं सोपपत्तिकं प्रयोगगतविशेषनिरूपणं, सार्थवादमस्या इष्टेरिडान्तत्वप्रतिपादनं चेत्यादि.


ब्राह्मण २ प्रवर्ग्यकर्मणि तानूनप्त्रम्

२ प्रवर्ग्यकर्मणि तानूनप्त्रं तदर्थमाख्यायिका, तस्यां च तानूनप्त्रस्योत्पत्तिः, आख्यायिकया सिद्धार्थस्य प्रकृते योजनं, तस्मिन्नर्थे लौकिकवचसो मंत्रस्य च प्रामाण्यनिरूपणम्, उक्तार्थज्ञप्रशंसा, प्रसंगात्किञ्चित्पुरुषार्थं कर्म, तानूनप्त्रा- र्थमाज्यग्रहणस्य समंत्रकं विधानं तन्मंत्रव्याख्यानं च, गृहीताज्यस्य समंत्रं सर्वैरवमर्शनविधान तत्कालिक संकेत प्रदर्शनं, तन्मंत्रार्थविवरणं च, तानूनप्त्रमाज्यं सर्वैः स्पृष्टमपि सद्यजमानायैव दातव्यमिति विधानं, यजमानकर्तृकसामोपायस्य देवैःकृतं साममूलमिति कथनं चेति


प्रवर्ग्यकर्मणि अवान्तरदीक्षा

३ प्रवर्ग्यकर्मणि प्रायश्चित्तरूपाऽवान्तरदीक्षा - तां विधातुमाख्यायिका, अवां- तरदीक्षाकल्पनप्रकारवर्णनं, तस्या अवान्तरदीक्षायाः सार्थवादं विधानम्, अवान्तर- दीक्षारूपेण समिधोऽभ्याधानस्याख्यायिकापूर्वकं समंत्रकविधानम्, अभ्याधान मंत्रार्थविवरणं अवान्तरदीक्षाक्रमकथनं च, यावद्यजमानकर्तव्यं तत्सर्वं मदन्तीभिः ( एतत्संज्ञकाभिरद्भिः) संपाद्यमिति विधानं, मदन्त्युपस्पर्शनपूर्वकं राजाप्यायनविधानम्, अनुष्ठेयपदार्थक्रमविषये कस्यचन ब्रह्मवादिनश्चोद्यस्योद्भावनम्, आप्यायनप्रशंसा, ऋत्विग्यजमानकर्तृकाप्यायनस्य सरघमधुकल्पनया प्रशंसनम् एतस्यैवाप्यायनस्य गतसारत्वपरिहाररूपेण प्रशंसनं, षड्भूत्वाऽऽप्यायनकथनम्, आप्यायनमंत्रविधानं विभागशस्तद्व्याख्यानं च, प्रस्तरोपरिपाणी सम्पुटीकृत्य एष्टा रायः ' इति मंत्रजपरूपनिहवविधानं, निहवस्य कालनिर्धारकब्रह्मवादिविचारप्रदर्शन, निहवमंत्रव्याख्यानम्, अध्वयुकर्तृकप्रैषदानकथनं चेत्यादि


ब्राह्मण ४ तिस्र उपसदिष्टयः

४-तिस्रउपसदिष्टयः तत्रादौ तासां प्रवर्ग्यवतः प्रवर्ग्यानन्तर्यरूपकालविधानं, पूर्वाराह्वयोरनुष्ठेयोपसदोरग्निसोमविष्णूनां याज्यापुरोऽनुवाक्याप्रकारकथनम्, उप सदो लोकजयसाधनत्वेन नाम. निरुक्तिसहितं प्रशंसनं, प्रधानयागत्रयार्थं सार्थवादं जुह्वादिष्वाज्यग्रहणप्रकार- कथनम्, उत्तरस्य स्रुच्याघारस्य निषेध करणम्,आश्रवणानन्तरभाविनीं प्राकृतां होतुर्वरणोपवेशनसम्बन्धिनीमितिकर्त- ब्यतां निषिध्य ' सीद होतः ' इति विशेषमात्रविधानं, होत्रा प्रसूतस्याध्वर्योः स्रुचोरादानादिप्रयोगसंगतिदर्शनम्, अतिक्रामतोऽनुवाचनविधानं सकृदतिक्रम्यैव समावयनेनाग्निसोमविष्णुदैवत्यं यागत्रयं साधयेदिति प्रतिपादनं, अग्न्यादियाग- त्रयस्य वज्ररूपत्वं संवत्सरतयोपपाद्य प्रशंसनं, सार्थवादमुपसदां त्रित्वं विधाय प्रशंसासहितं दिनत्रयेऽअपि द्विर्द्विरनुष्ठानविधानं, त्रित्वपक्षवदुपसद्द्वादशत्वपक्षस्य विकल्पेन विधानं प्रत्यहं द्विरनुष्ठानस्य शत्रुजयसम्पत्यानुकूल्यात्मना प्रशंसनं तत्सम्पत्ति साम्यदर्शनं लोकप्रकारनिदर्शनं च, दिनत्रयोपसद्धोममन्त्रतदर्थकथनं, द्वादशोपसत्पक्षे चतुश्चतुरहमेकैकयोपसदा यष्टव्यमिति न्यायसिद्धार्थस्य प्रदर्शनं, व्रतोपसदां मीमांसा द्वादशोपसत्पक्षे व्रतप्रकारकथनं चेत्यादि