शतपथब्राह्मणम्/काण्डम् ३/अध्यायः ४/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search


३.४.२. प्रवर्ग्यकर्मणि तानूनप्त्रम्

आतिथ्येन वै देवा इष्ट्वा । तान्त्समदविन्दत्ते चतुर्धा व्यद्रवन्नन्योऽन्यस्य श्रियाऽअतिष्ठमाना अग्निर्वसुभिः सोमो रुद्रैर्वरुण आदित्यैरिन्द्रो मरुद्भिर्बृहस्पतिर्विश्वैर्देवैरित्यु हैक आहुरेते ह त्वेव ते विश्वे देवा ये ते चतुर्धा व्यद्रवंस्तान्विद्रुतानसुररक्षान्यनुव्यवेयुः - ३.४.२.[१]

तेऽविदुः । पापीयांसो वै भवामोऽसुररक्षसानि वै नोऽनुव्यवागुर्द्विषद्भ्यो वै रध्यामो हन्त संजानामहा एकस्य श्रियै तिष्ठामहा इति त इन्द्रस्य श्रिया अतिष्ठन्त तस्मादाहुरिन्द्रः सर्वा देवता इन्द्रश्रेष्ठा देवा इति - ३.४.२.[२]

तस्मादु ह न स्वा ऋतीयेरन् । य एषां परस्तरामिव भवति स एनाननुव्यवैति ते प्रियं द्विषतां कुर्वन्ति द्विषद्भ्यो रध्यन्ति तस्मान्नऽर्तीयेरन्त्स यो हैवं विद्वान्नऽर्तीयतेऽप्रियं द्विषतां करोति न द्विषद्भ्यो रध्यति तस्मान्नऽर्तीयेत - ३.४.२.[३]

ते होचुः । हन्तेदं तथा करवामहै यथा न इदमाप्रदिवमेवाजर्यमसदिति - ३.४.२.[४]

ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति कस्योपद्रष्टुरिति तनूनप्तुरेव शाक्वरस्येति यो वा अयमेष तनूनपाच्छाक्वरः सोऽयं प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ - ३.४.२.[५]

तस्मादाहुः । मनो देवा मनुष्यस्याजानन्तीति मनसा संकल्पयति तत्प्राणमपिपद्यते प्राणो वातं वातो देवेभ्य आचष्टे यथा पुरुषस्य मनः - ३.४.२.[६]

तस्मादेतदृषिणाभ्यनूक्तम् । मनसा संकल्पयति तद्वातमपिगच्छति वातो देवेभ्य आचष्टे यथा पुरुष ते मन इति - ३.४.२.[७]

ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे ते होचुरेतेन नः स नानासदेतेन विष्वङ्यो न एतदतिक्रामादिति तद्देवा अप्येतर्हि नातिक्रामन्ति के हि स्युर्यदतिक्रामेयुरनृतं हि वदेयुरेकं ह वै देवा व्रतं चरन्ति सत्यमेव तस्मादेषां जितमनपजय्यं तस्माद्यश एवं ह वा अस्य जितमनपजय्यमेवं यशो भवति य एवं विद्वान्त्सत्यं वदति तदेतत्तानूनप्त्रं निदानेन - ३.४.२.[८]

ते देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरेऽथैत आज्यान्येव गृह्णाना जुष्टास्तनूः प्रियाणि धामानि सार्धं समवद्यन्ते तस्मादु ह न सर्वेणेव समभ्यवेयान्नेन्मे जुष्टास्तन्वः प्रियाणि धामानि सार्धं समभ्यवायानिति येनो ह समभ्यवेयान्नास्मै द्रुह्येदिदं ह्याहुर्न सतानुनप्त्रिणे द्रोग्धव्यमिति - ३.४.२.[९]

अथातो गृह्णात्येव । आपतये त्वा परिपतये गृह्णामीति यो वा अयं पवत एष आ च पतति परि च पतत्येतस्मा उ हि गृह्णाति तस्मादाहापतये त्वा परिपतये गृह्णामीति - ३.४.२.[१०]

तनूनप्त्रे शाक्वरायेति । यो वा अयं पवत एष तनूनप्ता शाक्वर एतस्मा उ हि गृह्णाति तस्मादाह तनूनप्त्रे शाक्वरायेति - ३.४.२.[११]

शक्वन ओजिष्ठायेति । एष वै शक्वौजिष्ठ एतस्मा उ हि गृह्णाति तस्मादाह शक्वन ओजिष्ठायेति - ३.४.२.[१२]

अथातः समवमृशन्त्येव । एतद्ध देवा भूयः समामिर इत्थं नः सोऽमुथासद्यो न एतदतिक्रामादिति तथो एवैत एतत्सममन्त इत्थं नः सोऽमुथासद्यो न एतदतिक्रामादिति - ३.४.२.[१३]

ते समवमृशन्ति । अनाधृष्टमस्यनाधृष्यं देवानामोज इत्यनाधृष्टा हि देवा आसन्ननाधृष्याः सह सन्तः समानं वदन्तः समानं दध्राणा देवानामोज इति देवानां वै जुष्टास्तन्वः प्रियाणि धामान्यनभिशस्त्यभिशस्तिपा अनभिशस्तेन्यमिति सर्वां हि देवा अभिशस्तिं तीर्णा अञ्जसा सत्यमुपगेषमिति सत्यं वदानि मेदमतिक्रमिषमित्येवैतदाह स्विते मा धा इति स्विते हि तद्देवा आत्मानमदधत यत्सत्यमवदन्यत्सत्यमकुर्वंस्तस्मादाह स्विते मा धा इति - ३.४.२.[१४]

अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तदिन्द्रे संन्यदधतैष वा इन्द्रो य एष तपति न ह वा एषोऽग्रे तताप यथा हैवैदमन्यत्कृष्णमेवं हैवास तेनैवैतद्वीर्येण तपति तस्माद्यदि बहवो दीक्षेरन्गृहपतय एव व्रतमभ्युत्सिच्य प्रयच्छेयुः स हि तेषामिन्द्रभाजनम्भवति यद्यु दक्षिणावता दीक्षेत यजमानायैव व्रतमभ्युत्सिच्य प्रयच्छेयुरिदं ह्याहुरिन्द्रो यजमान इति - ३.४.२.[१५]

अथ यास्तद्देवाः । जुष्टास्तनूः प्रियाणि धामानि सार्धं समवददिरे तत्सार्धं संजघ्ने तत्सामाभवत्तस्मादाहुः सत्यं साम देवजं सामेति - ३.४.२.[१६]