शतपथब्राह्मणम्/काण्डम् ३/अध्यायः १

विकिस्रोतः तः

ज्योतिष्टोमयागाधिकारः


ब्राह्मणम् १ अग्निष्टोमे देवयजनम्

१ आदौ शालानिर्माणप्रभृति-दीक्षाहुतिपर्यन्ताग्निष्टोमेतिकर्तव्यताविधानं तत्र पूर्वं शालानिर्माणार्थं देवयजनपरिग्रहः, तत्रापि समत्वोदक्पूर्वप्रवरणत्वादिधर्मविशेषानुकथनं, देवयजनप्राग्देशे परिमितप्रदेशाधिक्यस्य निषेधः, ऋषीणामाख्यानमुखेन देवयजनस्य प्राचीनवंशत्वानुगतं पक्षान्तरविधानं, प्रसंगाद्दीक्षितस्य शयनविषयकनियमविधानं, वृष्ट्यादिपरिहाराय सर्वतः परिश्रयणविधानं, तत्र- अत्रैवर्णिकानां शूद्रादीनामभिप्राप्तेर्निषेधः, दीक्षितस्य सर्वैः सह वाग्व्यवहारस्य निषेधः, समंत्रकशालाप्रवेशकथनं तन्मंत्रव्याख्यानं चेति.

ब्राह्मणम् २ दीक्षासंस्काराः

२ दीक्षासंस्काराः-तत्र पूर्वमप्सुदीक्षा तस्यां च दीक्षाकालविधानं, दीक्षितस्याशनविषये सर्वान्नाभ्यनुज्ञानं, शालोत्तरतः क्षौरार्थं परिश्रयणविधानं, सर्वाङ्गवपनपक्षस्य निरा- करणं, सक्रमं सप्रकारकं समंत्रकं वपनविधानं, वपननिमित्तकाशुद्धिं परिहर्तुं सप्रकारकं स्नानविधानं, सार्थवादं प्रासङ्गिकपुरुषार्थनियम- सहितं समंत्रकमहतवासःपरिधान-
विधानं, क्षौरानंतरं स्नातस्य भृतवाससो दीक्षितस्य शालाप्रवेशविधानम्, अत्राप्यवसरे सोपपत्तिकमशनविषयकनियमानुकथनं चेति.


ब्राह्मणम् ३ अपःप्रणयनम्, आग्नावैष्णवीष्टि इत्यादि

३ अपःप्रणयनं कृत्वा दीक्षाङ्गभूताया आग्नावैष्णवेष्टेः प्रयोगविधानं, तत्र च स्वसमृद्धिफलकामस्यादित्यचरोर्वैकल्पिकं विधानं, तत्प्रसङ्गेन मार्तण्डस्योत्पत्तिः, सामिधेनीनां साप्त- दश्यं-प्रयाजानां पञ्चसंख्याकत्वम्-अनुयाजानां त्रित्वं-पत्नीसंयाजा- नामस्तित्वं - समिष्टयजुषोऽभावश्चेत्यादिप्रयोगगतविशेषकथनं, ततो- दीक्षितस्य सार्थवादं सोपक्रमोपसंहारं स्वधर्मकं नवनीताभ्यङ्गविधानं, पौर्वापर्यक्रमसहितं ससाधनं सार्थवादं समन्त्रकं त्रैककुदेनाक्ष्णोरञ्जनविधानं, समन्त्रकं दीक्षितस्य दर्भैः पावनविधानं, तन्मन्त्रव्याख्यानं च, आशीराशंसनं, सप्रकारकं हस्तद्वयेऽप्यङ्गुलीनां न्यञ्चनं तत्साधनमंत्रव्याख्यानं च, दीक्षाहुत्यर्थं शालाप्रवेशनविधानं चेत्यादि.


ब्राह्मणम् ४ औद्ग्रभणहोमः।दीक्षाहुतिः

४ एवं दीक्षासंस्कारकरणानन्तरमौद्ग्रभणसंज्ञकानां पञ्चानां दीक्षाहुतीनां विधानम्,एतासामुद्ग्रहणसाधनताया विभागपूर्वकं प्रशंसनं, पुरातनवृत्तान्तप्रदर्शनमुखेनैतेषां स्वर्गोद्ग्रहणसाधनतया उपपादनं, तद्गतपञ्चसंख्यायाः प्रशंसनं, होममंत्रव्याख्यानं तत्र तृतीयमंत्रस्य जप्यताविधानं च, होमे तृतीयमंत्रस्य व्याख्यानम्, उक्तमंत्रत्रयेऽग्नेः प्रसङ्गप्रदर्शनं, तत्र प्रसिद्धदेवतानामभावं दर्शयित्वा देवतासिद्धिप्रतिपादनं, चतुर्थ्या आहुतेः समंत्रं विधानं तन्मंत्रव्याख्यान च, उक्ताहुतिचतुष्टयस्याज्यस्थाल्याः स्रुवेण होमविधानं, पञ्चम्या आहुतेर्ध्रौवाज्येन स्रुचा होमविधानं, तस्य मन्त्रं विधाय प्रशंसनम्, एवं पञ्चाहुतिपक्षमुक्त्वा पञ्चमीमेवैकां जुहुयादिति कस्यचित्पक्षकथनं, अक्षरसंख्याद्वारा तन्मंत्रप्रशंसनं वेति. इत्यप्सुदीक्षा