शतपथब्राह्मणम्/काण्डम् ३/अध्यायः १/ब्राह्मणम् ३

विकिस्रोतः तः
Jump to navigation Jump to search


३.१.३

अपः प्रणीय । आग्नावैष्णवमेकादशकपालं पुरोडाशं निर्वपत्यग्निर्वै सर्वा देवता अग्नौ हि सर्वाभ्यो देवताभ्यो जुह्वत्यग्निर्वै यज्ञस्यावरार्ध्यो विष्णुः परार्ध्यस्तत्सर्वाश्चैवैतद्देवताः परिगृह्य सर्वं च यज्ञं परिगृह्य दीक्षा इति तस्मादाग्नावैष्णव एकादशकपालः पुरोडाशो भवति - ३.१.३.[१]

तद्धैके । आदित्येभ्यश्चरुं निर्वपन्ति तदस्ति पर्युदितमिवाष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यदिति - ३.१.३.[२]

अष्टौ ह वै पुत्रा अदितेः । यांस्त्वेतद्देवा आदित्या इत्याचक्षते सप्त हैव तेऽविकृतं हाष्टमं जनयां चकार मार्ताण्डं संदेघो हैवास यावानेवोर्ध्वस्तावांस्तिर्यङ्पुरुषसम्मित इत्यु हैक आहुः - ३.१.३.[३]

त उ हैत ऊचुः । देवा आदित्या यदस्मानन्वजनिमा तदमुयेव भूद्धन्तेमं विकरवामेति तं विचक्रुर्यथायं पुरुषो विकृतस्तस्य यानि मांसानि संकृत्य संन्यासुस्ततो हस्ती समभवत्तस्मादाहुर्न हस्तिनं प्रतिगृह्णीयात्पुरुषाजानो हि हस्तीति यमु ह तद्विचक्रुः स विवस्वानादित्यस्तस्येमाः प्रजाः - ३.१.३.[४]

स होवाच । राध्नवान्मे स प्रजायां य एतमादित्येभ्यश्चरुं निर्वपादिति राध्नोति हैव य एतमादित्येभ्यश्चरुं निर्वपत्ययं त्वेवाग्नावैष्णवः प्रज्ञातः - ३.१.३.[५]

तस्य सप्तदश सामिधेन्यो भवन्ति । उपांशु देवते यजति पञ्च प्रयाजा भवन्ति त्रयोऽनुयाजाः संयाजयन्ति पत्नीः सर्वत्वायैव समिष्टयजुरेव न जुहोति नेदिदं दीक्षितवसनं परिधाय पुरा यज्ञस्य संस्थाया अन्तं गच्छानीत्यान्तो हि यज्ञस्य समिष्टयजुः - ३.१.३.[६]

अथाग्रेण शालां तिष्ठन्नभ्यङ्क्ते । अरुर्वै पुरुषोऽवच्छितोऽनरुरेवैतद्भवति यदभ्यङ्क्ते गवि वै पुरुषस्य त्वग्गोर्वा एतन्नवनीतं भवति स्वयैवैनमेतत्त्वचा समर्धयति तस्माद्वा अभ्यङ्क्ते - ३.१.३.[७]

तद्वै नवनीतं भवति । घृतं वै देवानां फाण्टम्मनुष्याणामथैतन्नाहैव घृतं नो फाण्टं स्यादेव घृतं स्यात्फाण्टमयातयामतायै तदेनमयातयाम्नैवायातयामानं करोति - ३.१.३.[८]

तमभ्यनक्ति । शीर्षतोऽग्र आ पादाभ्यामनुलोमं महीनां पयोऽसीति मह्य इति ह वा एतासामेकं नाम यद्गवां तासां वा एतत्पयो भवति तस्मादाह महीनाम्पयोऽसीति वर्चोदा असि वर्चो मे देहीति नात्र तिरोहितमिवास्ति - ३.१.३.[९]

अथाक्ष्यावानक्ति । अरुर्वै पुरुषस्याक्षि प्रशान्ममेति ह स्माह याज्ञवल्क्यो दुरक्ष इव हास पूयो हैवास्य दूषीका ते एवैतदनरुष्करोति यदक्ष्यावानक्ति - ३.१.३.[१०]

यत्र वै देवाः । असुररक्षसानि जघ्नुस्तच्छुष्णो दानवः प्रत्यङ्पतित्वामनुष्याणामक्षीणि प्रविवेश स एष कनीनकः कुमारक इव परिभासते तस्माएवैतद्यज्ञमुपप्रयन्त्सर्वतोऽश्मपुरां परिदधात्यश्मा ह्याञ्जनम् - ३.१.३.[११]

त्रैककुदं भवति । यत्र वा इन्द्रो वृत्रमहंस्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत्तद्यत्त्रैककुदं भवति चक्षुष्येवैतच्चक्षुर्दधाति तस्मात्त्रैककुदं भवति यदि त्रैककुदं न विन्देदप्यत्रैककुदमेव स्यात्समानी ह्येवाञ्जनस्य बन्धुता - ३.१.३.[१२]

शरेषीकयानक्ति । वज्रो वै शरो विरक्षस्तायै सतूला भवत्यमूलं वा इदमुभयतः परिच्छिन्नं रक्षोऽन्तरिक्षमनुचरति यथायं पुरुषोऽमूल उभयतः परिच्छिन्नोऽन्तरिक्षमनुचरति तद्यत्सतूला भवति विरक्षस्तायै - ३.१.३.[१३]

स दक्षिणमेवाग्र आनक्ति । सव्यं वा अग्रे मानुषेऽथैवं देवत्रा - ३.१.३.[१४]

स आनक्ति । वृत्रस्यासि कनीनक इति वृत्रस्य ह्येष कनीनकश्चक्षुर्दा असि चक्षुर्मे
देहीति नात्र तिरोहितमिवास्ति - ३.१.३.[१५]

स दक्षिणं सकृद्यजुषानक्ति । सकृत्तूष्णीमथोत्तरं सकृद्यजुषानक्ति द्विस्तूष्णीं
तदुत्तरमेवैतदुत्तरावत्करोति - ३.१.३.[१६]

तद्यत्पञ्च कृत्व आनक्ति । संवत्सरसम्मितो वै यज्ञः पञ्च वा ऋतवः संवत्सरस्य तं पञ्चभिराप्नोति तस्मात्पञ्च कृत्व आनक्ति - ३.१.३.[१७]

अथैनं दर्भपवित्रेण पावयति । अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतो मेध्या वै दर्भा मेध्यो भूत्वा दीक्षा इति पवित्रं वै दर्भाः पवित्रपूतो दीक्षा इति तस्मादेनं दर्भपवित्रेण पावयति - ३.१.३.[१८]

तद्वा एकं स्यात् । एको ह्येवायं पवते तदेतस्यैव रूपेण तस्मादेकं स्यात् - ३.१.३.[१९]

अथो अपि त्रीणि स्युः । एको ह्येवायं पवते सोऽयं पुरुषेऽन्तःप्रविष्टस्त्रेधाविहितः प्राण उदानो व्यान इति तदेतस्यैवानु मात्रां तस्मात्त्रीणि स्युः - ३.१.३.[२०]

अथो अपि सप्त स्युः । सप्त वा इमे शीर्षन्प्राणास्तस्मात्सप्त स्युस्त्रिःसप्तान्येव
स्युरेकविंशतिरेषैव सम्पत् - ३.१.३.[२१]

तं सप्तभिः सप्तभिः पावयति । चित्पतिर्मा पुनात्विति प्रजापतिर्वै चित्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह वाक्पतिर्मा पुनात्विति प्रजापतिर्वै वाक्पतिः प्रजापतिर्मा पुनात्वित्येवैतदाह देवो मा सविता पुनात्विति तद्वै सुपूतं यं देवः सविता पुनात्तस्मादाह देवो मा सविता पुनात्वित्यच्छिद्रेण पवित्रेणेति यो वा अयं पवत एषोऽच्छिद्रं पवित्रमेतेनैतदाह सूर्यस्य रश्मिभिरित्येते वै पवितारो यत्सूर्यस्य रश्मयस्तस्मादाह सूर्यस्य रश्मिभिरिति - ३.१.३.[२२]

तस्य ते पवित्रपत इति । पवित्रपतिर्हि भवति पवित्रपूतस्येति पवित्रपूतो हि भवति यत्कामः पुने तच्छकेयमिति यज्ञस्योदृचं गच्छानीत्येवैतदाह - ३.१.३.[२३]

अथाशिषामारम्भं वाचयति । आ वो देवास ईमहे वामं प्रयत्यध्वरे आ वो देवास आशिषो यज्ञियासो हवामह इति तदस्मै स्वाः सतीर्ऋत्विज आशिष आशासते - ३.१.३.[२४]

अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनस इति द्वे स्वाहोरोरन्तरिक्षादिति द्वे स्वाहा द्यावापृथिवीभ्यामिति द्वे स्वाहा वातादारभ इति मुष्टीकरोति न वै यज्ञः प्रत्यक्षमिवारभे यथायं दण्डो वा वासो वा परोऽक्षं वै देवाः परोऽक्षं यज्ञः -३.१.३.[२५]

स यदाह । स्वाहा यज्ञं मनस इति तन्मनस आरभते स्वाहोरोरन्तरिक्षादिति तदन्तरिक्षादारभते स्वाहा द्यावापृथिवीभ्यामिति तदाभ्यां द्यावापृथिवीभ्यामारभते ययोरिदं सर्वमधि स्वाहा वातादारभ इति वातो वै यज्ञस्तद्यज्ञं प्रत्यक्षमारभते - ३.१.३.[२६]

अथ यत्स्वाहा स्वाहेति करोति । यज्ञो वै स्वाहाकारो यज्ञमेवैतदात्मन्धत्तेऽत्रो एव वाचं यच्छति वाग्वै यज्ञो यज्ञमेवैतदात्मन्धत्ते - ३.१.३.[२७]

अथैनं शालां प्रपादयति । स जघनेनाहवनीयमेत्यग्रेण गार्हपत्यं सोऽस्य संचरो भवत्या सुत्यायै तद्यदस्यैष संचरो भवत्या सुत्याया अग्निर्वै योनिर्यज्ञस्य गर्भो दीक्षितोऽन्तरेण वै योनिं गर्भः संचरति स यत्स तत्रैजति त्वत्परि त्वदावर्तते तस्मादिमे गर्भा एजन्ति त्वत्परि त्वदावर्तन्ते तस्मादस्यैष संचरो भवत्या सुत्यायै - ३.१.३.[२८]