सामग्री पर जाएँ

आपस्तम्बीय श्रौतप्रयोगः/अग्निष्टोमप्रयोगे प्रथमोऽध्यायः

विकिस्रोतः तः

॥ अग्निष्टोमप्रयोगः ॥
॥ अथ प्रथमोऽध्यायः ॥
सोमसङ्कल्पः :
अथ सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते । यूनस्स्थविरान् वा अनूचानानूर्ध्ववाचोऽनङ्गहीनान् । तेभ्यस्सोमं प्राह । वसन्तेऽमावास्यायां पौर्णमास्यां वा सुत्या यथा स्यात्तथोपक्रमः कर्तव्यः । प्रथमसोमे[] 1:- अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । त्रिपुरुषसोमपीथविच्छेदनसन्धानार्थं ऐन्द्राग्नपशुं, दौर्ब्राह्मण्य निर्हरणार्थं आश्विनं पशुं, अग्नीषोमीयेन पशुना सहालम्भ्यौ कुर्वन्[] 2 सोमेन यक्ष्ये । ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरेण साम्ना द्वादशशतदक्षिणेन सप्रवर्ग्येण तेन परमेश्वरं प्रीणयानि । एका दीक्षा इति पक्षे एकादश्यामुपक्रमः । तिस्रो दीक्षा इति पक्षे नवम्यामुपक्रमः । यस्य पित्रादयः इष्टप्रथमयज्ञास्स ऐन्द्राग्नेनेष्ट्वाथ सोमेन यजेत । अपि वा अग्नीषोमीयेन सहोपालम्भ्यं कुर्यात् । अथ सङ्कल्पः । प्रातरग्निहोत्रं हुत्वा अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य, देशकालौ सङ्कीर्त्य ममोपात्त --- सोमेन यक्ष्ये ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरेण साम्ना द्वादशशतदक्षिणेन सप्रवर्ग्येण तेन परमेश्वरं प्रीणयानि । विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति ।

सोमप्रवाकः

सोमप्रवाकवरणं, ऋत्विग्भ्यः सोमनिवेदनं च :-
अस्मिन् ज्योतिष्टोमेऽग्निष्टोमे सोमे सोमप्रवाकं त्वां वृणीमहे इति वृत्वा, वृतोऽस्मि करिष्यामीति सोमप्रवाकः । मधुपर्कादिभिरभ्यर्च्य । सोमप्रवाक सोमं मे प्रब्रूहि ऋत्विग्भ्य इत्याह । केभ्य इति सोमप्रवाकेनोक्ते । यजमानः :- विष्णुशर्मादिभ्य इत्याह । अथ सोमप्रवाकः प्रथममध्वर्युगृहं गत्वा यज्ञशर्मणस्सोमो भविष्यति तत्र भवता आध्वर्यवं कर्तव्य इत्याह । अध्वर्युस्तं पृच्छति क ऋत्विज इति । आधानादिषु कर्मसु देवदत्तादय इत्याह सोमप्रवाकः । पुनश्च के याजयन्ति इति पृच्छति । ते चान्ये च[] 3 इत्याह । अध्वर्युणा कच्चिन्नाहीनः इति पृष्टे । नाहीनो ज्योतिष्टोमोऽग्निष्टोमः सोम इत्याह । अध्वर्युणा कच्चिन्न न्यस्तमार्त्विज्यं[] 4 इति पृष्टे । न न्यस्तमार्त्विज्यं यजमानदोषेण इत्याह । अध्वर्युणा कच्चित् कल्याण्यो दक्षिणाः इति पृष्टे । सोमप्रवाकः सन्ति कल्याण्यो दक्षिणास्सुरूपाः
 
बहुमूल्याः द्वादशशतं गावः इत्याह । अथाध्वर्युर्जपति महन्मे वोचो भर्गो मे वोचो यशो मे वोचस्स्तोमं मे वोचः क्लृप्तिं मे वोचो भुक्तिं मे वोचस्सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय इति जपित्वा । पद्वा नामासि स्रुतिस्सोमसरणी सोमं गमेयम् यजमानगृहं गच्छन् पन्थानमातिष्ठते । देवो देवमेतु सोमस्सोममेत्वृतस्य पथा विहाय दौष्कृत्यम् इत्यभिप्रव्रजति । पितरो भूः प्राचीनावीती दक्षिणावृत्तस्स्वान् पितॄनुपतिष्ठते । यज्ञोपवीत्यप उपस्पृश्य । जीवत्पितृकस्य नोपस्थानम् । प्रतिप्रस्थातृनेष्ट्रुन्नेतॄणां क्रमेणैवम् । एवं भवता ब्रह्मत्वं कर्तव्यमित्यादि प्रश्नप्रतिवचने पूर्ववत् । ब्राह्मणाच्छंस्याग्नीध्रपोतॄणां क्रमेणैवम् ।
होतृगणस्य प्रश्नप्रतिवचने :-
यज्ञशर्मणः सोमो भविष्यति तत्र भवता हौत्रं कर्तव्यम् । को यज्ञः । ज्योतिष्टोमोऽग्निष्टोमस्सोमः । क ऋत्विजः । नारायणशर्मादयः । का दक्षिणा । द्वादशशतं गावो दक्षिणाः । मैत्रावरुणाच्छावाकग्रावस्तुतां क्रमेणैवम् ।
उद्गातॄणां प्रश्नप्रतिवचने :-
यज्ञशर्मणस्सोमो भविष्यति तत्र भवता औद्गात्रं कर्तव्यं इत्यादि प्रश्नप्रतिवचने अध्वर्युवत् । प्रस्तोतृप्रतिहर्तृसुब्रह्मण्यानां क्रमेणैवम् ।
सदस्यस्य प्रश्नप्रतिवचने :-
यज्ञशर्मणस्सोमो भविष्यति तत्र भवता सदस्यत्वं कर्तव्यम् । प्रश्नप्रतिवचने अध्वर्युवत् । महर्त्विग्वरण पक्षे चतुर्णामेव ।
ऋत्विग्वरणम् :-
यजमानः अस्मिन् ज्योतिष्टोमेऽग्निष्टोमे सोमे अध्वर्युं त्वां वृणीमहे । वृतोऽस्मि करिष्यामीत्यध्वर्युः । एवं ब्रह्माणं होतारं उद्गातारं च वृणीते । तान् वृणिते चतुरस्सर्वान् वा । यजमानः :- अग्निर्मे होता [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इति होतारम् । आदित्यो मेऽध्वर्युः [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इत्यध्वर्युम् । चन्द्रमा मे ब्रह्मा [उपांशु] अमुकशर्मा मानुषः [उच्चैः] ब्रह्माणम । पर्जन्यो म उद्गाता [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इत्युद्गातारम् । चतुर्णां वरणपक्षे मन्त्रवरणेन अवृता एवेतरे स्वस्वकर्मभ्यः पुरस्तादमुकं त्वामहं वृणे अमुकं त्वामहं वृणे इति वृताः कर्म कुर्वन्ति
सर्ववरणपक्षे = आकाशो मे सदस्यः [उपांशु] अमुकशर्मा मानुषः [उच्चैः] इति सदस्यपक्षे । आपो मे होत्राशंसिनः [उपांशु] अमुकशर्माणो मानुषाः [उच्चैः] इति सप्तहोत्रकान् युगपद्वृणीते । रश्मयो मे चमसाध्वर्यवः [उपांशु] अमुकशर्माणो मानुषाः [उच्चैः] इति दश चमसाध्वर्यून् युगपद्वृणीते
 

। ततः प्रतिप्रस्थातृप्रस्तोतृप्रतिहर्तृग्रावस्तोत्रुन्नेतृसुब्रह्मण्यान् वृणीते । ततो मन्त्रवरणक्रमेण तेभ्यो मधुपर्कं ददाति । स्वस्वगृह्योक्तेन विधिना । प्रथमं होत्रे होतृवदुद्गातुश्च । सर्वेभ्यो मधुपर्कं दत्वा 1 ।
देवतोपस्थानं, नान्दीश्राद्धञ्च :-
देवता एवोपतिष्ठेत गार्हपत्यस्य पश्चात्तिष्ठन् सक्षेदं पश्य विधर्तरिदं पश्य नाकेदं पश्य । रमतिः पनिष्ठतं वर्षिष्ठममृतायान्याहुः । सूर्यो वरिष्ठो अक्षभिर्विभात्यनु द्यावापृथिवी देवपुत्रे । अत्र वा प्रवर्ग्यसम्भरणम् । ततो यजमानो नान्दीश्राद्धं करोति । तत्र दक्षक्रतुसंज्ञका विश्वेदेवा इति विशेषः ।
देवयजनगमनम् :
अयं ते योनिर्ऋत्वियः यतो जातो अरोचथाः । तं जाननग्न आरोहाथा नो वर्धया रयिम् इति गार्हपत्यं अरण्योस्समारोप्य, आत्मसमारोपणं वा (अपस्तम्बानामेव) । यज्ञोपकरणैस्सह पत्न्या अन्वारब्धो देवयजनं गत्वा पादौ प्रक्षाल्य आचम्य । एदमगन्म देवयजनं पृथिव्या विश्वे देवा यदजुषन्त पूर्व ऋक्सामाभ्यां यजुषा सन्तरन्तो रायस्पोषेण समिषा मदेम यजमानो देवयजनमध्यवस्यति । प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् । यदा पूर्णमासे दीक्षा तदा देवयजनमध्यवस्यतीत्यन्तं कृत्वा युञ्जते मन इत्यादि देवपुरश्चरसघ्यासं त्वेत्यन्तं प्रवर्ग्यसम्भरणम् । अध्वर्युः :- उद्धत्यावोक्ष्य, ततो मथित्वा उपावरोह्य वा आयतने निदधाति । यजमानः :- द्रव्यनिर्देशं करोति । आज्यं पशवः पुरोडाशीया एते मे यज्ञार्थाः तेषु यावद्यज्ञमुपयोक्ष्ये, तावन्मे यज्ञार्थं, शेषाद्ब्राह्मणा भुञ्जीरन् ।
सम्भारयजुषः हवनम् :-
अध्वर्युः – आहवनीयं विहृत्य सम्भारयजूंषि जुहोति । लौकिकाज्येन जुह्वां सकृत्सकृद्गृहीत्वा अग्निर्यजुर्भिस्स्वाहा । अग्नये यजुर्भ्य इदम् । सविता स्तोमैस्स्वाहा । सवित्रे स्तोमेभ्य इदम् । इन्द्र उक्थामदैस्स्वाहा । इन्द्रायोक्थामदेभ्य इदम् । मित्रावरुणावाशिषा स्वाहा । मित्रावरुणाभ्यामाशिष इदम् । अङ्गिरसो धिष्णियैरग्निभिस्स्वाहा। अङ्गिरोभ्यो धिष्णियेभ्योऽग्निभ्य इदम् । मरुतस्सदो
१. ततस्समारोहणम् अयं ते योनिर्ऋत्वियः यतो जातो अरोचथाः । तं जानन्नग्न आरोहाथा नो वर्धया रयिं इति गार्हपत्ये अरणी निष्टप्य, देवयजनं प्राप्य पादौ प्रक्षाल्य आचम्य । यजमानः - एदमगन्म देवयजनं पृथिव्या विश्वेदेवा यदजुषंत पूर्व ऋक्सामाभ्यां यजुषा संतरंतो रायस्पोषेण समिषा मदेम देवयजनमध्यवस्यति । प्राग्वंशस्य मध्यमं स्थूणाराजमारभ्य जपतीति वाजसनेयकम् । अध्वर्युः :- तूष्णीमायतनान्युद्धत्यावोक्ष्य, मथित्वा उपावरोह्य वा आयतने निधाय द्रव्यनिर्देशः इति अ. ह पाठः ।

 
हविर्धानाभ्याᳪ、 स्वाहा । मरुद्भ्यः सदोहविर्धानाभ्यामिदम् । आपः प्रोक्षिणीभिस्स्वाहा । अद्भ्यः प्रोक्षणीभ्य इदम् । ओषधयो बर्हिषा स्वाहा । ओषधीभ्यो बर्हिष इदम् । अदितिर्वेद्या स्वाहा । अदित्यै वेद्या इदम् । सोमो दीक्षया स्वाहा । सोमाय दीक्षाया इदम् । त्वष्टेध्मेन स्वाहा । त्वष्ट्र इध्मायेदम् । विष्णुर्यज्ञेन स्वाहा । विष्णवे यज्ञायेदम् । वसव आज्येन स्वाहा । वसुभ्य आज्यायेदम् । आदित्या दक्षिणाभिस्स्वाहा । आदित्येभ्यो दक्षिणाभ्य इदम् । विश्वे देवा ऊर्जा स्वाहा । विश्वेभ्यो देवेभ्य ऊर्ज इदम् । पूषा स्वगाकारेण स्वाहा । पूष्णे स्वगाकारायेदम् । बृहस्पतिः पुरोधया स्वाहा । बृहस्पतये पुरोधाया इदम् । प्रजापतिरुद्गीथेन स्वाहा । प्रजापतय उद्गीथायेदम् । अन्तरिक्षं पवित्रेण स्वाहा । अन्तरिक्षाय पवित्रायेदम् । वायुः पात्रैस्स्वाहा । वायवे पात्रेभ्य इदम् । अहᳪँ、 श्रद्धया स्वाहा । मह्यᳪँ、 श्रद्धाया इदम् ।
सोमपूजा, सप्तहोतृहोमश्च :-
अपरित्यज्याग्निं अत्र राजानमाहृत्य अध्वर्युब्रह्मयजमानाः नमस्सोमाय राज्ञे इति गन्धादिभिरभ्यर्च्य । पयसौदनेन परिवेविषन्ति आ क्रयात् । धूपदीपौ न स्तः[] 1 । अग्निं परित्यज्य । पुनर्विहृत्य जुह्वां सकृद्गृहीत्वा । सप्तहोतारं मनसानुद्रुत्य आहवनीये सग्रहं जुहोति । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । सोमे सप्तहोतारं हुत्वा पुनर्विहृत्य कूश्माण्डैर्जुहोति । अग्निं परित्यज्य ।
दीक्षणीयेष्टेः पुरस्तात् आहवनीयोपस्थानम् :-
दीक्षणीयार्थं गार्हपत्यादाहवनीयमुद्धृत्य । दक्षिणाग्निं प्रणीय आहवनीयं प्रणयति । स्वे दक्षे दक्षपितेह सीद देवानाꣳ सुम्नो महते रणाय । स्वासस्स्थस्तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवः । शिवो मा शिवमाविश सत्यं मा आत्मा श्रद्धा मेऽक्षितिस्तपो में प्रतिष्ठा सवितृप्रसूता मा दिशो दीक्षयन्तु सत्यमस्मि पुरस्ताद्दीक्षणीयाया आहवनीयं यजमान उपतिष्ठते ।
 
दीक्षणीयेष्टिः
अथ दीक्षणीयायास्तन्त्रं प्रक्रमयति ।
आरम्भतः प्राग्यदि होमकालो हुत्वाग्निहोत्रं त्वथ दीक्षणीया ।
प्रधानयागात्पुरतो यदि स्यात् तदैव होमः परतो न होमः ॥
अध्वर्युः :- देवा गातुविद इत्यादि । अद्य यज्ञाय, इमामूर्जमेकादशीं --- दैक्षणीयꣳ हविः । पौर्णमासं तन्त्रम् । सप्तदश सामिधेन्यः । बर्हिराहृत्य व्रतप्रवेशः । ततस्त्वां त्रयोविꣳशतिधा । अलङ्कृत्य, परिस्तीर्य, देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले एकादशकपालानि स्फ्यश्च द्वन्द्वम् । प्रणीताऽन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । न ब्रह्मवरणम् ।
न भूपतेऽहं न च सा म आशीर्न स्वामिभागो न च दक्षिणात्र ।
संपत्नीयं प्रागिह देवपत्न्या आज्येडया संस्थितिरत्र कार्या ॥
ब्रह्मा तूष्णीमतिक्रम्य मन्त्रेण निरसनोपवेशने करोति । अध्वर्युः - यजमान वाचं यच्छ । सं विशन्तां इत्यादि । निर्वपणकाले अग्नाविष्णुभ्यां जुष्टं निर्वपामि । अग्नाविष्णू हव्यꣳ रक्षेथाम् । अग्नाविष्णुभ्यां वो जुष्टं प्रोक्षामि । अग्नाविष्णुभ्यां जुष्टमधिवपामि । कपालानामुपधानकाले अष्टावुपधाय तूष्णीं त्रीणि । अग्नाविष्णुभ्यां जुष्टꣳ संवपामि । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने, चतुर्होतेत्यासन्नाभिमर्शनम् । होतरेहि, प्रस्तोतरेहि । अवद्यमाने साम । उपांशु प्रधानयागः । अग्नाविष्णुभ्यां (उपांशु)अनुब्रूहि (उच्चैः) । अग्नाविष्णू (उपांशु)यज (उच्चैः) । अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । अविरुज्य प्राशित्रम् । न यजमानभागम् । इडायां सा मे सत्याशीराशीर्म ऊर्जमिति न भवत्या सवनीयपश्विडान्तम् । न दक्षिणा । अग्नाविष्णवोरहमुज्जितिम् । एमा अग्मन्निति न भवत्या सवनीयात् । पुरस्ताद्देवपत्नीभ्यः संपत्नीयं जुहोति । आज्येडान्ता दीक्षणीया सन्तिष्ठते ।।
इत ऊर्ध्वं दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनं, आरण्याशनं, जागरणं, दक्षिणादानं, पत्न्यास्सन्नहनं, विमोचनमिति न विद्यन्त आ समाप्तेः । अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत, पत्न्याश्च सन्नहनम् । धारयति ध्रौवमाज्यम् ।
प्राचीनवंशकरणं, यजमानपत्न्योः दीक्षाङ्गसंस्काराः, क्षौरम् :-
प्राचीनवंशं करोति । षोडश प्रक्रमायामाः द्वादश व्यासः, पुरस्तादुन्नतं, पश्चान्निनतम् सर्वतः परिश्रितम् । अवान्तरदिक्षु स्रक्तयः, स्रक्तिष्वारोकान्करोति । प्रतिदिशं द्वाराणि । उत्तरेण बहिः प्राग्वंशं
 
[]परिश्रिते यजमानः केशश्मश्रु वापयते । अध्वर्युः :- तूष्णीं श्मश्रूपपक्षयोर्वपने कृत्वा अपि वा उपपक्षश्मश्रूणां वपने कृते । आप उन्दतु जीवसे दीर्घायुत्वाय वर्चसे दक्षिणं गोदानमुनत्ति ।
ओषधे त्रायस्वैनम् प्रागग्रं दर्भमन्तर्धाय । ओषधे त्रायस्व मा यजमानो जपति । स्वधिते मैनꣳ हिꣳसीः स्वधितिनाभिनिधाय । स्वधिते मा मा हिꣳसीः यजमानो जपति । देवश्रूरेतानि प्रवपे प्रवपति । स्वस्त्युत्तराण्यशीय यजमानो जपति । एवमुत्तरं गोदानम् । आप उन्दन्त्वित्याद्यशीयेत्यन्तम् । उपपक्षावग्रेऽथ श्मश्रूण्यथ केशान् । अपि वा श्मश्रूण्युपपक्षावथ केशान्[] 1 । पत्न्या उपपक्षश्मश्रूणां वपनं केशवर्जम् । नखनिकृन्तनमुभयोः । सव्यस्याग्रे कनिष्ठिकातः । अभ्यन्तरं नखानि कारयते । हस्त्यान्यग्रेऽथ पद्यानि ।
स्नानम् :
शौचार्थं स्नात्वौदुम्बरेण दतो धावते लोहितमनभिगमयन् । पत्न्या अपि दन्तधावनम् । स्थावरास्वप्सु स्नाति । शङ्खिनीष्ववकिनीषु लोमशे तीर्थे । कुण्डे हिरण्यं निधाय तस्मिन् स्नातीति वाजसनेयकम् । आपो अस्मान्मातरश्शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु विश्वमस्मत्प्र वहन्तु रिप्रम् ॥ हिरण्यवर्णाश्शुचयः पावकाः प्रचक्रमुर्हित्वाऽवद्यमापः । शतं पवित्रा वितता ह्यासु ताभिर्नो देवस्सविता पुनातु ॥ हिरण्यवर्णाश्शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः । अग्निं या गर्भं दधिरे विरूपास्ता न आपश्शᳪँ、 स्योना भवन्तु इति चैताभ्यां स्नाति । उदाभ्यश्शुचिरा पूत एमि उद्गाहमानो जपति । उदाभ्यश्शुचिरा पूतैमि इति पत्नी । आचम्य । कपोलपरिमितमपोऽश्नाति । पत्नी च । शुद्ध्यर्थमाचमनमुभौ कुरुतः ।
वस्त्रपरिधानम् :-
अथास्मै क्षौममहतं महद्वासः प्रयच्छत्यध्वर्युस्तूष्णीम् । तद्यजमानः प्रतिगृह्णाति । दीक्षासि तपसो योनिस्तपोऽसि ब्रह्मणो योनिर्ब्रह्मासि क्षत्रस्य योनिः, क्षत्रमस्यृतस्य योनिर् ऋतमसि भूरारभे श्रद्धां मनसा दीक्षां तपसा विश्वस्य भुवनस्याधिपत्नी सर्वे कामा यजमानस्य सन्तु तत्परिगृह्य । सोमस्य तनूरसि तनुवं मे पाहि दीक्षासि तनूरसि तां त्वा शिवां स्योनां परिधिषीय तत्परिधाय, आचम्य । सोमस्य नीविरसि इति नीविमनुपरिकल्पयते । लौकिकं वासस्तूष्णीं पत्नी परिधत्ते।
भोजनम् :-
ऊर्जे त्वा प्राणाय स्वाहा इति प्राग्वंशेऽन्नमश्नाति । पत्नी च ऊर्जे त्वा इत्यन्नमश्नाति[] 2 ।

 
सर्पिमिश्रं दधि मधु चाभ्युपसेकम् । यदस्य मनसः प्रतिप्रियं तदश्नाति । तदेवास्यामुष्मिन् लोके भवतीति विज्ञायते । तथाशीतस्स्याद्यथा ततो दीक्षासु कनीयः कनीयो व्रतमुपेयात् । पुरस्तात् केशवपनात् वाससो वा परिधानात् भोजनमेके समामनन्ति । हविष्यमुभौ भुक्त्वा आचम्य ।
नवनीतलेपनं, अक्ष्णोः अञ्जनम् दर्भपुञ्जीलाभ्यां पवनम् :-
लेपनपर्याप्तं नवनीतं त्रेधा विभज्य एकं भागं महीनां पयोऽसि दर्भपुञ्जीलाभ्यां नवनीतमुद्यौति । वर्चोधा असि वर्चो मयि धेहि तेन पराचीनं त्रिरभ्यङ्क्ते । मुखमग्रे । अनुलोममङ्गानि । द्विस्तूष्णीं स्वक्तो भवति । वृत्रस्य कनीनिकासि चक्षुष्पा असि चक्षुर्मे पाहि सतूलया दर्भेषीकया शरेषीकया दर्भपुञ्जीलेन वा अभ्यन्तरं दक्षिणमक्षि येन केनाञ्जनेनाङ्क्तेऽनिधावमानः । सकृन्मन्त्रेण द्विस्तूष्णीम् । एवं सव्यम् । अथैनमुत्तरेण बहिः प्राग्वंशाद्दर्भपुञ्जीलानां एकविंशत्या त्रेधा विभक्तया सप्तभिस्सप्तभिः पवयति द्विरूर्ध्वं नाभेरुन्मार्ष्टि । सकृन्नाभेरधः । चित्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः नाभेरूर्ध्वमुन्मार्ष्टि । चित्पतिर्मा पुनातु इति यजमानो जपति तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् इति च । अध्वर्युः - वाक्पतिस्त्वा पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः पूर्ववदुन्मार्ष्टि । वाक्पतिर्मा पुनातु इति यजमानः तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् []1 इति च । अध्वर्युः - देवस्त्वा सविता पुनात्वच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभिः नाभेरधोभागमन्वञ्चं सकन्निमार्ष्टि अत्वरमाणः । देवो मा सविता पुनातु तस्य ते पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् यजमानो जपति ।
पाव्यमाने जपः :-
पवमानस्सुवर्जनः । पवित्रेण वि चर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा ऋतूꣳरनु । यत्ते पवित्रमर्चिषि । अग्ने विततमन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वीस्तनुवो वीतपृष्ठाः । तया मदन्तस्सधमाद्येषु । वयᳪँ、 स्याम पतयो रयीणाम् । वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेनेषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिस्सवितस्तृभिः । वर्षिष्ठैर्देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येनापो दिव्यं कशः । तेन दिव्येन ब्रह्मणा । इदं ब्रह्म
 
पुनीमहे । यः पावमानीरध्येति । ऋषिभिस्सम्भृतꣳ रसम् । सर्वꣳ स पूतमश्नाति । स्वदितं मातरिश्वना । पावमानीर्यो अध्येति । ऋषिभिस्सम्भृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर्मधूदकम् । पावमानीस्स्वस्त्ययनीः । सुदुघा हि पयस्वतीः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । पावमानीर्दिशन्तु नः । इमं लोकमथो अमुम् । कामान्त्समर्धयन्तु नः । देवीर्देवैस्समाभृताः । पावमानीस्स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिस्सम्भृतो रसः । ब्राह्मणेष्वमृतꣳ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्र धारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शतोद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे पाव्यमानो जपति ।
यद्देवा देव हेडनं देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चतर्तस्यर्तेन मामुत ॥ देवा जीवनकाम्या यद्वाचाऽनृतमूदिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ ऋतेन द्यावापृथिवी ऋतेन त्वꣳ सरस्वति । कृतान्मा मुञ्चताꣳहसो यदन्यकृतमारिम ॥ सजातशꣳसादुत वा जामिशꣳसाज्ज्यायसश्शꣳसादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनस्तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि । यद्वाचा यन्मनसा बाहुभ्यामूरुभ्यामष्ठीवद्भ्याꣳ शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यद्धस्ताभ्यां चकर किल्बिषाण्यक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च तान्यप्सरसावनुदत्तामृणानि ॥ अदीव्यन्नृणं यदहं चकार यद्वाऽदास्यन्त्सञ्जगारा जनेभ्यः । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यन्मयि माता गर्भे सत्येनश्चकार यत्पिता । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यदापिपेष मातरं पितरं पुत्रः प्रमुदितो धयन्न् । अहिꣳसितौ पितरौ मया तत्तदग्ने अनृणो भवामि ।। यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ यदाशसा निशसा यत्पराशसा यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ अतिक्रामामि दुरितं यदेनो जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतस्तमारोहामि
 
सुकृतान्नु लोकम् ॥ त्रिते देवा अमृजतैतदेनस्त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किञ्चिदानशेऽग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् ॥ दिवि जाता अप्सुजाता या जाता ओषधीभ्यः । अथो या अग्निजा आपस्तानश्शुधन्तु शुन्धनीः ॥ यदापो नक्तं दुरितं चराम यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः ॥ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोऽव यासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्र मुमुग्ध्यस्मत् ॥ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उशसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि ॥ त्वमग्ने अयास्ययासन्मनसा हितः । अयासन्, हव्यमूहिषेऽया नो थेहि भेषजम् इति अच्छिद्रानुवाकं च पूतो जपति । आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद्वो देवास आगुरे यज्ञियासो हवामहे यजमानः पूर्वया द्वारा प्राग्वंशं प्रविश्य । इन्द्राग्नी द्यावापृथिवी आप ओषधीः अपरेणाहवनीयं दक्षिणातिक्रम्य । त्वं दीक्षाणामधिपतिरसीह मा सन्तं पाहि आहवनीयमुपोपविशति । एष एवात ऊर्ध्वं यजमानस्य सञ्चरो भवति आ क्रतुसमाप्तेः । अत्र दीक्षणीयामेके समामनन्ति । पुरस्ताद्दीक्षाहुतिभ्यः सम्भारयजूंषीत्येके
औद्ग्रहणहोमः :-
अध्वर्युः :- यद्दीक्षणीयाया ध्रौवमाज्यं ततो दीक्षाहुतीस्स्रुवेण चतस्रो जुहोति स्रुचा पञ्चमीम् । यत्राध्वर्युरौद्ग्रहणानि जुहोति तद्यजमानोऽध्वर्युमन्वारभ्य पञ्च जुहोति[१०] 1। आकूत्यै प्रयुजेऽग्नये स्वाहा अध्वर्युर्जुहोति । वाचा मे वाग्दीक्षताᳪ、 स्वाहा यजमानो जुहोति । आकूत्यै प्रयुजेऽग्नय इदम् । वाच इदम् । अध्वर्युः :- मेधायै मनसेऽग्नये स्वाहा । यजमानः – प्राणेन मे प्राणो दीक्षताᳪ、 स्वाहा । मेधायै मनसेऽग्नय इदम् । प्राणायेदम् । अध्वर्युः :- दीक्षायै तपसेऽग्नये स्वाहा । यजमानः – चक्षुषा मे चक्षुर्दीक्षताᳪ、 स्वाहा । दीक्षायै तपसेऽग्नय इदम् । चक्षुष इदम् । अध्वर्युः :- सरस्वत्यै पूष्णेऽग्नये स्वाहा । यजमानः - श्रोत्रेण मे श्रोत्रं दीक्षताᳪ、 स्वाहा । सरस्वत्यै पूष्णेऽग्नय इदम् । श्रोत्रायेदम् । गृहीत्वा स्रुक्स्रुवयोर्व्यत्यासः । सर्वत्र तूष्णीं ध्रौवाप्यायनम् । आपो देवीर्बृहतीर्विश्वशम्भुवो द्यावापृथिवी उर्वन्तरिक्षं बृहस्पतिर्नो हविषा वृधातु स्वाहा इत्यध्वर्युः । यजमानः - मनसा मे मनो दीक्षताᳪ、 स्वाहा । अभ्यो द्यावापृथिवीभ्यामंतरिक्षाय
 
बृहस्पतय इदम् । मनस इदम् । ध्रौवाप्यायनं याजमानम् । अध्वर्युः :- अष्टकृत्व आप्याय्य चतुरनाप्याय्य तूष्णीं ध्रौवं समापयन् द्वादशगृहीतेन स्रुचं पूरयित्वा विश्वे देवस्य नेतुर्मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा पूर्णाहुतिं जुहोति । यजमानः – वातं प्राणं मनसान्वारभामहे प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वꣳहसो ज्योग्जीवा जरामशीमहि पूर्णाहुतिं हूयमानामनुमन्त्रयते । कालात्मने सवित्रे इदम् ।
यजमानस्य दीक्षाप्रारम्भः :-
अत्र कृष्णाजिनेन यजमानं दीक्षयत्यध्वर्युः । द्वाभ्यां समस्य दीक्षेतान्तर्मांसाभ्यां बहिर्लोमभ्याम् । यद्येकं स्यात्तस्य दक्षिणं पूर्वपादं प्रतिषीव्येत् । अन्तान्वा । द्वे विषूची प्रतिमुञ्चेत पादं वा प्रतिषीव्येदित्येके । अन्तर्वेदि कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणात्यध्वर्युस्तूष्णीम् । यजमानः :- ऋक्सामयोश्शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृचः शुक्लकृष्णे राजी आलभते । संमृशतीत्येके । प्रतिदिशं कृष्णाजिनमभिमृशति । इन्द्र शाक्वर गायत्रीं प्रपद्ये तां ते युनज्मि इति पुरस्तात् । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये तां ते युनज्मि दक्षिणतः । इन्द्र शाक्वर जगतीं प्रपद्ये तां ते युनज्मि पश्चात् । इन्द्र शाक्वरानुष्टुभं प्रपद्ये तां ते युनज्मि उत्तरतः । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये तां ते युनज्मि मध्ये । अथ प्राङ्मुखो जान्वक्नोऽभिसर्पति ।
कृष्णाजिनारोहणम् :- इमां धियꣳ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳशिशाधि ययाति विश्वा दुरिता तरेम सुतर्माणमधिनावꣳ रुहेम कृष्णाजिनं भसत्त आरोहति । सुत्रामाणं पृथिवीं द्यामनेहसꣳ सुशर्माणमदितिꣳ सुप्रणीतिम् । दैवीं नावꣳ स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये आरोहन् जपति । इमाꣳ सुनावमारुहꣳ शतारित्राꣳ शतस्फ्याम् । अच्छिद्रां पारयिष्णुम् ॥ आहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्ये धायि सत्यमृते धाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवꣳ सुवरगमꣳ सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगमम् आरूढो जपति ।
पत्न्याः कुम्बकुरीराध्यूहनं, दीक्षा, यजमानस्य शिरोवेष्टनञ्च :-
अध्वर्युः :- अत्र पत्नीशिरसि कुम्बकुरीरमध्यूहते । कृष्णं जीवोर्णानामिति वाजसनेयकम् । जालं कुम्बकुरीरमित्याचक्षते । विष्णोश्शर्मासि शर्म यजमानस्य शर्म मे यच्छ अहतेन वाससा दक्षिणमंसं यजमानः प्रोणुते । नक्षत्राणां मातीकाशात् पाहि उष्णीषेण प्रदक्षिणं शिरो वेष्टयते । न पुरा सोमस्य क्रयादपोर्वीउषत । प्राचीनमात्रा वाससा पत्नीं दीक्षयति । ऊर्ध्ववास्यं ब्रुवते । उत्तरीयमित्येके।
 

मेखलायोक्त्रबन्धनं कृष्णविषाणस्य प्रदानम् -
अध्वर्युः – ऊर्गस्याङ्गिरस्यूर्णम्रदा ऊर्जं मे यच्छ पाहि मा पाप्मनो मा मा हिꣳसीः शरमयी मौञ्जी वा मेखला त्रिवृत् पृथ्वी अन्यतरतः पाशा तया यजमानं दीक्षयति योक्त्रेण पत्नीम् । यजमानः :- उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थापयति । अत्र दर्शपूर्णमासवत्पत्नीं सन्नह्यति सं त्वा नह्यामीति विकारः । अध्वर्युः :- सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्यप ओषधीभिः । सं त्वा नह्यामि प्रजयाहमद्य सा दीक्षिता सनवो वाजमस्मे अपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं योक्त्रेण सन्नह्यति । उत्तरेण नाभिमित्यादि पत्नी । इन्द्रस्य योनिरसि मा मा हिꣳसीः कृष्णविषाणां यजमानाय प्रयच्छति । आबध्नातीत्येके । त्रिवलिः पञ्चवलिर्वा दक्षिणावृद्भवति । सव्यावृदित्येके । त्रिवलिं दक्षिणावृताम् । यजमानः :- कृष्यै त्वा सुसस्यायै तया वेदेर्लोष्टमुद्धन्ति । सुपिप्पलाभ्यस्त्वौषधीभ्यः अर्थे प्राप्ते शिरसि कण्डूयते । विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फितं हृदि मनो यदस्य गुल्पितम् इत्यङ्गानि । एवं प्रतिक्षणे कण्डूयने विषाणमन्त्रः ।

दीक्षा.

दीक्षितदण्डप्रदानम् :- अध्वर्युः :- ऊर्ध्वसदसि वानस्पत्यस्सुद्युम्नो द्युम्नं यजमानाय धेहि औदुम्बरं दीक्षितदण्डमास्यदघ्नं यजमानाय प्रयच्छति । यजमानः - सूपस्था देवो वनस्पतिरूर्ध्वो मा पाह्योदृचः तं प्रतिगृह्य । उरुव्यचा असि जनधास्स्वभक्षो मा पाहि चमसं व्रतप्रदानमभिमन्त्रयते
दीक्षाजपः :- केशिनीं दीक्षां जपति अग्निर्दीक्षितः पृथिवी दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । वायुर्दीक्षितोऽन्तरिक्षं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । आदित्यो दीक्षितो द्यौर्दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । चन्द्रमा दीक्षितश्श्रोत्रं दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । प्रजापतिर्दीक्षितो मनो दीक्षा सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे । वाचा मे वाग्दीक्षतामग्नये समष्टवा उ । प्राणेन मे प्राणो दीक्षतां वायवे समष्टवा उ । चक्षुषा मे चक्षुर्दीक्षताꣳ सूर्याय समष्टवा उ । श्रोत्रेण मे श्रोत्रं दीक्षतां चन्द्रमसे समष्टवा उ । मनसा मे मनो दीक्षतां प्रजापतये समष्टवा उ । भूर्भुवस्सुवस्तपो मे दीक्षा सत्यं गृहपतिः ।
अध्वर्युणा दीक्षानुवाकेनाभिमन्त्रणम् :
अथैनमध्वर्युरभिमन्त्रयते पृथिवी दीक्षा तयाग्निर्दीक्षया दीक्षितो ययाग्निर्दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितस्तया
 
त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा तयादित्यो दीक्षया दीक्षितो ययादित्यो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा तया चन्द्रमा दीक्षया दीक्षितो यया चन्द्रमा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितो यया वरुणो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा तया सोमो राजा दीक्षया दीक्षितो यया सोमो राजा दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा तया प्राणो दीक्षया दीक्षितो यया प्राणो दीक्षया दीक्षितस्तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनु दीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनु दीक्षताम् । द्यौस्त्वा दीक्षमाणमनु दीक्षताम् । दिशस्त्वा दीक्षमाणमनु दीक्षन्ताम् । आपस्त्वा दीक्षमाणमनु दीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनु दीक्षन्ताम् । वाक्त्वा दीक्षमाणमनु दीक्षताम् । ऋचस्त्वा दीक्षमाणमनु दीक्षन्ताम् । सामानि त्वा दीक्षमाणमनु दीक्षन्ताम् । यजूꣳषि त्वा दीक्षमाणमनु दीक्षन्ताम् । अहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चापश्चौषधयश्चोर्क्च सूनृता च तास्त्वा दीक्षमाणमनु दीक्षन्ताम् । सम्भारयजूंषि चैनमध्वर्युचियति । अग्निर्यजुर्भिः इत्यादि अहᳪँ、 श्रद्धया इत्यन्तम् ।
[११]मुष्टीकरणं, वाग्यमनञ्च :-
यजमानः – अथाङ्गुलीर्न्यचति । स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याम् कनिष्ठिके । स्वाहा दिवः अनामिके । स्वाहा पृथिव्याः मध्यमे । स्वाहोरोरन्तरिक्षात् प्रादेशिन्यौ । स्वाहा यज्ञं वातादारभे[१२] अङ्गुष्ठाभ्यां मुष्टी करोति वाचं च यच्छति ।
अध्वर्युणा आवेदनम् :
अध्वर्युः - अथैनं त्रिरुपांश्वावेदयति त्रिरुच्चैः । अदीक्षिष्टायं ब्राह्मणोऽमुकशर्माऽमुकशर्मणः पुत्रोऽमुकशर्मणः पौत्रोऽमुकशर्मणो नप्ता अमुकिदाय्याः पुत्रोऽमुकिदाय्याः पौत्रोऽमुकिदाय्या नप्ता । यजमानो वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोः । अध्वर्युः - अधिवृक्षसूर्यकाले अग्नीन् ज्योतिष्मतः कुरुत पत्नि वाचं यच्छ इति सम्प्रेष्यति । वत्सस्यैकं स्तनमवशिष्येतरान् व्रतं दोहयित्वा । उदितेषु नक्षत्रेषु दुग्धे च व्रतपयसि । यजमानः – याः पशूनामृषभे वाचस्तास्सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवा नस्ताः पुनरायन्तु वाचः इति जपित्वा । व्रतं कृणुत इति वाचं विसृजते । पत्नी तूष्णीं वाचं विसृजते । एष्ट्री स्थ इति चतस्रोऽङ्गुलीरुत्सृजति । द्वे अन्यतरतो द्वे अन्यतरतः[१३]। जागर्त्येतां रात्रिं, क्रीते राजनि द्वितीयां, श्वस्सुत्यायां इति तृतीयाम् ।
 
व्रतप्रदानं, प्राशनं च :-
अध्वर्युः – मध्यरात्रे गार्हपत्ये दीक्षितस्य व्रतं श्रपयति । दक्षिणाग्नौ पत्न्याः । अग्निहोत्रवद्व्रतपात्रे तूष्णीमुन्नीयापरेणाहवनीयं व्रतमत्याहृत्य प्रयच्छन् आह व्रत्य व्रतय व्रतमुपेहि । यजमानः – प्रतिगृह्य निधाय । दैवीं धियं मनामहे सुमृडीकामभिष्टये वर्चोधां यज्ञवाहसꣳ, सुपारा नो असद्वशे हस्ताववनिज्य। ये देवा मनोजाता मनोयुजस्सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यस्स्वाहा दक्षिणेनाहवनीयं परिश्रिते व्रतयति । नैनमदीक्षिता व्रतयन्तं पश्यन्ति । आचम्य, आत्मन इदम् । शिवाः पीता भवथ यूयमापोऽस्माकं योनावुदरे सुशेवाः । इरावतीरनमीवा अनागसश्शिवा नो भवथ जीवसे व्रतयित्वा नाभिदेशमभिमृशति । अपश्च पीत्वा जपति । तूष्णीं पत्नी स्व आयतने व्रतयति ।
दीक्षितनियमाः :-
चनसितं विचक्षणमिति नामधेयान्तेषु निदधाति । चनसितेति ब्राह्मणम् । विचक्षणेति राजन्यवैश्यौ । परिणयेन मानुषीं वाचं वदति[१४] 1 । न स्त्रिया न शूद्रेण सम्भाषेत । पत्न्यादि वर्जम् । नैनमनु प्रपद्येत । यद्येनं शूद्रेण संवाद उपपद्येत ब्राह्मणराजन्यवैश्यानामेकं ब्रूयादिममित्थं ब्रूहीति वाजसनेयकम् । अभिवदति नाभिवादयते अप्याचार्यं श्वशुरं राजानमिति शाट्यायनकम् । न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणामवचृतेत् । न दन्तान् दर्शयते । हस्तेनापिगृह्य स्मयते । मधु मांसं स्त्रियमनृतमुपरिशय्यां ष्ठीवनं विकाले निष्क्रमणं दीक्षितविमितात्प्रवासमिति वर्जयेत् ।
इयं ते यज्ञापो मुञ्च पृथिव्या संभवेति च ।
इदं त्वमग्ने विश्वे च पुनर्माग्ने च या व्रतम् ॥
यन्मेऽत्र तु यदत्रापि यदन्नमपि रुद्रियाम् ।
बीभत्कृपा तपस्यानामबद्धं मन उन्दतीः ।
विश्वे देवा अभीत्युक्त्वा देवाञ्जनमगन् जपेत् ।
इदं त्वमग्ने व्रातस्तु त्वमग्ने व्रतपा असि ।।
विकल्पेनेदमग्नावि पावका नो बृहस्पते ।
सुपिप्पला विषाणे वि विश्वे देवाञ्जनं जपेत् ॥
उदुत्तमं तथास्तभ्नाद्यत्किञ्चेदं च वारुणीः ।।
उदु त्यं सप्त चित्रं तु सौरीरभ्युदिते जपेत् ॥
विश्वे देवा अभिपुनर्मनोऽनाज्ञातकैर्जपः ।।
 
न दिवा मूत्रपुरीषे कुर्यात् । यदि कुर्यात् छायायाम् । मूत्रं चिकीर्षन् इयं ते यज्ञिया तनूः तृणं लोष्टं वा अपादाय । अपो मुञ्चामि न प्रजामꣳहोमुचस्स्वाहाकृताः पृथिवी माविशत मूत्रं विसृज्य, आचम्य । पृथिव्या संभव अपात्तं स्वस्थाने प्रतिनिदधाति । यन्मेऽत्र पयसः परीतोषात्तदर्पिथ । अग्निहोत्रमिव सोमेन तदहं पुनराददे रेतः स्कन्नमभिमन्त्रयते । यदत्रापि रसस्य मे निरष्ठविषमस्मृतम्[१५] 1। अग्निष्टत्सोमः पृथिवी पुनरात्मन्दधातु मे छर्दित्वा ष्ठुत्वा वा । यदन्नमद्यते नक्तं न तत्प्रातः, क्षुधोऽवति । सर्वं तदस्मान्मा हिꣳसीर्न हि तद्ददृशे दिवा स्वप्नेऽन्नं भुक्त्वा । रुद्रियाभ्योऽद्भ्यस्स्वाहा लोहितमुत्पतितं दृष्ट्वा । बीभत्सा नाम स्थापस्स्वाहाकृताः पृथिवीमाविशत स्नूहानम् । कृपा णाम स्थापस्स्वाहाकृताः पृथिवी माविशत अश्रु । तपस्या नाम स्थापस्स्वाहाकृताः पृथिवीमाविशत स्वेदम् । न प्रतीच्या द्वारा निष्क्रामति प्राग्वंशस्य । नाक्रतुसंयुक्तामाहुतिं जुहोति । नाग्निहोत्रम् । न दर्शपूर्णमासाभ्यां यजते । नित्यानामपि निवृत्तिः । ये त्वङ्गभूताः क्रतोः संसर्गेष्ट्यादयः ते क्रियन्ते । सन्ध्यावन्दनं क्रियते । औपासनस्याग्निधारणमेव न होमः । न ददाति । न पचति । पीवा दीक्षते कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते । नैनमन्यत्र दीक्षितविमितादभिनिम्रोचेदभ्युदियाद्वा । वारुणीरभिनिम्रुक्तो जपेत् उदुत्तमं वरुण पाशमस्मदवाधमं विमध्यमᳪँ、 श्रथाय । अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥ अस्तभ्नाद्द्यामृषभो अन्तरिक्षममिमीत वरिमाणं पृथिव्या आसीदद्विश्वा भुवनानि संम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥ यत्किञ्चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म । सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥ अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुरप्रचेतो राजन्नेनाꣳसि शिश्रथः कृतानि ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ सौरीरभ्युदितः । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् । सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च ॥ अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाᳪ、 श्रेष्ठो दीक्षे मा मा हासीः अमेध्यपतितचाण्डालक्लीबरजस्वलादीन् दृष्ट्वा जपति । आचम्य आदित्यादिज्योतिषामवेक्षणं विष्णुस्मरणं च । उन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट अववृष्टो सकृदेव जपति । यस्मिन्नहनि विधानेन स्वपिति
 
तस्मिन्नहनि दक्षिणेनाहवनीयं प्राङ्शेते, न न्यङ् नोत्तानो नाग्नेरपपर्यावर्तेत । यद्यपपर्यावर्तेत विश्वे देवा अभि मा माऽववृत्रन् इति जपति । नान्यत्र कृष्णाजिनादासीत यद्यन्यत्रासीत देवाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु इति जपेत् । न दण्डात्कृष्णाजिनादिति विप्रच्छिद्येत । उभे निधाय मूत्रपुरीषे कुर्यात् । यावदुक्तं पत्न्या दीक्षितव्यञ्जनानि । समानं ब्रह्मचर्यम् ।
अन्येषां नियमाः :-
अग्निर्वै दीक्षितस्तस्मादेनं नोपस्पृशेत् । न चास्य नाम गृह्णीयात् । न दीक्षितवसनं परिदधीत । नास्य पापं सङ्कीर्तयेत् । नान्नमश्नीयात् । यज्ञार्थे वा निर्दिष्टे शेषात् भुञ्जीरन् । संस्थिते वाग्नीषोमीये । हुतायां वा वपायाम् ।
पुनर्दीक्षितनियमाः :-
न पुरा नक्षत्रेभ्यो वाचं विसृजेत् । यदि विसृजेत् इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे ॥ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः इति जपित्वा वाचं यच्छेत् ॥ यस्मिन्नहनि स्वापो भवति तस्मिन्नहनि नाभ्यभिमर्शनान्तं कृत्वा अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि गोपाय नस्स्वस्तये प्रबुधे नः पुनर्ददः स्वप्स्यन्नाहवनीयमभिमन्त्रयते । त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः प्रबुध्य मुष्टी वाचं वा विसृज्य, अदीक्षितवादं वोदित्वा । विश्वे देवा अभि मा माऽववृत्रन् प्रबुध्य जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वा इति च । अथैकेषां यदि प्रातस्सायं वा प्रैषानन्तरं वाचं विसृजेत् तदा वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्येति । इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे ॥ अग्निश्च विष्णो तप उत्तमं महर्दीक्षापालेभ्यो वनतꣳ हि शक्रा । विश्वैर्देवैर्यज्ञियैस्संविदानौ दीक्षामस्मै यजमानाय धत्तम् । सरस्वत्यभि नो नेषि वस्यो मा पस्फरीः पयसा मा न आधक् । जुषस्व नस्सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ यदि वर्षति धावेत् नमो रुद्राय वास्तोष्पतये आयने विद्रवणे उद्याने यत्परायणे आवर्तने विवर्तने यो गोपायति तꣳ हुवे ॥ दीक्षितान्तरेण समागमे कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ सर्वत्र भूर्भुवस्सुवः इति व्याहृतीर्जपेत् सनीहारः :-
पूषा सन्या सोमो राधसा सनीहारान् संशास्ति । चन्द्रमसि मम भोगाय भव । वस्त्रमसि
 
मम भोगाय भव । उस्रासि मम भोगाय भव । हयोऽसि मम भोगाय भव । छागोऽसि मम भोगाय भव । मेषोऽसि मम भोगाय भव इत्येतैर्यथालिङ्गं प्रतिगृह्णाति । देवस्सविता वसोर्वसुदावा रास्वेयत्सोमा भूयो भर मा पृणन् पूर्त्या विराधि माहमायुषा अन्यानि । वायवे त्वा तासां नष्टामनुदिशति । वरुणाय त्वा अप्सु मृताम् । निर्ऋत्यै त्वा अवसन्नां संशीर्णां वा । मरुद्भ्यस्त्वा इति ह्रादुनिहतां मेष्कहतामप्सु वा मग्नाम् । रुद्राय त्वा महादेवहताम् । इन्द्राय त्वा प्रसह्वने यां सेनाऽभीत्वरी विन्देत । यमाय त्वा अविज्ञातेन यक्ष्मणा मृताम् । अनुदिष्टानामधिगतां न गोषु चारयेत् । सनीहारप्रस्थापनान्तं प्रथममहस्सन्तिष्ठते ।।
द्वितीयेह्नि व्रतप्रदानम् :-
अध्वर्युः - व्युषिते अग्नीन् ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति सम्प्रेष्यति । उदित आदित्ये दुग्धे च व्रत पयसि । यजमानः – याः पशूनामृषभे वाचस्तास्सूर्यो अग्रे शुक्रो अग्रे ताः प्रहिण्वो यथाभागं वो अत्र शिवानस्ताः पुनरायन्तु वाचः इति जपित्वा । व्रतं कृणुत इति वाचं विसृजते । अध्वर्युब्रह्मयजमानाः पूर्ववत्सोमपरिवेषणं कुर्वन्ति । यजमानः - अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेदः ॥ आजुह्वानस्सुप्रतीकः पुरस्तादग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत एताभ्यामाहवनीयमुपतिष्ठते ॥
प्रायणीयेष्टिः
प्रायणीयायास्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्यमित्यादि । न व्रतप्रवेशनम् । पौर्णमासं तन्त्रम् । पञ्चदश सामिधेन्यः । नेध्मप्रव्रश्चनम् । अलङ्कृत्य परिस्तरणम् । देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्थाली स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवण्यादि । शम्यादृषदुपलप्रणीतान्वाहार्यस्थालीमदन्तीपिष्टलेपयोक्त्रवर्जम् । पवित्रे कृत्वा, न ब्रह्मवरणम् । ब्रह्मा – तूष्णीमतिक्रम्य मन्त्रेण निरसनोपवेशने करोति । अध्वर्युः – यजमान वाचं यच्छ। निर्वपणकाले अदित्यै जुष्टं निर्वपामि । अदिते हव्यꣳ रक्षस्व । अदित्यै वो जुष्टं प्रोक्षामि । कृष्णाजिनादानादि । हस्तेन तुषोपवपनम् । उत्करे त्रिर्निनीय धृष्ट्यादानादि । ध्रुवोऽसि इति स्थाल्यासादनम् । देवस्त्वा सविता इति पय उत्पूय स्थाल्यामासिञ्चति । तण्डुलानुत्पूय घर्मोऽसि इति स्थाल्यां तण्डुलान् क्षिपति । अन्तरितꣳ रक्षः । अविदहन्त । स्फ्यादानादि । संप्रेषकाले पत्नीवर्जं सम्प्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याज्येनोदेहि। अग्ने गृहपत इत्यादि । यजमानः – युक्ता मे यज्ञमन्वासातै । प्रकृतिवदाज्यग्रहणम्
 
। अदित्यै जुष्टमभिघारयामि । आर्द्रो भुवनस्य इत्युद्वास्य । देवस्त्वा सविता इत्यलङ्कृत्य । सूर्यं ते चक्षुः । वातं प्राणः । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्यज्ञम् । पृथिवीꣳ शरीरैः षड्ढोत्रा प्रायणीयमासादयति । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होता इत्यासन्नाभिमर्शनम् । होतरेहि प्रस्तोतरेहि उपभृतमन्तत इत्येवमन्तं कृत्वा । न स्रुचोस्सादनम् । नाज्यभागौ । यजमानः – पञ्चहोतारं वदेत् । प्रधानानामुपांशु प्रचारः । आ प्यायतां चत्वारि । अवद्यन् सम्प्रेष्यति । पथ्यायै स्वस्तये (उपांशु)अनुब्रूहि (उच्चैः) । आश्राव्य प्रत्याश्राविते पथ्यां स्वस्तिं (उपांशु)यज (उच्चैः) पूर्वार्धे जुहोति । यजमानः - पथ्यायै स्वस्तय इदम् । दब्धिरस्यदब्धो भूयासं पाप्मानं दभेयम् । अग्नये (उपांशु)अनुब्रूहि (उच्चैः)। अग्निं (उपांशु)यज (उच्चैः) दक्षिणार्धे जुहोति । यजमानः - अग्नय इदम् । दब्धिरसि । सोमाय (उपांशु)अनुब्रूहि (उच्चैः)। सोमं (उपांशु) यज (उच्चैः) पश्चार्धे जुहोति । यजमानः – सोमायेदम् । दब्धिरसि । सवित्रे (उपांशु)अनुब्रूहि (उच्चैः) । सवितारं (उपांशु)यज (उच्चैः) उत्तरार्धे जुहोति । यजमानः – सवित्र इदम् । दब्धिरसि । अध्वर्युः - प्रत्याक्रम्य जुह्वामुपस्तीर्य, अवद्यमाने साम । चरोरवदाय, अभिघार्य, हविः प्रत्यभिघार्य, अदित्यै (उपांशु)अनुब्रूहि (उच्चैः) । अदितिं (उपांशु) यज (उच्चैः) मध्ये जुहोति । यजमानः - अदित्या इदम् । अदित्या अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । अध्वर्युः - मरुतो यद्ध वो दिवस्सुम्नायन्तो हवामहे । आ तू न उपगन्तन मारुतीमृचमनूच्य । प्रत्याक्रम्य नारिष्ठादि । अविरुज्य प्राशित्रम् । न यजमानभागम् । चतुर्धाकरणकाले त्रेधाकरणम् [१६]1 । न हविश्शेषोद्वासनम् । पथ्यास्वस्त्यादीनां नोज्जितयः । अदित्या अहमुज्जितिम् । संस्रावहोमान्ता प्रायणीया सन्तिष्ठते । धारयति ध्रौवमाज्यम् । प्राग्वंशे बर्हिः[१७]2, स्थालीमनिष्कसितां, मेक्षणमिति उदयनीयार्थं निदधाति ।
सोमक्रयः
सोमक्रयण्याः पदग्रहणम् :-
प्रायणीयाया ध्रौवाज्यं जुह्वां चतुरो गृह्णाति तूष्णीमाप्यायनं कुर्वन् । तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वा । इयं ते शुक्रतनूरिदं वर्चस्तया सम्भव भ्राजं गच्छ अवदधाति । पुरस्तात्प्रतीची सोमक्रयण्यवस्थिता भवति । तदाज्यं सोमक्रयणीमीक्षमाणो जुहोति जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमशीय स्वाहा । यजमानः – वाचे सोमक्रयण्या इदम् । अपरं चतुर्गृहीतं गृहीत्वानाप्याय्य ध्रौवसमाप्तिः । शुक्रमस्यमृतमसि हिरण्यं घृतादुद्धृत्य । वैश्वदेवꣳ हविः आज्यमवेक्ष्य । चिदसि मनासि धीरसि दक्षिणासि यज्ञियासि
 
क्षत्रियास्यदितिरस्युभयतश्शीर्ष्णी सा नस्सुप्राची सुप्रतीची सम्भव प्राङ्मुखीं सोमक्रयणीमभिमन्त्रयते । अकर्णगृहीताऽपदिबद्धा भवति । मित्रस्त्वा पदि बध्नातु दक्षिणं पूर्वपादं प्रेक्षते । पूषाध्वनः पात्विन्द्रायाध्यक्षायानु त्वा माता मन्यतामनु पितानु भ्राता सगर्भ्योऽनु सखा सयूथ्यस्सा देवि देवमच्छेहीन्द्राय सोमम् प्राचीं यतीमनुमन्त्रयते । वस्व्यसि । रुद्रासि । अदितिरसि । आदित्यासि । शुक्रासि । चन्द्रासि षट्पदान्यनु निक्रामति । दक्षिणेन पदा दक्षिणानि । एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायो भवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सोमक्रयण्या निष्क्रम्यमाणेषु यजमानस्सप्तपदान्यनुवर्तयित्वा । सखायस्सप्तपदा अभूम सख्यं ते गमेयꣳ सख्यात्ते मा योषꣳ सख्यान्मे मा योष्ठाः सप्तमे पदे जपति । बृहस्पतिस्त्वा सुम्ने रण्वतु रुद्रो वसुभिराचिकेतु सप्तमं पदमध्वर्युरञ्जलिनाभिगृह्य । पदे हिरण्यं निधाय । पृथिव्यास्त्वा मूर्धन्नाजिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा हिरण्ये जुहोति । वाचे सोमक्रयण्या इदम् । अपादाय हिरण्यम् । देवस्य त्वा सवितुः --- आ ददे स्फ्यमादाय । परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान् द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपिकृन्तामि त्रिः प्रदक्षिणं पदं परिलिखति यावद्धृतमनु विसृतं भवति । कृष्णविषाणया चानुपरिलिख्य त्रिः । अस्मे रायः स्थाल्यां यावत्त्मूतं समोप्य । त्वे रायः यजमानाय प्रयच्छति । तोते रायः यजमानः पत्न्यै प्रयच्छति । माहꣳ रायस्पोषेण वियोषम् पत्नी पदं प्रदीयमानमनुमन्त्रयते । अध्वर्युः - सं देवि देव्योर्वश्या पश्यस्व सोमक्रयण्या पत्नीं सङ्ख्यापयति । त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव सन्दृशि पत्नी सोमक्रयणीमनुमन्त्रयते । त्वष्टुमन्तस्त्वा सपेम यजमानोऽनुमन्त्रयते । अध्वर्युः - यतः पदमपात्तं तस्मिन् सहिरण्यौ पाणी प्रक्षाल्य । उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो विसृजा दृतिम् अद्भिरुपनिनीय । पदं त्रैधं विभज्य तृतीयमुत्तरतो गार्हपत्यस्य शीते भस्मन्युपवपति । तृतीयमाहवनीयस्य । तृतीयं पत्न्यै प्रयच्छति । तत्सा गृहेषु निदधाति । अध्वर्युः - अत्र आदित्योपस्थानम् । सूर्यस्य चक्षुरारुहमग्नेरक्ष्णः कनीनिकां यदेतशेभिरीयसे भ्राजमानो विपश्चिता आदित्यमुपतिष्ठते ।
सोमशोधनम् :-
उत्तरवेदिदेशे उपरवदेशे वा लोहितं चर्मानडुहं प्राचीनग्रीवमुत्तरलोमास्तीर्य । दक्षिणे चर्मपक्षे राजानं निवपत्युत्तरस्मिन्नुपविशति सोमविक्रयी। उदकुम्भं राजानं सोमविक्रयिणमिति सर्वतः परिश्रित्योत्तरेण द्वारं कृत्वा सोमविक्रयिन्त्सोमꣳ शोधय इत्युक्त्वा पराङावर्तते । अपि पन्थामगस्महि स्वस्ति
 

गामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु अध्वर्युब्रह्मयजमानाः उद्धृतपूर्वफलकेनानसा परिश्रितेन छदिष्मता प्राञ्चस्सोममच्छ यान्ति । उत्तरेण राजानं प्रागीषमुदगीषं वा नद्धयुगं शकटं चुबुकप्रतिष्ठितम् । अꣳशुना ते अꣳशुः पृच्यतां परुषा परुर्गन्धस्ते काममवतु मदाय रसो अच्युतोऽमात्योऽसि शुक्रस्ते ग्रहः यजमानो राजानमभिमन्त्रयते ।

सोमक्रयणम्
सोमक्रयणम्

सोममानम् :-
अध्वर्युः - क्षौमं वासो द्विगुणं त्रिगुणं वा प्राग्दशमुत्तरदशं चर्मण्यास्तृणाति । उदग्दशं वा । तस्मिन् हिरण्यपाणिरङ्गुष्ठेन कनिष्ठिकया चाङ्गुल्या अंशून सङ्गृह्यान्यचन् अभि त्यं देवꣳ सवितारमूण्योः कविक्रतुमर्चामि सत्यसवसꣳ रत्नधामभिप्रियं मतिमूर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा सुवः अतिच्छन्दसर्चा मिमीते । एकयैकयोत्सर्गं मिमीते । सर्वास्वङ्गुष्ठमुपनिगृह्णाति यया प्रथमं न तया पञ्चमं तयैवोत्तमम् । अस्मिन्काले ब्रह्मा दक्षिणत आस्ते । एवमङ्गुष्ठेनोपमध्यमया द्वितीयं अङ्गुष्ठेन मध्यमया तृतीयम् । अङ्गुष्ठेन प्रदेशिन्या चतुर्थम् । अङ्गुष्ठेनोपमध्यमया पञ्चमम् । पञ्चकृत्वो यजुषा मिमीते पञ्चकृत्वस्तूष्णीम् । पूर्ववच्चत्वारि मीत्वा अङ्गुष्ठेन कनिष्ठिकया पञ्चमं मिमीते । एवं द्विस्त्रिरपरिमितकृत्वो वा । प्रजाभ्यस्त्वा अवशिष्टानंशूनुपसमूह्य । आस्तीर्णेन क्षौमेण वाससोपसङ्गृह्य । प्राणाय त्वा द्विगुणेनोष्णीषेणोपनह्य । व्यानाय त्वा विस्रस्य । प्रजास्त्वमनु प्राणिहि प्रजास्त्वामनु प्राणन्तु अवेक्ष्य । पुनस्तूष्णीं बध्नाति ।
सोमस्य क्रयः :-
एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् । एष ते त्रैष्टुभो भाग इति मे सोमाय ब्रूतात् । एष ते जागतो भाग इति मे सोमाय ब्रूतात् । छन्दोमानाꣳ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् एतैर्यजमानो राजानमुपतिष्ठते । अध्वर्युः - देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूमस्तं त्वं विश्वेभ्यो देवेभ्य ऋतून्कल्पय[१८] 1 दक्षिणाः कल्पय यथर्तु यथा देवतम् आदित्यमुपस्थाय ।
सोमविक्रयिणे राजानं प्रदाय पणते । सोमविक्रयिन् क्रय्यस्ते सोमा३ इत्याह । क्रय्यः सोमविक्रयी प्रत्याह । सोमं ते क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहम् इति जपित्वा । गवा ते क्रीणानि, एषा सोमक्रयणीं निर्दिश्य । तस्या आत्मा तस्या रूपं तस्याः प्रजास्तस्याः पयस्तस्या बन्धुः इति जपति । भूयो वा अदः सोमो राजार्हति[१९] 2 सर्वेषु पणनेषु सोमविक्रयी प्रत्याह आ सम्पदः[२०] 3। शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेन सम्यत्ते गोः इति जपित्वा ।

 

हिरण्येन ते क्रीणानि इत्याह । भूयो वा अदः सोमविक्रयी । तपसस्तनूरसि प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोषं पुष्यन्त्याश्चरमेण पशुना क्रीणाम्यस्मे ते बन्धुर्मयि ते रायश्श्रयन्ताम् इति जपित्वा । अजया ते क्रीणानि । भूयो वा अदः सोमविक्रयी । धेन्वा ते क्रीणानि [२१]1 । भूयो वा अदः । वत्सेन ते क्रीणानि [२२]2 । भूयो वा अदः । वत्सतरेण साण्डेन ते क्रीणानि । भूयो वा अदः । अनडुहा ते क्रीणानि । भूयो वा अदः । मिथुनाभ्यां गोभ्यां ते क्रीणानि[२३] 3 । भूयो वा अदः । वाससा ते क्रीणानि । न भूयः । अस्मे चन्द्राणि सोमविक्रयिणो हिरण्यमपादत्ते । अस्मे ज्योतिः शुक्लामूर्णास्तुकां यजमानाय प्रयच्छति । तां स काले दशापवित्रस्य नाभिं कुरुते । शुक्लं बलक्ष्याः पवित्रममोतं भवति । यं द्विष्यात्तस्य कृष्णां लोहिनीं च पवित्रे कुर्यात् । कृष्णामूर्णास्तुकामद्भिः क्लेदयित्वा । इदमहꣳ सर्पाणां दन्दशूकानां ग्रीवा उपग्रथ्नामि उपग्रथ्य । सोमविक्रयिणि तमः तया सोमविक्रयिणं विध्यति । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वं मा वो दभन् सोमविक्रयिणाननुदिशति । स्वजा असि स्वभूरस्यस्मै [२४]4 कर्मणे जात ऋतेन त्वा गृह्णाम्यृतेन मा पाहि सोमविक्रयिणो राजानमपादत्ते ।

मैत्रावरुणेन यजमानतः दण्डग्रहणम्

दीक्षितदण्डोष्णीषयोः प्रदानम् :-
यजमानः - वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् अत्र यजमानश्शिरोऽपोर्णुते । एतस्मिन्काले सर्वेषां वरणम् । मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा प्रयच्छाम्यवक्रोऽविधुरो भूयासम् दीक्षितदण्डमुष्णीषं च मैत्रावरुणाय प्रयच्छति । मित्रो न एहि सुमित्रधाः यजमानो राजानमादाय । इन्द्रस्योरुमा विश दक्षिणमुशन्नुशन्तᳪँ、 स्योनस्स्योनम् दक्षिण ऊरावासाद्य, हस्ताभ्यां निगृह्यास्ते । अध्वर्युः - रुद्रस्त्वा वर्तयतु मित्रस्य पथा स्वस्ति सोमसखा पुनरेहि सह रय्या प्रदक्षिणं सोमक्रयणीमावर्त्य अन्यया गवा निष्क्रीय यजमानस्य गोष्ठे विसृजति । यदि सोमविक्रयी प्रतिविवदेत पृषतैनं वरत्राकाण्डेनावक्षाणं नाशयेयुः । लकुटैर्घ्नन्तीत्येके । नित्यवदेके वधं समामनन्ति ।

सोमस्य शकटारोहणम्
सोमस्य शकटारोहणम्
सुब्रह्मण्या आह्वानम्

राज्ञः हरणम् :-
उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताꣳ अनु यजमानो राजानमादायोत्थाय । उर्वन्तरिक्षमन्विहि शकटायाभिप्रव्रजति । अध्वर्युः - अदित्यास्सदोऽसि शकटनीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य । अदित्यास्सद आ सीदास्तभ्नाद्द्यामृषभो
 
अन्तरिक्षममिमीत वरिमाणं पृथिव्या आ सीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि तस्मिन्राजानमासाद्य । वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पयो अघ्नियासु हृत्सु क्रतुं वरुणो विक्ष्वग्निं दिवि सूर्यमदधात्सोममद्रौ वाससा पर्यानह्यति । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यति ऊर्ध्वग्रीवं बहिष्टाद्विशसनम् । धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः दक्षिणां धुरमभिमृशति । तेनैव उत्तरां च । वारुणमसि शकटमाखिद्य । वरुणस्त्वोत्तभ्नातु उपस्तभ्य । वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि दक्षिणस्यां धुरि शम्यां प्रतिमुच्य । तेनैव उत्तरस्यां प्रतिमुच्य । उस्रावेतं धूर्षाहावनश्रू अवीरहणौ ब्रह्मचोदनौ युगपदनड्वाहावुपाज्य । वारुणमसि योक्त्रपाशं परिहृत्य । प्रत्यस्तो वरुणस्य पाशः अभिधानीं प्रत्यस्यति । एवमुत्तरमनड्वाहं युनक्ति वारुणमसि, प्रत्यस्तो वरुणस्य पाशः । हरिणीशाखे बिभ्रत्सुब्रह्मण्योऽन्तरेषेऽवसर्पति पलाशशाखे शमीशाखे वा । अध्वर्युः - सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रू३हि सुब्रह्मण्य सुब्रह्मण्यामा३ह्वय शकटमन्वारभ्य सम्प्रेष्यति । यजमानः – सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्मवर्चसमन्नाद्यम् सर्वासु सुब्रह्मण्यासु सुब्रह्मण्यमन्वारभ्य यजमानो जपति । एवं त्रिराहूतामाहूताम् । अध्वर्युणा प्रेषितेन होत्रा प्रथमायां त्रिरनूक्तायां प्रच्यवस्व भुवस्पते विश्वान्यभि धामानि मा त्वा परिपरी विदन्मा त्वा परिपन्थिनो विदन्मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुरादघत् अध्वर्युब्रह्मयजमानाः प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते । ब्रह्मा दक्षिणत एति । श्येनो भूत्वा परापत यजमानस्य नो गृहे देवैस्सᳪँ、स्कृतं यजमानस्य स्वस्त्ययन्यसि अध्वर्युः राजानमभिमन्त्रयते । अपि पन्थामगस्महि स्वस्तिगामनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु अध्वर्युर्यजमानश्च दक्षिणेनोत्तरेण वा राजानमतिक्रामतः । नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतꣳ सपर्यत दूरदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शꣳसत अजेनाग्नीषोमीयेन कर्णगृहीतेन यजमानो राजानमोह्यमानं प्रतीक्षते । अजस्तु लोहस्तूपरो भवति अप्यतूपरः कृष्णसारङ्गो लोहितसारङ्गो वा स्थूलः पीवा श्मश्रुणः । औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्यानूच्या नाभिदघ्नपादा मौञ्जविवाना । अध्वर्युप्रतिप्रस्थातृनेष्ट्रुन्नेतारो तां राजासन्दीमुद्गृह्णन्ति । अग्नीन् प्रज्वलयन्ति । अध्वर्युरग्रेण प्राग्वंशं प्रागीषमुदगीषं वा शकटमवस्थाप्य । वारुणमसि शकटमाखिद्य । वरुणस्त्वोत्तभ्नातु उपस्तभ्य । वरुणस्य स्कम्भनमसि वरुणस्य
 
स्कम्भसर्जनमसि दक्षिणां शम्यामुद्गृह्य । विवृत्तो वरुणस्य पाशः योक्त्रपाशं विचृत्य । उन्मुक्तो वरुणस्य पाशः अभिधानीमुन्मुञ्चति । एवमुत्तरमनड्वाहं विमुञ्चति । विमुक्तस्सव्यः अविमुक्तो वा ।
आतिथ्येष्टिः
अथातिथ्यायास्तन्त्रं प्रक्रमयति । उत्तरेण गार्हपत्यमित्यादि । बर्हिराहरणकाले आश्ववालः प्रस्तरः । ऐक्षवी विधृती द्वाविंशतिदारुरिध्मः कार्ष्मर्यमयाः परिधयः । ततस्त्वां द्वाविꣳशतिधा सम्भरामि । त्रीन्परिधीन् द्वे समिधौ । नेध्मप्रव्रश्चनम् । अलङ्कृत्य परिस्तीर्य । देवा देवेषु । कर्मणे वां इत्यादि । नवकपालानि स्फ्यश्च द्वंद्वम् । प्रणीतान्वाहार्यस्थालीवर्जम् । न ब्रह्मवरणम् । निर्वापकाले मुख्यापत्नी पात्रीमन्वारभते । देवस्य त्वा --- हस्ताभ्यामग्नेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि प्रथमम् । देवस्य त्वा --- हस्ताभ्याꣳ सोमस्यातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि द्वितीयम् । देवस्य त्वा --- हस्ताभ्यामतिथेरातिथ्यमसि विष्णवे त्वा जुष्टं निर्वपामि तृतीयम् । देवस्य त्वा --- हस्ताभ्यामग्नये त्वा रायस्पोषदाव्न्ने विष्णवे त्वा जुष्टं निर्वपामि चतुर्थम् । देवस्य त्वा - -- हस्ताभ्याᳪँ、 श्येनाय त्वा सोमभृते विष्णवे त्वा जुष्टं निर्वपामि पंचमम् । तूष्णीं षष्ठं अन्वावापस्सप्तमः । इदं देवानामित्यादि । विष्णुवदेवात ऊर्ध्वं संस्कारः । विष्णो हव्यꣳ रक्षस्व [२५]1 । विष्णवे वो जुष्टं प्रोक्षामि । हविष्कृदेहीति वाचं विसृज्य ।
शकटात् प्राचीनवंशे राज्ञः आनयनं, आसन्द्यां स्थापनं च :-
वरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्जनमसि उत्तरां शम्यामुद्वृह्य । विचृत्तो वरुणस्य पाशः योक्त्रपाशं विचृत्य । उन्मुक्तो वरुणस्य पाशः अभिधानीमुन्मुञ्चति । वारुणमसि परिश्रयणवासोऽपादाय । वरुणोऽसि धृतव्रतः राजानमादाय । अच्छिद्रपत्रः प्रजा उपावरोहोशन्नुशतीस्स्योनस्स्योनास्सोमराजन् विश्वस्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्तु इत्युपावहृत्य । उर्वन्तरिक्षमन्विहि अभिप्रव्रजति । आसन्दीमादाय प्रतिप्रस्थाता पूर्वः प्रतिपद्यते । अध्वर्युः – या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञं गयस्फानः प्रतरणस्सुवीरोऽवीरहा प्रचरा सोम दुर्यान् पूर्वया द्वारा प्राग्वंशं प्रविश्य अपरेणाहवनीयं राजानं दक्षिणातिहरति । पूर्वेणाहवनीयं राजानं प्रतिप्रस्थाता राजासन्दीं हरति । अध्वर्युः – वरुणस्यर्तसदन्यसि दक्षिणेनाहवनीयं राजासन्दीं प्रतिष्ठाप्य । अदित्यास्सदोऽसि तस्यां शकटवत् कृष्णाजिनमास्तृणाति । अदित्यास्सद आसीद तस्मिन् राजानमासाद्य । वरुणोऽसि धृतव्रतः राजानमभिमन्त्रयते । वारुणमसि शं योर्देवानाꣳ
 
सख्यान्मा देवानामपसश्छित्स्महि वाससा पर्यानह्यति । अग्निं राजानं चांतरेण मा सञ्चारिष्ट इति सम्प्रेष्यति । अवरक्षो दिव इत्यवहननादि कर्म प्रतिपद्यते । विष्णवे जुष्टमधिवपामि । कपालानामुपधानकालेऽष्टावुपधाय । चितस्थ प्रजामस्मै इत्यावृत्या नवममुपदधाति । विष्णवे जुष्टꣳ संवपामि । अन्या आपो यजुषोत्पूय समापो अद्भिरग्मत । पत्नीवर्जं सम्प्रेष्यति । दिवश्शिल्पमवततम् । अग्ने गृहपत इत्यादि । चतुर्गृहीतान्याज्यानि पञ्चावत्तिनामपि । विष्णवे जुष्टमभिघारयामि । पृथिवी होतेति चतुर्होत्रातिथ्यमासाद्य । यज्ञोस्ययं यज्ञो ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । अग्निर्यजुर्भिरित्यादि सम्भारयजूंषि व्याचष्टे । यजमानं वाचयतीत्येके । पशुवन्निर्मन्थ्यस्सामिधेन्यश्च । अग्नेर्जनित्रमसीत्याद्यभिहोमान्तम् । वेदं निधायेत्यादि । होतरेहि प्रस्तोतरेहि । प्रयाजेषु इडान्तामिष्टवा औपभृतं सर्वमानयति । नोपभृतमभिघारयति । उपांशु प्रधानयागः । अवद्यमाने साम । विष्णवे अनुब्रूहि । विष्णुं यज । विष्णव इदम् । विष्णोरहं देवयज्ययान्नादो भूयासम् । नारिष्ठादि । न यजमानभागम् । इडामार्जनान्ता आतिथ्या सन्तिष्ठते । धारयति ध्रौवमाज्यम् । गार्हपत्ये दीक्षितस्य व्रतं श्रपयतीत्यादि नाभ्यभिमर्शनान्तं पूर्ववत् ।।
॥ इति प्रथमोध्यायः ॥


  1. यस्य पित्रादयः अनिष्टप्रथमयज्ञाः तस्य सोमः प्रथमसोमः इत्यर्थः । प्रायश्चित्तपशुविषये भूमिकां पश्यन्तु
  2. उपालम्भ्यं कुर्वन् इति द्रा. प्र
  3. यूयं चान्ये च इति द्रा. प्र
  4. न्यस्तं = त्यक्तम्
  5. नमस्सोमाय राज्ञे सोमराजानमावाहयामि । नमस्सोमाय राजे आसनं समर्पयामीत्यादि षोडशोपचारपूजां कृत्वा इति अ. ह. पाठः ।
  6. केशवपनसूक्तम्। केशवपनं नवीनकोशिकासर्जनस्य रोधनमस्ति, यथा आधुनिक कैंसरचिकित्सायां कैमोथीरेपी काले केशपतनं भवति।
  7. भ्रुवौ प्रकोष्ठौ च वर्जयित्वा सर्वरोमाणि इति पाठान्तरम्
  8. पत्न्याः मन्त्रो नास्ति इति द्रा. प्र
  9. आन्ध्रप्रयोगे प्रथमद्वितीययोः तस्य ते पवित्रपते इत्यनुषङ्गः नास्ति ।
  10. यदा स्रुवेणाध्वर्युस्तदा स्रुचा यजमानः इति द्रा. प्र
  11. अङ्गुलि उपरि टिप्पणी
  12. वात/वातरशना उपरि टिप्पणी
  13. कनिष्ठिके अनामिके
  14. परिणयो व्याकरणाभिलक्षितः । तेन वाचं जल्पति । प्राकृताभिर्देशभाषाभिः दीक्षितेन न भणितव्यमिति व्याख्या
  15. निरष्ठविषमस्तृतम् इति अ. ह. पाठः
  16. ब्रह्मभागाभावात्
  17. प्रस्तरवर्जम्, तस्य प्रहृतत्वात्
  18. ऋतून्कल्पय इति पाठान्तरम्
  19. भूयो वा अतः इति पाठान्तरम्
  20. गवा ते क्रीणानि । भूयो वा अतः सोमोराजार्हति सर्वेषु पणनेषु सोमविक्रयी प्रत्याह आ संपदः । एषा सोमक्रयणी निर्दिश्य । तस्या आत्मा तस्या रूपं तस्याः प्रजाः तस्या बंधुः इति जपति । इति अ. ह. पाठः
  21. धेन्वा सवत्सया ते क्रीणानीति द्राविडपाठः
  22. अस्मद्ग्रामप्रयोगे वत्सेन ते क्रीणानि इति नास्ति
  23. मिथुनाभ्यां गोभ्यां वत्सतराभ्यां ते क्रीणानि अ. ह पाठः
  24. अस्मे कर्मणे इति पाठान्तरम्
  25. अदित्यास्त्वोपस्थे सादयाम्यग्नाविष्णू हव्यꣳ रक्षेथां सोमविष्णू हव्यꣳ रक्षेथामतिथिविष्णू हव्यꣳ रक्षेथामग्नाविष्णू हव्यꣳ रक्षेथां श्येनविष्णू हव्यꣳ रक्षेथाम् । इति अ. ह . पाठ