सामग्री पर जाएँ

शतपथब्राह्मणम्/काण्डम् ३/अध्यायः १/ब्राह्मणम् १

विकिस्रोतः तः


३.१.१ अग्निष्टोमे देवयजनम्

देवयजनं जोषयन्ते । स यदेव वर्षिष्ठं स्यात्तज्जोषयेरन्यदन्यद्भूमेराभिशयीतातो वै देवा दिवमुपोदक्रामन्देवान्वा एष उपोत्क्रामति यो दीक्षते स सदेवे देवयजने यजते स यद्धान्यद्भूमेरभिशयीतावरतर इव हेष्ट्वा स्यात्तस्माद्यदेव वर्षिष्ठं स्यात्तज्जोषयेरन् - ३.१.१.१

तद्वर्ष्म सत्समं स्यात् । समं सदविभ्रंशि स्यादविभ्रंशि सत्प्राक्प्रवणं स्यात्प्राची हि देवानां दिगथो उदक्प्रवणमुदीची हि मनुष्याणां दिग्दक्षिणतः प्रत्युच्छ्रितमिव स्यादेषा वै दिक्पितॄणां स यद्दक्षिणाप्रवणं स्यात्क्षिप्रे ह यजमानोऽमुं लोकमियात्तथो ह यजमानो ज्योग्जीवति तस्माद्दक्षिणतः प्रत्युच्छ्रितमिव स्यात् - ३.१.१.२

न पुरस्ताद्देवयजनमात्रमतिरिच्येत । द्विषन्तं हास्य तद्भ्रातृव्यमभ्यतिरिच्यते कामं ह दक्षिणतः स्यादेवमुत्तरत एतद्ध त्वेव समृद्धं देवयजनं यस्य देवयजनमात्रं पश्चात्परिशिष्यते क्षिप्रे हैवैनमुत्तरा देवयज्योपनमतीति नु देवयजनस्य - ३.१.१.३

तदु होवाच याज्ञवल्क्यः । वार्ष्ण्याय देवयजनं जोषयितुमैम तत्सात्ययज्ञोऽब्रवीत्सर्वा वा इयं पृथिवी देवी देवयजनं यत्र वा अस्यै क्व च यजुषैव परिगृह्य याजयेदिति - ३.१.१.४

ऋत्विजो हैव देवयजनम् । ये ब्राह्मणाः शुश्रुवांसोऽनूचाना विद्वांसो याजयन्ति सैवाह्वलैतन्नेदिष्ठमामिव मन्यामह इति - ३.१.१.५

तच्छालो वा विमितं वा प्राचीनवंशं मिन्वन्ति । प्राची हि देवानां दिक्पुरस्ताद्वै देवाः प्रत्यञ्चो मनुष्यानुपावृत्तास्तस्मात्तेभ्यः प्राङ्तिष्ठञ्जुहोति - ३.१.१.६

तस्मादु ह न प्रतीचीनशिराः शयीत । नेद्देवानभिप्रसार्य शया इति या दक्षिणा दिक्सा पितॄणां या प्रतीची सा सर्पाणां यतो देवा उच्चक्रमुः सैषाहीना योदीची दिक्सा मनुष्याणां तस्मान्मानुष उदीचीनवंशामेव शालां वा विमितं वा मिन्वन्त्युदीची हि मनुष्याणां दिग्दीक्षितस्यैव प्राचीनवंशा नादीक्षितस्य - ३.१.१.७

तां वा एतां परिश्रयन्ति । नेदभिवर्षादिति न्वेव वर्षा देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति तिर इव वै देवा मनुष्येभ्यस्तिर इवैतद्यत्परिश्रितं तस्मात्परिश्रयन्ति - ३.१.१.८

तन्न सर्व इवाभिप्रपद्येत ब्राह्मणो वैव राजन्यो वा वैश्यो वा ते हि यज्ञियाः - ३.१.१.९

स वै न सर्वेणेव संवदेत । देवान्वा एष उपावर्तते यो दीक्षते स देवतानामेको भवति न वै देवा सर्वेणेव संवदन्ते ब्राह्मणेन वैव राजन्येन वा वैश्येन वा ते हि यज्ञियास्तस्माद्यद्येनं शूद्रेण संवादो विन्देदेतेषामेवैकं ब्रूयादिममिति विचक्ष्वेममिति विचक्ष्वेत्येष उ तत्र दीक्षितस्योपचारः - ३.१.१.१०

अथारणी पाणौ कृत्वा । शालामध्यवस्यति स पूर्वार्ध्यं स्थूणाराजमभिपद्यैतद्यजुराहैदमगन्म देवयजनं पृथिव्या यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैश्च देवैर्जुष्टं भवति ये चेमे ब्राह्मणाः शुश्रुवांसोऽनूचाना यदहास्य तेऽक्षिभ्यामीक्षन्ते ब्राह्मणाः शुश्रुवांसस्तदहास्य तैर्जुष्टं भवति - ३.१.१.११

यद्वाह । यत्र देवासो अजुषन्त विश्व इति तदस्य विश्वैर्देवैर्जुष्टम्भवत्यृक्सामाभ्यां संतरन्तो यजुर्भिरित्यृक्सामाभ्यां वै यजुर्भिर्यज्ञस्योदृचं गच्छन्ति यज्ञस्योदृचं गच्छानीत्येवैतदाह रायस्पोषेण समिषा मदेमेति भूमा वै रायस्पोषः श्रीर्वै भूमाऽऽशिषमेवैतदाशास्ते समिषा मदेमेतीषं मदतीति वै तमाहुर्यः श्रियमश्नुते यः परमतां गच्छति तस्मादाह समिषा मदेमेति - ३.१.१.१२