शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ५
ब्राह्मण १ त्रयीमयादित्याग्न्युपासनं ब्राह्मणम्
१ त्रयीमयादित्याग्न्युपासनं ब्राह्मणम्-तत्र पूर्वं तस्याग्नेस्त्रयीमयत्वस्य प्रदर्शनं, वाचस्त्रैविध्यादग्निरपि तया चितस्त्रिविध इत्यभिधानं, चित्याग्नेरवयवभूतानां त्रेधाविहितानामिष्टकानां लिङ्गत्रयाभिधेयत्वस्य प्रदर्शनम, एवं त्रेधाविहित आत्माऽपि लिङ्गत्रयाभिधेय इत्युक्त्वाऽनेन त्रेधाविहितेनात्मना त्रिविधेष्टकाचितेन त्रेधाविहितमग्निवायुसूर्यात्मना त्रिविधं दैवममृतमादित्यमाप्नोति तद्यदीष्टकानां लिङ्गत्रयशब्दाभिधेयत्वं तर्हि तथैव कथमिष्टकाशब्दस्य लिङ्गत्रयव्यवहारो नास्तीत्याशंक्य वाग्रूपत्वेन तस्याः शंकायाः परिहरणं, वाच आदित्यरूपत्वस्याभिधानम्, एतस्योपासनस्य फलनिरूपणं, यदुक्तं विद्ययाऽस्यादित्यस्योर्ध्वमग्निश्चितो भवतीति तस्य विशदीकरणं चेत्यादि.
ब्राह्मण २ मण्डलपुरुषोपासनं ब्राह्मणम्
२ मण्डलपुरुषोपासनं ब्राह्मणम्--तत्र सूर्यमण्डलार्चिःपुरुषत्रयस्याधिदैवाधियज्ञाध्यात्मपरत्वेनार्थस्य प्रतिपादनं, तत्राप्यधिदैवतया चयनगतमहदुक्थमहाव्रताग्नित्रयं क्रमेण मण्डलार्चिःपुरुषरूपत्वेनोपासनीयमित्यभिधानं, तत्र प्रसङ्गान्मण्डलस्थपुरुषस्य मृत्युरूपत्वमर्चिषोऽमृतरूपत्वं-पुरुषार्चिषोरुभयोर्मण्डलमेव प्रतिष्ठा--अस्मिन्नर्थे मन्त्रसंवादं प्रदर्श्य तस्य प्रतिपदमनूद्य व्याख्यानं चेत्यादिविशेषकथनम्, अधियज्ञतया चयनगतरुक्मपुष्करपर्णहिरण्मयपुरुषाणां मण्डलार्चिःपुरुषरूपत्वेनैवो. पासनमित्यभिधानम्, अध्यात्मतयाऽपि मण्डलादित्रयस्याधियज्ञिकरुक्मपुष्कर. पर्णहिरण्मयपुरुषत्रयस्य च दक्षिणाक्षिगतशुक्लकृष्णवर्णद्वयतदन्तर्वर्तिपुरुषेषु तादात्म्यनोपासनमित्यभिधानं, तत्राक्षिद्वयगतपुरुषद्वन्द्वस्य मिथुनत्वमुपपाद्य तत्प्रशंसनं, मिथुनात्मना स्तुतस्य पुरुषद्वयस्य स्त्रीपुँलिङ्गेन्द्रेन्द्राणीशब्दाभ्यां विशदीकरणं, प्रसङ्गात्स्त्रीसमीपे भोजनाकरणरूपं व्रतमभिधाय तदनुतिष्ठतां वीर्यवत्पुत्रोत्पत्तिरूपं फलं भवतीति प्रदर्शनम्, इन्द्रेन्द्राणीनाम्नोः स्त्रीपुरुषयोः सङ्गमस्य स्थानलक्षणानां प्रतिपादनं, तत्र प्रसङ्गादेतद्दिव्यमिथुनवृत्तान्तविदुपासकस्य " स्वपन्तं पुरुषं न प्रबोधयेत" इति धर्मविशेषकथनं, एवं प्रासङ्गिकं परिसमाप्य मण्डलस्थपुरुषात्मनोपासनीयस्य दक्षिणाक्षिपुरुषस्य मृत्युरूपत्वप्राणरूपत्वयोरमिधानं, तस्मिन्नेव मुख्येऽक्षिपुरुषरूपे प्राणे सर्वेषां प्राणानामप्ययस्य सोपपत्तिकं विशदीकरणं, दक्षिणाक्षिपुरुषस्य मृत्युत्वमुपजीव्य प्रश्नप्रतिवचनपूर्वकं मृत्युगतैकत्वबहुत्वान्तिकत्वदूरत्वानां मीमांसाकरणं, मृत्योरन्नातृत्वस्य मन्त्रसंवादपूर्वकमभिधानम्, उक्तमन्त्रस्याधिदैवाध्यामपरत्वेन ब्याख्यानम् , एवमधिदैवमध्यात्मं च यः पुरुषः परमात्मोपास्यत्वेनाभिहितस्तस्य प्रशंसार्थं नानारूपैरुपासनस्य विधानं, प्रागीरितरुक्माद्युपजीव्योपासनान्तरस्य विधानं, विहितस्य बहुविधोपासनस्य फलनिरूपणं चेत्यादि.
ब्राह्मण ३ मानसाग्न्युपासनं ब्राह्मणम्
३ मानसाग्न्युपासनं ब्राह्मणम्—तत्र प्रथमं सर्वेषामिन्द्रियाणां मध्ये मनसः प्रामुख्यात्तत्सम्पाद्यमग्निं प्रस्तोतुं मनसः स्वरूपस्य तत्सृष्टेश्च प्रतिपादनं, सृष्टिप्राक्काले सदसद्विलक्षणसद्भावस्य मन्त्रसंवादेन दृढीकरणं, उक्तस्य सदद्विलक्षणत्वस्य मनसि प्रदर्शनं, सकलपुरुषवर्तिमनोवाक्प्राणचक्षुःश्रोत्रकर्माग्निवृत्ति सम्पाद्यचित्याग्निविषयाणामुपासनानां विधानं, तत्र तत्तत्पर्यायादौ तस्य तस्योत्पत्तेः स्वरूपस्य चाभिधानं कर्मणाऽग्निसृष्टेः स्पष्टीकरणम् , एतेषां मनश्चित्प्रमुखाग्नीनां सर्वेषां स्वतन्त्रविद्यामयत्वमाख्यातुमुपोद्बलकानां श्रुतिलिङ्गवाक्यानामुदाहरणं चेत्यादि.
ब्राह्मण ४ चित्याग्नौ लोकदृष्ट्युपासनं ब्राह्मणम्
४ चित्याग्नौ लोकदृष्ट्युपासनं ब्राह्मणम् -- तत्र भूम्यन्तरिक्षद्यौरादित्यनक्षत्रच्छन्दःसंवत्सरात्मनां परिश्रिद्यजुष्मतीसूददोहसां पुरीषाहुतिसमिल्लोकम्पृणादीनां च सम्पादनद्वारा सोपपत्तिकं चित्याग्निरूपत्वं प्रतिपाद्य तद्रूपेणोपासनस्य विधानं, तत्र प्रतिपर्यायं तत्तत्पर्यायोक्तमर्थं वेदितुः फलनिरूपणं, तथा नक्षत्रच्छन्दः संवत्सरात्मपर्यायेषु सम्पन्नां संख्यां प्रशंसितुं बृहतीसम्पादनम्, अपस्वग्नित्वेनोपासनस्य विधित्सया अपां सर्वदेवभूतात्मकत्वस्य निरूपणम्, उक्तेषु पर्यायेषु " अथ या अमूः षट्त्रिंशत्" इत्युक्तं तस्य विभागकथनम्, एवं षट्त्रिंशदिष्टकामयो हिरण्मयः पुरुष आत्मा सर्व भूतदेवात्मनामपामग्न्यात्मना ध्येयानां मध्ये वर्तत इत्यभिधानं, तादृग्रूप आत्मा सर्वैर्ज्ञानेन लभ्यो न कर्मशतैरिति मन्त्रसंवादेन प्रतिपादनम् , उक्तमन्त्रस्य तात्पर्यकथनम्, अब्रूपाग्नेः पुरीषाहुतिसमिल्लोकम्पृणादीनां सम्पादनम्, उक्तस्य देवात्मत्वस्य मन्त्रसंवादेनोपपादनम् उक्तमन्त्रस्य तात्पर्यकथनमुपासकस्य फल. कथनं च, पूर्ववदत्रापि सम्पन्नां संख्यां प्रशंसितुं बृहतीसम्पादनं चेत्यादि.
ब्राह्मण ५
५ चित्याग्नेः सर्वदिग्गतमुखत्वपृथक्छिरस्त्वयोर्निरूहणाभावस्य प्रतिपादनं, तत्रैकैकदिग्गतमुखत्वे दोषमुद्भावयितुं तेषां पक्षाणां पुरावृत्तकथनेनानुवादकरणं, तेषु यथाक्रमं सुश्रवकर्तृकं दोषाणामभिधानम् , अग्निचित्कश्चिदुक्तदोषपरिजिहीर्षया सकलदिङ्मुखमग्निं चितवानित्यभिधानं, विपरीतानुष्ठानेऽन्येन चोदिते स्वयमपि यथाविधि कृतमित्युक्तं तद्वचनमात्रेण कर्म साङ्गं न भवतीति मत्वा स्वानुष्ठानप्रकारेणाग्नेः सकलदिगभिमुखत्वस्य विशदीकरणं, पक्षिरूपस्य चित्यानेरिष्टकोपधानक्रमेण कूर्मपशुशिरःपरोक्षमाहवनीयाग्निरेव प्रत्यक्षं शिरः-न तु पक्षपुच्छवत्पृथक्छिरसः करणमिति वक्तुं पृथक्करणपक्षस्य पुरावृत्तकथनेन निन्दाकरणं, शिरसः प्राणरूपत्वमेव मतं तत्रैव दोषान्तरस्य समुच्चयप्रदर्शनम्, एवं शिरसः पृथक्करणपक्षो निन्दितो यदि तहि पक्षिरूपोऽग्निः शिरोरहितः स्यादितीमामाशङ्कां परिहर्तुमिष्टकाभिरेव परोक्षमपरोक्षं च शिरः सम्पादनीयमित्यभिधानं, यथा तिष्ठतः पुरुषस्य पादबाह्वादयोअवयवा उत्तरोत्तरक्रमेणावस्थिताः सन्तो मूर्धान्तं यन्ति-एवमेवास्य चित्याग्नेरवयवरूपेष्टकासन्निवेशस्य प्रदर्शनं, प्रत्यक्षतमस्य शिरसः प्रदर्शनं चेत्यादि.