शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ५/ब्राह्मण २

विकिस्रोतः तः
Jump to navigation Jump to search

१०.५.२ मण्डलपुरुषोपासनं ब्राह्मणम्

यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽथ य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः - १०.५.२.[१]

सैषा त्रय्येव विद्या तपति तद्धैतदप्यविद्वांस आहुस्त्रयी वा एषा विद्या तपतीति वाग्घैव तत्पश्यन्ती वदति - १०.५.२.[२]

स एष एव मृत्युः। य एष एतस्मिन्मण्डले पुरुषोऽथैतदमृतं यदेतदर्चिर्दीप्यते तस्मान्मृत्युर्न म्रियतेऽमृते ह्यन्तस्तस्मादु न दृश्यतेऽमृते ह्यन्तः - १०.५.२.[३]

तदेष श्लोको भवति अन्तरं मृत्योरमृतमित्यवरं ह्येतन्मृत्योरमृतं मृत्यावमृतमाहितमित्येतस्मिन्हि पुरुष एतन्मण्डलं प्रतिष्ठितं तपति मृत्युर्विवस्वन्तं वस्त इत्यसौ वा आदित्यो विवस्वानेष ह्यहोरात्रे विवस्ते तमेष वस्ते सर्वतो ह्येनेन परिवृतो मृत्योरात्मा विवस्वतीत्येतस्मिन्हि मण्डल एतस्य पुरुषस्यात्मैतदेष श्लोको भवति - १०.५.२.[४]

तयोर्वा एतयोः उभयोरेतस्य चार्चिष एतस्य च पुरुषस्यैतन्मण्डलं प्रतिष्ठा तस्मान्महदुक्थं परस्मै न शंसेन्नेदेतां प्रतिष्ठां छिनदा इत्येतां ह स प्रतिष्ठां छिन्त्ते यो महदुक्थं परस्मै शंसति तस्मादुक्थशसं भूयिष्ठं परिचक्षते प्रतिष्ठाछिन्नो हि भवतीत्यधिदेवतम् - १०.५.२.[५]

अथाधियज्ञम् यदेतन्मण्डलं तपत्ययं स रुक्मोऽथ यदेतदर्चिर्दीप्यत इदं तत्पुष्करपर्णमापो ह्येता आपः पुष्करपर्णमथ य एष एतस्मिन्मण्डले पुरुषोऽयमेव स योऽयं हिरण्मयः पुरुषस्तदेतदेवैतत्त्रयं संस्कृत्येहोपधत्ते तद्यज्ञस्यैवानु संस्थामूर्ध्वमुत्क्रामति तदेतमप्येति य एष तपति तस्मादग्निं नाद्रियेत परिहन्तुममुत्र ह्येष तदा भवतीत्यु एवाधियज्ञम् - १०.५.२.[६]

अथाध्यात्मम् यदेतन्मण्डलं तपति यश्चैष रुक्म इदं तच्छुक्लमक्षन्नथ यदेतदर्चिर्दीप्यते यच्चैतत्पुष्करपर्णमिदं तत्कृष्णमक्षन्नथ य एष एतस्मिन्मण्डले पुरुषो यश्चैष हिरण्मयः पुरुषोऽयमेव स योऽयं दक्षिणेऽक्षन्पुरुषः - १०.५.२.[७]

स एष एव लोकम्पृणा तामेष सर्वोऽग्निरभिसम्पद्यते तस्यैतन्मिथुनं योऽयं सव्येऽक्षन्पुरुषोऽर्धमु हैतदात्मनो यन्मिथुनं यदा वै सह मिथुनेनाथ सर्वोऽथ कृत्स्नः कृत्स्नतायै तद्यत्ते द्वे भवतो द्वन्द्वं हि मिथुनं प्रजननं तस्माद्द्वे द्वे लोकम्पृणे उपधीयेते तस्मादु द्वाभ्यां चितिं प्रणयन्ति - १०.५.२.[८]

स एष एवेन्द्रः योऽयं दक्षिणेऽक्षन्पुरुषोऽथेयमिन्द्राणी ताभ्यां देवा एतां विधृतिमकुर्वन्नासिकां तस्माज्जायाया अन्ते नाश्नीयाद्वीर्यवान्हास्माज्जायते वीर्यवन्तमु ह सा जनयति यस्या अन्ते नाश्नाति - १०.५.२.[९]

तदेतद्देवव्रतं। राजन्यबन्धवो मनुष्याणामनुतमां गोपायन्ति तस्मादु तेषु वीर्यवान्जायतेऽमृतवाका वयसां सा क्षिप्रश्येनं जनयति - १०.५.२.[१०]


तौ हृदयस्याकाशं प्रत्यवेत्य मिथुनीभवतस्तौ यदा मिथुनस्यान्तं गच्छतोऽथ हैतत्पुरुषः स्वपिति तद्यथा हैवेदं मानुषस्य मिथुनस्यान्तं गत्वा संविद इव भवत्येवं हैवैतदसंविदैव भवति दैवं ह्येतन्मिथुनं परमो ह्येष आनन्दः - १०.५.२.[११]

तस्मादेवंवित्स्वप्यात् । लोक्यं हैते एव तद्देवते मिथुनेन प्रियेण धाम्ना समर्धयति तस्मादु ह स्वपन्तं धुरेव न बोधयेन्नेदेते देवते मिथुनीभवन्त्यौ हिनसानीति तस्मादु हैतत्सुषुपुषः श्लेष्मणमिव मुखं भवत्येते एव तद्देवते रेतः सिञ्चतस्तस्माद्रेतस इदं सर्वं सम्भवति यदिदं किं च - १०.५.२.[१२]

स एष एव मृत्युः य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तस्य हैतस्य हृदये पादावतिहतौ तौ हैतदाच्छिद्योत्क्रामति स यदोत्क्रामत्यथ हैतत्पुरुषो म्रियते तस्मादु हैतत्प्रेतमाहुराच्छेद्यस्येति - १०.५.२.[१३]

एष उ एव प्राणः एष हीमाः सर्वाः प्रजा प्रणयति तस्यैते प्राणाः स्वाः स यदा स्वपित्यथैनमेते प्राणाः स्वा अपियन्ति तस्मात्स्वाप्ययः स्वाप्ययो ह वै तं स्वप्न इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः - १०.५.२.[१४]

स एतैः सुप्तः। न कस्य चन वेद न मनसा संकल्पयति न वाचाऽन्नस्य रसं विजानाति न प्राणेन गन्धं विजानाति न चक्षुषा पश्यति न श्रोत्रेण शृणोत्येतं ह्येते तदापीता भवन्ति स एष एकः सन्प्रजासु बहुधा व्याविष्टस्तस्मादेका सती लोकम्पृणा सर्वमग्निमनुविभवत्यथ यदेक एव तस्मादेका - १०.५.२.[१५]

तदाहुः एको मृत्युर्बहवा३ इत्येकश्च बहवश्चेति ह ब्रूयाद्यदहासावमुत्र तेनैकोऽथ यदिह प्रजासु बहुधा व्याविष्टस्तेनो बहवः - १०.५.२.[१६]

तदाहुः अन्तिके मृत्युर्दूरा इत्यन्तिके च दूरे चेति ह ब्रूयाद्यदहायमिहाध्यात्मं तेनान्तिकेऽथ यदसावमुत्र तेनो दूरे - १०.५.२.[१७]

तदेष श्लोको भवति अन्ने भात्यपश्रितो रसानां संक्षरेऽमृत इति यदेतन्मण्डलं तपति तदन्नमथ य एष एतस्मिन्मण्डले पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भातीत्यधिदेवतम् - १०.५.२.[१८]

अथाध्यात्मम्। इदमेव शरीरमन्नमथ योऽयं दक्षिणेऽक्षन्पुरुषः सोऽत्ता स एतस्मिन्नन्नेऽपश्रितो भाति - १०.५.२.[१९]

तमेतमग्निरित्यध्वर्यव उपासते यजुरित्येष हीदं सर्वं युनक्ति सामेति च्छन्दोगा एतस्मिन्हीदं सर्वं समानमुक्थमिति बह्वृचा एष हीदं सर्वमुत्थापयति यातुरिति यातुविद एतेन हीदं सर्वं यतं विषमिति सर्पाः सर्प इति सर्पविद ऊर्गिति देवा रयिरिति मनुष्या मायेत्यसुराः स्वधेति पितरो देवजन इति देवजनविदो रूपमिति गन्धर्वा गन्ध इत्यप्सरसस्तं यथायथोपासते तदेव भवति तद्धैनान्भूत्वाऽवति तस्मादेनमेवंवित्सर्वैरेवैतैरुपासीत सर्वं हैतद्भवति सर्वं हैनमेतद्भूत्वाऽवति - १०.५.२.[२०]

स एष त्रीष्टकोऽग्निः। ऋगेका यजुरेका सामैका तद्यां कां चात्रर्चोपदधाति रुक्म एव तस्या आयतनमथ यां यजुषा पुरुष एव तस्या आयतनमथ यां साम्ना पुष्करपर्णमेव तस्या आयतनमेवं त्रीष्टकः - १०.५.२.[२१]

ते वा एते। उभे एष च रुक्म एतच्च पुष्करपर्णमेतं पुरुषमपीत उभे ह्यृक्सामे यजुरपीत एवम्वेकेष्टकः - १०.५.२.[२२]

स एष एव मृत्युः। य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः स एष एवंविद आत्मा भवति स यदैवंविदस्माल्लोकात्प्रैत्यथैतमेवात्मानमभिसम्भवति सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति - १०.५.२.[२३]