शतपथब्राह्मणम्/काण्डम् ६/अध्यायः २

विकिस्रोतः तः

ब्राह्मणम् १

१ आदौ पञ्चपश्वालम्भपक्षं विधातुं प्रजापतिवृत्तान्तकथनं, पश्यतियोगात्पशुशब्दः सम्पन्न इति प्रदर्शनं, पशूनामन्यात्मकत्वप्रदर्शनं, तेषां बहुदेवतार्थमालम्भनमिति पूर्वपक्षयित्वाऽग्निभ्यः कामाय पशवे इति सिद्धान्तप्रतिष्ठापनं, पशुशीर्षोपधानं विधातुं प्रजापतिकर्तृकस्य तदुपधानस्य निरूपणम् , अजेतरपशुशरीराणामप्सु प्रप्लावनमभिधायाजेन पशुना सकारणं सोपपत्तिकं यज्ञसमापनविधानम् , अप्सु पशुचतुष्टयकायप्रासनस्य प्रयोजनकथनम् , अग्निपक्का इष्टकाश्चेतव्या इति प्रतिपादनम् , इष्टकाकरणकालस्य कथनं, पशुशीर्षोपधानानन्तरमिष्टकोपधानं पशुशिरः - कबन्धसन्धानरूपेण प्रशंस्य प्रागुक्तस्य पशूनामग्न्यात्मकत्वस्य प्रशंसनम्, एकेषां मतेनालब्धैः सर्वैः पशुभिर्यागकरणमुक्त्वाऽपरमतेन तत्सकारणं दूषयित्वा पञ्चानामपि पशूनामालम्भस्तत्रैकेनाजेन पशुना याग इति प्रागुक्तः पक्षोऽर्थसिद्धो भवतीति निरूपणं, पश्वालम्भनस्यायतनकरणात्मना प्रशंसनं, पशूनामनुक्रमणं, पशुगतपञ्चसंख्यायाः प्रशंसनं, पशूनामालम्भनक्रमविधानम, पशूनां बन्धनार्थाया रशनायाः सविशेषं सोपपत्तिकं पक्षद्वयात्मकं विधानं, प्रश्नपूर्वकं पशुष्वेव पञ्चेष्टकानां सम्पादनं, सार्थवादं सामिधेनीनां चतुर्विंशतिसंख्याकत्वप्रतिपादनं, सामिधेनीगतचतुर्विंशतिसंख्यायाः प्रकारान्तरेण प्रशंसनं, सामिधेनीगतगायत्रीत्रिष्टुप्छन्दसां प्राणात्मसमिन्धनरूपेणप्रशंसनं, मध्ये निधीयमानानामृचामनुवाचनं विधाय तासां प्रजापतिसमिन्धनार्थत्वमग्निदृष्टत्वं च दर्शयित्वा तत्राद्यायां ऋचः प्रतिपादमनूद्य व्याख्यानं, नवानामप्यृचामेकाभिधेयतां प्रदर्श्याग्न्यार्षेयत्वप्रजापतिदेवत्वयोः प्रदर्शनं, द्वादशाप्रियसंज्ञकाः प्रयाजयाज्या विधाय तासां संवत्सरात्मना प्रशंसनं, द्वादशसंख्यायाः सर्वच्छन्दोरूपद्वादशाक्षरजगत्यात्मना प्रशंसनम् , एतासामाप्रीसंज्ञकानामृचां प्रजापतेराप्रीणनार्थत्वाग्निदृष्टत्वे प्रदर्श्य तत्राद्याया ऋचः प्रतिपादमनूद्य व्याख्यानम् , एतासां द्वादशा. प्रीसंज्ञकानामृचामेकाभिधेयत्वं प्रतिपाद्य पूर्ववदग्निप्रजापतिसम्बन्धप्रदर्शनं, विहितानां प्रयाजयाज्यामंत्राणां पादाक्षरछन्दोभिर्वैषम्यमुक्त्वा तद्द्वारा विषमाणां प्रजा. पत्यङ्गानामाप्रीणनाभिधानं, प्रागुक्तान्पुरुषादीपञ्चपशूननुलक्ष्य निर्वापणीयस्य . विश्वानरदेवत्यपशुपुरोडाशस्य विधानं, सर्वासां चितीनामृत्वात्मकत्वोक्तेरग्नीनामृतुत्वमुक्तं भवत्येवेत्यभिधाय वैश्वानरायेत्यत्र केषाञ्चिन्मतेनाग्नय इति गुणपदमाशंक्य तद्दूषयित्वा वैश्वानरपुरोडाशस्य द्वादशकपालवत्त्वस्य वपापुरोडाशहविषामग्निदेवत्यानां कामपदयुक्तानां याज्याऽनुवाक्यानां च विधानं, पशुशीर्षोपधाने आलभ्य प्रागुक्तपुरुषादिपञ्चपशुशिरसां निधानं हिरण्मयशीर्षोपधान मृण्मयशीर्षोपधानं चेति पक्षत्रयं प्रतिपाद्य तत्र प्रथमपक्षं कुणपमर्त्यत्वदोषाभ्यां सदृष्टान्तं दूषयित्वा द्वितीयं तृतीयं च पक्षं साक्षात्पशुशीर्षत्वाभावदोषेण दूषयित्वा पुनःप्रथमस्य पञ्चपश्वालम्भपक्षस्यैव सिद्धान्ततयाऽनुष्ठातृसम्प्रदायप्रामाण्यावष्टम्भेन प्रतिष्ठापनं, एतावत्पर्यन्तं पञ्चपश्वालम्भपक्षमुक्त्वाऽधुना प्राजापत्यवायव्यपशोर्द्वयोरालम्भनपक्ष उच्यत इति प्रतिपादनं चेत्यादि.


ब्राह्मणम् २

२ प्राजापत्यपश्वनुष्ठाने सफलं चरकाध्वर्यूणां सम्प्रदायस्य प्रदर्शनं, तस्य पशोः सोपपत्तिकं श्यामत्वतूपरत्वादिगुणविधानं प्राजापत्यपशुपक्षे सामिधेनीषु समिध्यमानसमिद्धवत्योर्ऋचोर्मध्ये षट्धाय्या निदध्यादिति विधानं, प्राकृता निविष्टाश्चोभयीर्मिलित्वैकविंशतिसामिधेन्य इति दर्शयित्वाऽस्या एकविंशतिसंख्यायाः पूर्ववत्प्रकारद्वयेन प्रशंसनं, सामिधेनीष्वादौ भूयस्यो गायत्र्यो मध्ये त्रिष्टुभोऽन्ते पुनर्गायत्र्यः प्रजापतिसंधानार्थास्तासां विधायकस्य ब्राह्मणस्यातिदेशः, पूर्वाघारो हिरण्यगर्भवत्यर्चा कर्तव्यो देवतासामान्यादिति सोपपत्तिकं पूर्वपक्षयित्वा सिद्धान्ते तूत्तराघार एव हिरण्यगर्भवत्यर्चा कर्तव्यो मंत्रवत्त्वसामान्यादिति निगमनम् , आप्रीणामृचां संख्यायाः स्तावकब्राह्मणस्य प्रजापतिसंस्कारसन्धानजननलक्षणैकार्थव्याख्यानब्रह्मणस्य प्राजापत्यपशुपुरोडाशब्राह्मणस्य चातिदेशः, कद्वतीनामृचां प्रजापतिदेवत्यत्वप्रदर्शनं, वायव्यपशुपक्षविधानं तत्र सोपपत्तिकं वायोर्नियुत्वद्गुणकत्वस्य पशोः शुक्लत्वतूपरत्वादिगुणकत्वस्य च प्रदर्शनं, अस्य वायव्यपशोः सप्तदश सामिधेनीरभिधाय तद्गतसंख्याया मासर्तुरूपसंवत्सरात्मना सप्तदशावयवकपुरुषात्मना च प्रशंसनं, सामिधेनीगतगात्र्यादीनां स्तावकब्राह्मणस्य पूर्ववदतिदेशः, वायव्यपशौ प्राजापत्यपशुकरणस्य प्रशंसनं, प्राजापत्यपुरोडाशस्य कद्वत्योर्याज्याऽनुवाक्ययोर्विधानं कशब्दस्य प्रजापतिवाचकत्वकथनं च, वपापुरोडाशपश्वङ्गानां सार्थवादमनुक्रमविधानं वपाहविषोर्नियुत्वत्पदवत्योर्याज्याऽनुवाक्ययोर्विधानं, शाखान्तरानुसारेण वपाया एव शुक्लपदयुक्ते याज्याऽनुवाक्ये पशुहविषस्तु शुक्लवन्नियुत्ववत्पदयुक्ते याज्याऽनुवाक्ये भवत इति प्रदर्शनम्, एकस्यापि वायव्यपशोः पञ्चपशुरूपताप्रतिपादनम् , प्रागुक्तः पञ्चपश्वादिपक्षाणामन्यतमः पक्षः स्वेच्छयाऽनुष्ठातव्य, इति निरूपणं, पश्वालम्भकालस्य विधानं-तत्र केषाञ्चिन्मतेनामावास्यायां पश्वालंभनं कर्तव्यमिति सोपपत्तिकं तन्मतमनूद्य सिद्धान्ततयोत्तरस्यां फाल्गुन्यां पौर्णमासेष्ट्यनन्तरं पश्वालंभनं विधेयमिति सदृष्टान्तं सोपपत्तिकं स्वमतप्रतिष्ठापनं, तच्चेदं पश्वनुष्ठानमुपांशु कर्तव्यमिति सोपपत्तिकं सार्थवादं निरूपणम् , अष्टम्यामग्निधारणार्थमुखासम्भरणस्य सार्थवादं विधानम् , अष्टम्यामुखासम्मरणस्य प्रशंसार्थमनेकेऽर्थवादाः, साग्निकस्य सोमयागस्य दीक्षाग्रहणे सार्थवादं, कालविधानं, दीक्षाकरणस्य प्रकान्तरेण प्रशंसनं, साग्निके क्रतो " संवत्सरभृतमेव चिन्वीत " इत्याम्नातत्वात्ततो न्यूनातिरेकपक्षयोर्दोषमुद्भाव्य संवत्सरपर्यन्तमेव दीक्षा कर्तव्येत्यस्य सिद्धान्तस्य सोपपत्तिकं प्रतिष्ठापनम् , अत्र कालविषये वेदवादिनां शंकां प्रदर्श्य तस्याः अर्थान्तरपरिकल्पनया समाधानकथनं, पश्वा लम्भोखासम्भरणदीक्षाकाला ये उक्तास्तेषां प्राथम्यमुपजीव्य प्रशंसनं, पञ्चपशुप्राजापत्यवायव्यरूपपक्षत्रयेऽपि संवत्सराग्निना सह सम्पत्तेः प्रश्नपूर्वकं सोपपत्तिकं सार्थवादं निरूपणं, पश्वनुष्ठानस्य चयनकर्मादित्वात्तदवसानः कर्तव्यः; देवताविसर्गरूपसमिष्टयजुर्होमः समाप्तिरूपावभृथश्च न कर्तव्याविति केषाञ्चिन्मतं सोपपत्तिकमुपन्यस्य तस्य सहेतुकं प्रत्याख्यानं, पशुयागान्ते चयनकर्मणि : यजमानकर्तव्यानां नियमानां मीमांसायै प्रतिज्ञाकरणम्, अनुष्ठेयतयाऽननुष्ठेयता च कर्तव्यानां यजमाननियमानां पूर्वोत्तरपक्षाभ्यां सविशेषं निरूपणं, नियमविधायकब्राह्मणस्यातिदेशकथनम् , अस्मिन्यज्ञे ब्रह्मसम्प्रदानकदक्षिणादानस्य पूर्वोत्तरपक्षाभ्यां निषेधदर्शनं, पशौ देयाया दक्षिणायाः कालप्रदर्शनं चेत्यादि.


ब्राह्मणम् ३

३ चित्यार्षेयम्--तत्र भूम्यात्मकप्रथमस्वयमातृण्णेष्टकाप्रधानायाः प्रथमायाश्चितेर्ऋषिदेवतासंबन्धेन सविशेषमुत्पत्तिप्रकारनिरूपणम्, अन्तरिक्षात्मकद्वितीयस्वयमातृण्णेष्टकाप्रधानायास्तृतीयचितेर्ऋषिदेवतासम्बन्धेन सविशेषमुत्पत्तिप्रकारकथनम् , द्युलोकात्मकतृतीयस्वयमातृण्णेष्टकाप्रधानायाः पञ्चम्याश्चितेर्ऋषिदेवतासम्बन्धेन सविशेषमुत्पत्तिप्रकारकथनम् , द्वितीयचतुर्थ्योश्चित्योरुत्पत्तिप्रकारमभिधातुं निरुक्तचितित्रये ऋषिदेवतानां परिगणनम् , द्वितीय चतुर्थ्योश्चित्योरुत्पत्तिप्रकारकथनम् , चितिशब्दस्य निर्वचनम् , पञ्चानामपि चितीनामार्षेयस्य प्रदर्शनम् चित्यार्षेयं वेदितुः फलकथनञ्चेति.