शतपथब्राह्मणम्/काण्डम् ६/अध्यायः २/ब्राह्मणम् २

विकिस्रोतः तः

६.२.२

प्राजापत्यं चरका आलभन्ते । प्रजापतिरग्निं चित्वाग्निरभवत्तद्यदेतमालभते तदेवाग्नेरन्तं पर्येतीते - ६.२.२.१

श्यामो भवति । द्वयानि वै श्यामस्य लोमानि शुक्लानि च कृष्णानि च द्वन्द्वम्
मिथुनं प्रजननं तदस्य प्राजापत्यं रूपं तूपरो भवति तूपरो हि प्रजापतिः - ६.२.२.२

तस्यैकविंशति सामिधेन्यः । द्वादश मासाः पञ्चऽर्तवस्त्रय इमे लोका असावादित्य
एकविंश एष प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.२.३

यद्वेवैकविंशतिः । एकविंशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या आत्मैकविंशः पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.२.४

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुरुक्तम्वेवान्वृचं हिरण्यगर्भवत्याऽऽघारमाघारयति प्रजापतिर्वै हिरण्यगर्भः प्रजापतिरग्निर्द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृचं प्राजापत्यः पशुपुरोडाशो य एव पशोर्बन्धुः स पुरोडाशस्य द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः कद्वत्यो याज्यानुवाक्याः को हि प्रजापतिः - ६.२.२.५

अथैतं वायवे नियुत्वते । शुक्लं तूपरमालभते प्रजापतिः प्रजाः सृष्ट्वानुव्यैक्षत तस्यात्यानन्देन रेतः परापतत्सोऽजः शुक्लस्तूपरो लप्सुद्यभवद्रसो वै रेतो यावानु वै रसस्तावानात्मा तद्यदेतमालभते तदेवाग्नेरन्तं पर्येति शुक्लो भवति शुक्लं हि रेतस्तूपरो भवति तूपरं हि रेतो वायवे भवति प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति - ६.२.२.६

यद्वेवैतं वायवे नियुत्वते । शुक्लं तूपरमालभते प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन्त्स योऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन पशुनाऽदधुस्तथैवास्मिन्नयमेतद्दधाति वायवे भवति प्राणो वै वायुर्नियुत्वते भवत्युदानो वै नियुतः प्राणोदानावेवास्मिन्नेतद्दधाति शुक्लो भवति शुक्लो हि वायुस्तूपरो भवति तूपरो हि वायुः - ६.२.२.७

तस्य सप्तदश सामिधेन्यः । सप्तदशो वै संवत्सरो द्वादश मासाः पञ्चऽर्तवः संवत्सरः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.२.८

यद्वेव सप्तदश । सप्तदशो वै पुरुषो दश प्राणाश्चत्वार्यङ्गान्यात्मा पञ्चदशो ग्रीवाः षोडश्यः शिरः सप्तदशं पुरुषः प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतत्समिन्द्धे - ६.२.२.९

उभयीर्गायत्रीश्च त्रिष्टुभश्चान्वाह । तासामुक्तो बन्धुरुक्तम्वेवान्वृचं द्वादशाप्रियस्तासामुक्तो बन्धुरुक्तम्वेवान्वृचं प्राजापत्यः पशुपुरोडाशोऽत्रो स काम उपाप्त इति ह स्माह माहित्थिर्यं चरकाः प्राजापत्ये पशावाहुरिति - ६.२.२.१०

यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशोऽर्धं ह प्रजापतेर्वायुरर्धं प्रजापतिस्तद्यदुभौ वायव्यौ स्यातामुभौ वा प्राजापत्यावर्धं हैवास्य कृतं स्यान्नार्धमथ यद्वायव्यः पशुर्भवति प्राजापत्यः पशुपुरोडाशस्तेन हैवैतं सर्वं कृत्स्नं प्रजापतिं संस्करोति - ६.२.२.११

यद्वेव वायव्यः पशुर्भवति । प्राजापत्यः पशुपुरोडाशः प्रजापतिं विस्रस्तं यत्र देवाः समस्कुर्वन्त्स योऽस्मात्प्राणो मध्यत उदक्रामत्तमस्मिन्नेतेन पशुनाऽदधुरथास्यैतेन पुरोडाशेनात्मानं समस्कुर्वन्त्स यत्प्राजापत्यो भवति प्रजापतिर्ह्यात्मा द्वादशकपालो द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः कद्वत्यौ याज्यानुवाक्ये को हि प्रजापतिः - ६.२.२.१२

तद्यद्वपां पुरस्ताज्जुहोति । य एवायं पुरस्तात्प्राणस्तमस्मिन्नेतद्दधात्यथ यदेतेन मध्यतश्चरन्ति मध्यतो ह्ययमात्माथ यद्धविषोपरिष्टाच्चरन्ति य एवायमुपरिष्टात्प्राणस्तमस्मिन्नेतद्दधाति शुक्लवत्यो याज्यानुवाक्याः स्युः शुक्लरूपाणामुपाप्त्यै नियुत्वत्यो यदेव नियुत्वद्रूपं तस्योपाप्त्यै - ६.२.२.१३

तदु वा आहुः । वपाया एव शुक्लवत्यौ स्यातामेतावद्वै पशौ शुक्लं यद्वपा शुक्लवत्यौ नियुत्वत्यौ हविषो यदेव नियुत्वद्रूपं तस्योपाप्त्या इति - ६.२.२.१४

यद्वेवैतं पशुमालभते । एतस्मिन्ह पशौ सर्वेषां पशूनां रूपं यत्तूपरो लप्सुदी तत्पुरुषस्य रूपं तूपरो हि लप्सुदी पुरुषो यत्तूपरः केसरवांस्तदश्वस्य रूपं तूपरो हि केसरवानश्वो यदष्टाशफस्तद्गो रूपमष्टाशफो हि गौरथ यदस्यावेरिव शफास्तदवे रूपं यदजस्तदजस्य तद्यदेतमालभते तेन हैवास्यैते सर्वे पशव आलब्धा भवन्त्यतो यतमदस्य कर्मोपकल्पेतैते वा पञ्च पशव एष वा प्राजापत्य एष वा नियुत्वतीयः - ६.२.२.१५

तं पौर्णमास्यामालभेत । अमावास्यायामालभेतेत्यु हैक आहुरसौ वै चन्द्रः प्रजापतिः स एतां रात्रिमिह वसति तद्यथोपतिष्ठन्तमालभेतैवं तदिति - ६.२.२.१६

तद्वै पौर्णमास्यामेव । असौ वै चन्द्रः पशुस्तं देवाः पौर्णमास्यामालभन्ते यत्रैनं देवा आलभन्ते तदेनमालभा इति तस्मात्पौर्णमास्यां यद्वेव पौर्णमास्यां पौर्णमासी ह वाव प्रथमा व्युवास तस्माद्वेव पौर्णमास्याम् - ६.२.२.१७

तद्वै फाल्गुन्यामेव । एषा ह संवत्सरस्य प्रथमा रात्रिर्यत्फाल्गुनी पौर्णमासी योत्तरैषोत्तमा या पूर्वा मुखत एव तत्संवत्सरमारभते - ६.२.२.१८

स वा इष्ट्वैव पौर्णमासेन । अथ पशुमालभेत पौर्णमासेन वा इन्द्रो वृत्रं पाप्मानं हत्वाऽपहतपाप्मैतत्कर्मारभत तथैवैतद्यजमानः पौर्णमासेनैव वृत्रं पाप्मानं हत्वाऽपहतपाप्मैतत्कर्मारभते - ६.२.२.१९

तद्वा उपांशु भवति । एतद्धैतैः प्रजापतिः पशुभिः कर्मेयेष तद्धात्रानद्धेवैवासानिरुक्तमिव तस्मादुपांशु - ६.२.२.२०

यद्वेवोपांशु । प्राजापत्यं वा एतत्कर्म प्रजापतिं ह्येतेन कर्मणारभतेऽनिरुक्तो वै प्रजापतिः - ६.२.२.२१

यद्वेवोपांशु । रेतो वा अत्र यज्ञ उपांशु वै रेतः सिच्यते वपा पशुपुरोडाशो हविरेतावान्हि पशुः - ६.२.२.२२

अष्टकायामुखां सम्भरति । प्राजापत्यमेतदहर्यदष्टका प्राजापत्यमेतत्कर्म यदुखा प्राजापत्य एव तदहन्प्राजापत्यं कर्म करोति - ६.२.२.२३

यद्वेवाष्टकायाम् । पर्वैतत्संवत्सरस्य यदष्टका पर्वैतदग्नेर्यदुखा पर्वण्येव तत्पर्व करोति - ६.२.२.२४

यद्वेवाष्टकायाम् । अष्टका वा उखा निधिर्द्वा उद्धी तिरश्ची रास्ना तच्चतुश्चतस्र ऊर्ध्वास्तदष्टावष्टकायामेव तदष्टकां करोति - ६.२.२.२५

अमावास्यायां दीक्षते । अमावास्यायै वा अधि यज्ञस्तायते यतो यज्ञस्तायते ततो यज्ञं जनयानीति - ६.२.२.२६

यद्वेवामावास्यायाम् । रेतो वा एतद्भूतमात्मानं सिञ्चत्युखायां योनौ यद्दीक्षते तस्मा एतं पुरस्ताल्लोकं करोति यद्दीक्षितो भवति तं कृतं लोकमभि जायते तस्मादाहुः कृतं लोकं पुरुषोऽभि जायत इति - ६.२.२.२७

स यत्कनीयः संवत्सराद्दीक्षितः स्यात् । अलोका इष्टका उपदध्यादिष्टका लोकानतिरिच्येरन्नथ यद्भूयसो लोकान्कृत्वेष्टका नानूपदध्याल्लोका इष्टका अतिरिच्येरन्नथ यदमावास्यायां दीक्षित्वाऽमावास्यायां क्रीणाति तद्यावन्तमेव लोकं करोति तावतीरिष्टका उपदधात्यथास्यापूर्यमाणपक्षे सर्वोऽग्निश्चीयते - ६.२.२.२८

तदाहुः । यद्यावत्य एतस्याग्नेरिष्टकास्तावन्ति क्रयेऽहोरात्राणि सम्पद्यन्तेऽथ यान्यूर्ध्वानि क्रयादहानि कथमस्य ते लोका अनूपहिता भवन्तीति यद्वा अमावास्यायां दीक्षित्वाऽमावास्यायां क्रीणाति तद्यावन्तमेव लोकं करोति तावतीरिष्टका उपदधात्यथ यान्यूर्ध्वानि क्रयादहानि तस्मिन्नवकाशेऽध्वर्युरग्निं चिनोति क्वो हि चिनुयान्न च सोऽवकाशः स्याद्यावन्ति वै संवत्सरस्याहोरात्राणि तावत्य एतस्याग्नेरिष्टका उप च त्रयोदशो मासस्त्रयोदशो वा एष मासो यान्यूर्ध्वानि
क्रयादहानि तद्या अमूस्त्रयोदशस्य मास इष्टकास्ताभिरस्य ते लोका अनूपहिता भवन्ति तत्समा लोकाश्चेष्टकाश्च भवन्ति - ६.२.२.२९

एतद्वै यैव प्रथमा पौर्णमासी । तस्यां पशुमालभते या प्रथमाष्टका तस्यामुखां सम्भरति या प्रथमामावास्या तस्यां दीक्षत एतद्वै यान्येव संवत्सरस्य प्रथमान्यहानि तान्यस्य तदारभते तानि च तदाप्नोत्यथातः सम्पदेव - ६.२.२.३०

तदाहुः । कथमस्यैतत्कर्म संवत्सरमग्निमाप्नोति कथं संवत्सरेणाग्निना सम्पद्यत इत्येतेषां वै पञ्चानां पशूनां चतुर्विंशतिः सामिधेन्यो द्वादशाप्रियस्तत्षट्त्रिंशदेकादशानुयाजा एकादशोपयजस्तदष्टापञ्चाशत् - ६.२.२.३१

ततो याष्टाचत्वारिंशत् । साष्टाचत्वारिंशदक्षरा जगतीयं वै जगत्यस्यां हीदं सर्वं जगदियमु वा अग्निरस्यै हि सर्वोऽग्निश्चीयते यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.२.२.३२

यद्वेवाष्टाचत्वारिंशत् । अष्टाचत्वारिंशदक्षरा वै जगती जगती सर्वाणि छन्दांसि सर्वाणि छन्दांसि प्रजापतिः प्रजापतिरग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.२.२.३३

अथ यानि दश । सा दशाक्षरा विराड्विराडग्निर्दश दिशो दिशोऽग्निर्दश प्राणाः प्राणा
अग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्तद्भवति - ६.२.२.३४

वपा पशुपुरोडाशः । तत्षष्टिः षष्टिर्मासस्याहोरात्राणि तन्मासमाप्नोति मास आप्त
ऋतुमाप्नोत्यृतुः संवत्सरं तत्संवत्सरमग्निमाप्नोति ये च संवत्सरे कामा अथ यदतोऽन्यद्यदेव संवत्सरेऽन्नं तत्तत् - ६.२.२.३५

अथैतस्य प्राजापत्यस्य । एकविंशतिः सामिधेन्यो द्वादशाप्रियस्तत्त्रयस्त्रिंशदेकादशानुयाजा एकादशोपयज तत्पञ्चपञ्चाशद्वपापशुपुरोडाशो हविस्तदष्टापञ्चाशत्स योऽष्टापञ्चाशति कामोऽत्रैव तमाप्नोति द्वावाघारौ तत्षष्टिः स यः षष्ट्यां कामोऽत्रैव तमाप्नोत्यथ यदतोऽन्यद्यदेवं संवत्सरेऽन्नं तत्तत् - ६.२.२.३६

अथैतस्य नियुत्वतीयस्य । सप्तदश सामिधेन्यो द्वादशाप्रियस्तदेकान्न त्रिंशदेकादशानुयाजा एकादशोपयजस्तदेकपञ्चाशद्वपा पशुपुरोडाशो हविस्तच्चतुष्पञ्चाशद्द्वावाघारौ द्वौ स्विष्टकृतौ तदष्टापञ्चाशत्स योऽष्टापञ्चाशति कामोऽत्रैव तमाप्नोति वनस्पतिश्च वसाहोमश्च तत्षष्टिः स यः षष्ट्यां कामोऽत्रैव तमाप्नोत्यथ यदतोऽन्यद्यदेव संवत्सरेऽन्नं तत्तदेवमु हास्यैतत्कर्म संवत्सरमग्निमाप्नोत्येवं संवत्सरेणाग्निना सम्पद्यते - ६.२.२.३७

तदाहुः । नैतस्य पशोः समिष्टयजूंषि जुहुयान्न हृदयशूलेनावभृथमभ्यवेयादारम्भो वा एषोऽग्नेः पशुर्व्यवसर्गो देवतानां समिष्टयजूंषि संस्थाऽवभृथो नेदारम्भे देवता व्यवसृजानि नेद्यज्ञं संस्थापयानीति स वै समेव स्थापयेदेतेन पशुनेष्ट्वा तत्प्रजापतिरपश्यद्यथैतस्याग्नेरन्तं न पर्यैत्तस्मात्संस्थापयेद्यद्वेव संस्थापयति प्राण एष पशुस्तस्य यदन्तरियात्प्राणस्य तदन्तरियाद्यदु वै प्राणस्यान्तरियात्तत एवं म्रियेत तस्मात्समेव स्थापयेदथातो व्रतानामेव - ६.२.२.३८

तदाहुः । नैतेन पशुनेष्ट्वोपरि शयीत न मांसमश्नीयान्न मिथुनमुपेयात्पूर्वदीक्षा वा एष पशुरनवकॢप्तं वै तद्यद्दीक्षित उपरिशयीत यन्मांसमश्नीयाद्यन्मिथुनमुपेयादिति नेत्वेवैषा दीक्षा नेव हि मेखलाऽस्ति न कृष्णाजिनमिष्टकां वा एतां कुरुते तस्मादु काममेवोपरि शयीतैतदु सर्वमन्नं यदेते पशवस्तदस्यात्राप्तमारब्धं भवति तद्यानि कानि चाऽऽमधुनोऽशनानि तेषामस्य सर्वेषां कामाशनं यदि लभेत मिथुनं तु नोपेयात्पुरा मैत्रावरुण्यै पयस्यायै तस्योपरि बन्धुः - ६.२.२.३९

तदाहुः । दद्यादेतस्मिन्यज्ञे दक्षिणां नेन्मेऽयं यज्ञोऽदक्षिणोऽसद्ब्रह्मणऽआदिष्टदक्षिणां दद्याद्ब्रह्मा वै सर्वो यज्ञस्तदस्य सर्वो यज्ञो भिषज्यितो भवतीति न तथा कुर्यादिष्टकां वा एतां कुरुते तद्यथेष्टकायामिष्टकायां दद्यात्तादृक्तदमूर्ह्येव दद्याद्यदस्योपकल्पेत - ६.२.२.४०