वाचस्पत्यम्/त

विकिस्रोतः तः
← वाचस्पत्यम्/झ-ण‎ वाचस्पत्यम्/त
तारानाथ भट्टाचार्य
वाचस्पत्यम्/थ →
पृष्ठ ३२००

तकारो व्यञ्जनवर्णभेदः । दन्त्यः अर्द्धमात्राकालेनो-

च्चार्य्यः अस्योच्चारणे दन्त्मूलेन जिह्वाग्रस्य स्पर्श आभ्य-
न्तरप्रयत्नः । बिवारश्वासाधोषा बाह्यप्रयत्नाः । मातृका-
न्यासेऽस्य वामस्फिचि न्यस्यता । अस्य वाचकशब्दा वर्णा-
भिधाने उक्ता यथा “तः पूतना हरिः शुद्धिशक्तिः
शुक्तिर्जटी ध्वजी । वामस्फिग्वामकट्यौ च कामिनी
मघ्यकर्णकः । आषाटी तण्डतुभ्रश्च कामिकापृष्ठपुच्छकः ।
रत्नकश्च श्याममुखो वाराही मकरोऽरुणा । सुगतोर्द्ध-
सुखाचूर्द्धलानुश्च क्रोष्टुपुच्छकः । गन्धो विश्वा मरुच्छत्र-
श्चानुराधा न सौरकः । जयन्ती पुनुको भ्रान्तिरनङ्गमद-
नातुरा” । तदधिष्ठातृदेवताध्यानं वर्ष्णोद्धारतन्त्रोक्तं यथा
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने! । चतुर्भुजां
महाशान्तां महामोक्षप्रदायिनीम् । सदा षोड़शवर्षीयां
रक्ताम्बरधरां पराम् । नानालङ्कारभूषाद्यां सर्वसिद्धि
प्रदायिनीम् । एवं ध्यात्वा तकारन्तु तन्मन्त्रं दशधा
जपेत्” । कामधेनुतन्त्रे अस्य स्वरूपमुक्तं यथा “तकारं
चञ्चलापाङ्गि! स्वयं परमकुण्डली । पञ्चदेवात्मकं
वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णम्
आत्मादितत्त्वसंयुतम् । त्रिविन्दुसहितं वर्णं पीतविद्युत्
समप्रभम्” “तोव्योमान्तलघुर्धनापहरणम्” इति वृ०
र० टी० तस्य व्योमदेवत्वं मात्रावृत्ते प्रथमोपन्यासे
धनापहारः फलञ्चोक्तम् ।

पु० तक--हसने सहने वा ड । १ चौरे २ अमृते ३ पुच्छे

४ क्रीड़े ५ म्लेच्छे च मेदि० । ६ गर्भे ७ शठे शब्दच०
८ रत्ने ९ सुगते देवे १० गौरविवर्ज्जिते ११ क्रोष्टोष्टुपुच्छे
च एका० को० । २१ तरुणे १४ पुण्ये क्ली० स्त्री० मेदि० ।
त्रिवर्णप्रस्तावे आद्यगुरुद्वयके अन्त्यलघुके (ऽऽ।) १२
गणभेदे “सोऽन्तगुरुः लथितोऽन्त्यलघुस्तः” छन्दोम० ।

तंसु पु० तसि--उन् । पौरवे गतिनारसुते नृपभेदे “मतिना-

रसुता राजंश्चत्वारोऽमितविक्रमाः । तंसुर्महानतिरथो
द्रुह्युश्चाप्रतिमद्युतिः । तेषां तम्सुर्सहावीर्य्यः पौरवं
वंशमुद्दहन् । आजहार यशो दीप्तं जिगाय च
वसुन्धराम्” । भा० आ० ८४ अ० । स च सरस्वती-
पुत्रः यथा तत्रै वोक्तम् ८४ अ० । “तंसु सरस्वती पुत्रं
मतिनारादजायत । ईलिनं जनयामास कालिङ्ग्यां
तंसुरात्मजम्” ।

तक हासे अक० सहने सक० भ्वा० पर० सेट् । तकति

अताकीत्--अतकीत् । तताक तेकेतुः । निरुक्ते अयं
गतिकर्मसु पठितः । कर्मणि भावे च । यत् न ण्यत् ।
तक्यं सहनीयम् ।

तक दौस्थ्ये कृच्छ्रजीवने पा० इदित् प० भ्वा० सेट् । तङ्कति अतङ्गीत् ततङ्क तङ्का आतङ्का ।

तक त्रि० तं गौरववर्ज्जितं यथा तथा कायति कै--क ।

१ निन्दिते । “इयत्तकः कुम्भकस्तकं भिनद्म्यशातनी” ऋ०
१ । १ ९१ । १५ । “तकं कुत्सितम्” भा० । तक--अच् ।
२ सहनशीले च । “तका वयं प्लवामहे इदं मधु” कात्या०
श्रौ० १३ । ३ । २१ सू० । ३ स्खलिते च । “श्रुतं गायत्रं
तकनानस्य” ऋ० १ । १३० । ३ । “तकवानस्य स्खलितगतेः” कर्कः ।
पृष्ठ ३२०१

तकत् अव्य० तक--बा० अति । अत्यल्पे । २ तत्सुते

मनायति तकत्सुते मनायति” ऋ० १ । १३३ । ४ । “तकदिति
मनायति अत्यल्पमिदमिति सुष्ठुमन्यते” भा० । तद्--टेर
कच् । २ तच्छब्दार्थे त्रि० सकः तकौ तके इत्यादि रूपम्

तकरी स्त्री तं कुत्सितं करोति कृ--ट ङीप् । कुत्सितकारिण्यां

स्त्रियां “ते भिनद्मि तकरीम्” तैत्ति० स० ३ । ३ । १० । १

तकार पु० त + कार । तस्वरूपे वर्णे “एवं ध्यात्वा तकारन्तु”

कामधेनुत० ।

तकिल पु० तकि--कृच्छ्रजीवने उणादि० इलच् नलोपश्च १ धूर्त्ते २ औषधे च ३ ओषधौ स्त्री उज्ज्व० ।

तकु त्रि० तक--गतौ निरु० उन् । गामुके “पुरुमेधश्चित् तकवे

नवं ददत्” ऋ० ९ । ५७ । ५ “तकवे तकतिर्गतिकर्मा
औणादिक उन्प्रत्ययः सोममभिगच्छते” भा० ।

तक्कन् न० तक--कनिन् न कित् । अपत्ये निघण्ठुः ।

तक्र न० तन्च--रक् न्यङ्क्वा० कुत्वम् । चतुर्थांशजलयोगेन

दधिमन्थनजाते दधिविकारभेदे (घोल) अमरः । तद्भेदा-
दिकं भावप्रका० उक्तं यथा
“घोलन्तु मथितं तक्रमुदश्विच्छच्छिकापि च । ससरं
निर्जलं घोलं मथितन्त्वसरोदकम् । तक्रं पादजलं प्रोक्त-
मुदश्विदर्द्ध्ववारिकम् । छच्छिका सारहीना स्यात् स्वच्छा
प्रचुरवारिका । घोलं तु शर्करायुक्तं गुणैर्ज्ञेयं रसाल-
वत्” । मथितं (महुया) इति लोके । छच्छिका (छाच्छ)
इति लोके । “वातपित्तहरं ह्लादि मथितं कफपित्तनुत् ।
तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु । वीर्य्योणं
दीपनं वृष्यं प्रीणनं वातनाशनम् । ग्रहण्यादिमतां
पथ्यं भवेत्सङ्ग्राहि लाघवात् । किञ्च स्वादुविपा-
कित्वान्नच पित्तप्रकोपणम् । कषायं दीपनं वृष्यं
प्रीणनं वातनाशनम् । कषायोष्णविपाकित्वाद्रौक्ष्याच्चापि
कफापहम् । न तक्रसेवी व्यथते कदाचित् न तक्रदग्धाः
प्रभवन्ति रोगाः । यथा सुराणाममृतं सुखाय तथा
नराणां भुवि तक्रमाहुः । उदश्चित्कफकृद्बल्यमामघ्नं
परमं मतम् । छच्छिका शीतला लघ्वी पित्तश्रमतृषा-
हरी । बातनुत् कफकृत्त्सा तु दीपनी लवणान्विता ।
अथोद्धृतघृतस्तोकोद्धृतानुद्धृतघृतानां तक्राणां गुणाः
“समुद्धृतघृतं तक्रं पथ्यं लघु विशेषतः । स्तोकोद्धृत-
घृतं तस्माद्गुरु वृष्यं कफापहम् । अनुद्धृतघृतं सान्द्रं
गुरु पुष्टिकफप्रदम्”
य दोषविशेषे व्याधिविशेषे तक्रविशेषाः ।
वातेऽम्ले शस्यते तक्रं शुण्ठीसैन्धवसंयुतम् । पित्ते
स्वादुसितायुक्तं सव्योषमधिके कफे । हिङ्गुजीरयुतं
घोलं सैन्धवेन च संयुतम् । भवेदतीव वातघ्नमर्शो-
ऽतीसारहृत्परम् । रुचिदं पुष्टिदं बल्यं वस्तिशूलविना-
शनम् । मूत्रकृच्छ्रे तु सगुड़ं पाण्डुरोगे सचित्रकम्” ।
अथामपक्कतक्रगुणाः
“तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च । पीनस
श्वासकासादौ पक्वमेव प्रशस्यते” ।
अथ तक्रसेवननिमित्तानि ।
“शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च । अरुचौ
स्रोतसां रोधे तक्रं स्यादमृतोपमम् । तत्तु हन्ति
गरच्छर्दिप्रसेकविषमज्वरान् । पाण्डुमेदोग्रहण्यर्शो मूत्र-
ग्रहभगन्दरान् । मेहं गुल्ममतीसारं शूलप्लीहोदरा-
रुचीः । श्वित्रकोष्ठगतव्याधीन् कुष्ठशोथतृषाकृमीन्” ।
तक्रस्याविषयाः “नैव तक्रं क्षते दद्यात् नोष्णकाले न
दुर्बले । न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तजे” ।
अथ गव्यादीनां विशिष्टाः गुणाः “यान्युक्तानि
दधन्यष्टौ तद्गुणं तक्रमादिशेत्” । भावप्र० ।
अधिकं कृतान्नशब्दे २१८५ पृ० दृश्यम् । “मन्यनादि-
पृथग्भूतस्नेहमर्धोदकं तु यत् । नातिसान्द्रद्रवं तक्रं
स्वाद्वम्लं तुवरं रसे” सुश्रु० । “सूत्रकार्पासकिण्वानां
गोमयस्य गुड़स्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य
तृणस्य च” मनुः । “तक्रनिस्रावबहुलं दधिमण्डार्द्र-
मृत्तिकम्” हरिवं० ६१ अ० ।

तक्रकूर्चिका स्त्री २१६७ पृ० कूर्चिकाशब्दोक्ते तक्रजाते पदार्थे ।

तक्रपिण्ड पु० “दध्ना तक्रेण वा दुष्टं दुग्धं बद्धं सुवाससा ।

द्रवभागेन हीनं यत् तक्रपिण्डः स उच्यते” इत्युक्ते
(छाना) ख्याते पदार्थे ।

तक्रमांस न० कृतान्नशब्दे २१८३ पृ० उक्ते तक्रेण पाकविशेषयुक्ते मांसभेदे ।

तक्रवामन पु० तक्रं वामयति अत्यम्लत्वात् वाम + णिच्--ल्यु

६ त० । नागरङ्गे शब्दार्थचिन्ता० ।

तक्राट पु० तक्रार्थं तक्रोत्पादनार्थमटति अट--अच् ।

मन्थानदण्डे हारा० ।

तक्रारिष्ट पु० “यमान्यामलकं पथ्या मरिचं त्रिपलांशकम् ।

लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत् । तत्र कंसासुतं
जातं तक्रारिष्टं पिवेन्नरः । दीपनं शोथगुल्मार्शः क्रिमि-
मेहोदरापहम्” चक्र० उक्ते औषधभेदे ।

तक्व त्रि० तक--गतौ बा० व । गमनशीले । “तक्वो नोता

तदिद्वपुः” ऋ० ८ । ६९ । १३ “तको गमनशीलः” मा० ।
पृष्ठ ३२०२

तक्वन् त्रि० तक--गतौ वनिप् । १ गतिशीले “तक्वा न भूर्णिर्वना

सिषक्ति” ऋ० १ । ६६ । १ तक--सहने वनिप् । २ चौरे च ।
“निम्रुच उषसस्तक्ववीरिव” ऋ० १ । १५१ । ५ “तक्कवीः
तक्वा स्तेनस्तस्य वीः गतिः” मा० ।

तक्ववी त्रि० तक्कानां चौराणाम् वीः । चोराणां गतौ ।

“भगमीट्टे तक्ववीये” ऋ० १ । १३४ । ५ । “तक्ववीये
तस्कराणां यज्ञविघातिनामन्यत्र गमनाय” भा० छान्दस
इयङ् दीर्घश्च ।

तक्ष कार्श्ये तनूकरणे (चाँचा छोला) व्यापारे वा भ्वा०

पक्षे स्वा० प० सक० वेट् । तक्षति तक्ष्णोति तक्षन्ति
तक्ष्णुवन्ति अतक्षीत् अताक्षीत् ततक्ष । तक्षिष्यति
तक्ष्यति । तष्टा तक्षणम् तष्टः तक्ष्य तष्ट्वा प्रकाष्ठतट् ।
“दारवाणाञ्च तक्षणम्” मनुः “चषालं ये अश्वयूपाय
तक्षति” ऋ० । १ । १६२ । ६ “बाह्याशकलमपतक्ष्णुवन्ति” शत०
ब्रा० ३ । ७ । १ । ८ ।

तक्ष त्वचो ग्रहणे संवरणे भ्वा० प० सक० सेट् । तक्षति

कायं वर्म्मणा योधा । अतक्षीत् ततक्ष ।

तक्ष पु० रामानुजस्य भरतस्य १ पुत्रभेदे । “तक्षः पुष्कर

इत्यास्तां भरतस्य महीपते!” भाग० ९ । ११ । ७ ।
“स (भरतः) तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषेच्याभिषेकार्हौ रामान्तिकमगात् पुनः” रघुः ।
२ तन्नामके राजधानीभेदे च । तक्ष भावे घञ् । ३ तनूकरणे
कवचादिं संवरणे । “उभौ कठ्यां सुपार्श्वे तु तक्षवन्तौ च
शिक्षितौ” भा० स० २२ अ०

तक्षक पु० तक्ष--ण्वुल् । १ विश्वकर्मणि शब्दर० । २ द्रुमभेदे

हेमच० । “सूचकात् विप्रकन्यायां जातस्तक्षक उच्यते ।
उशनसोक्ते सङ्कीर्णजातिभेदे (छुतार) ३ सूत्रधारे कद्रु-
गर्भे कश्यपात् जाते अष्टनागान्तर्गते ४ नागभेदे “अनन्तो
वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलीरः कर्कटः शङ्खो
ह्यष्टौ नागाः प्रकीर्त्तिताः” ति० त० । “काद्रवेयाश्च बलिनः
सहस्रममितौजसः । सुपर्णवशगा नागा जज्ञिरेऽनेक-
मस्तकाः । तेषां प्रधानाः सततं शेषवासुकितक्षकाः”
हरिवं० ३ अ० । “योऽसौ वृद्धस्य तातस्य तथा कृच्छ्र-
गतस्य ह । स्कन्धे मृतं समास्राक्षीत् पन्नगं राजकि-
ल्विषी । त पापमातसक्रुद्धस्तक्षकः पन्नगेश्वरः ।
आशीविषन्तिग्मतेजा मद्वाक्यबलचीदितः । सप्तरात्रादितो नेता
गमस्य सदनं प्रति । द्विजानामवमन्तारं कुरूणामयश-
स्करम्” भा० आ० ४१ ।
तेन च परीक्षितोदंशनकथा भा० आ० ४३ अ० दृश्या यथा
“अथ शुश्राव गच्छन् स तक्षको जगतीपतिम् । मन्त्रै-
र्गदैर्विषहरैरक्ष्यमाणं प्रयत्नतः । सूत उवाच । स
चिन्तयामास तदा मायायोगेन पार्थिव! । मया वञ्च-
यितव्योऽसौ क उपायो भवेदिति । ततस्तापसरूपेण
प्राहिणोत् स भुजङ्गमान् । फलदर्भोदकं गृह्य राज्ञे
नागोऽथ तक्षकः । तक्षक उवाच । गच्छध्वं यूयमव्यग्रा
राजानं कार्य्यवत्तया । फलपुष्पोदकं नाम प्रतिग्राह
यितुं नृपम् । सौतिरुवाच । ते तक्षकसमादिष्टास्तथा
चक्रुर्भुजङ्गमाः । उपनिन्युस्तथा राज्ञे दर्भानपः
फलानि च । तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्य्य-
वान् । कृत्वा तेषाञ्च कार्य्याणि गम्यतामित्युवाच तान् ।
गतेषु तेषु नागेषु तापसच्छद्मरूपिषु । अमात्यान्
सुहृदश्चैव प्रोवाच स नराधिपः । भक्षयन्तु भवन्तो वै
स्वादूनीमानि सर्वशः । तापसैरुपनीतानि फलानि
सहिता मया । ततो राजा ससचिवः फलान्यादातु-
मेच्छत । विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु ।
यस्मिन्नेव फले नागस्तमेवाभक्षयत् स्वयम् । ततो भक्ष-
यतस्तस्य फलात् कृमिरभूदणुः । ह्रस्वकः कृष्णनयन-
स्ताम्रवर्णोऽथ शौनक! । स तं गृह्य नृपश्रेष्ठः सचिवा-
निदमब्रवीत् । अस्तमभ्येति सविता विषादद्य न मे
भयम् । सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम् ।
तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् । ते
चैनमन्ववर्त्तन्त मन्त्रिणः कालचोदिताः । एवमुक्त्वा स
राजेन्द्रो ग्रीवायां संनिवेश्य ह । कृमिकं प्राहसत् तूर्णं
मुमूर्षुर्नष्टचेतनः । प्रहसन्नेव भोगेन तक्षकेणान्ववेष्ट्यत ।
तस्मात् फलाद्विनिष्क्रम्य यद्राज्ञे विनिवेदितम् । वेष्ट-
यित्वा च वेगेन विनद्य च महास्वनम् । अदशत् पृथि-
वीपालं तक्षकः पन्नगेश्वरः” अधिकं कश्यपशब्दे उक्तम्
“मसूरं निम्बपत्रञ्च योऽत्ति मेषगते रवौ ।
अतिरोषान्वितस्तस्य तक्षकः किं करिष्यति” ति० त० ।
तक्षकनागश्चैन्द्रस्य सखा खाण्डववनवासी अर्ज्जु-
नेन खाण्डववनस्य दाहकाले न न्तम्य दाहः तत्कथा
“निवृत्तेष्वथ देवेषु वागुवाचाशरीरिणी । शतक्रतु
समाभाष्य महागम्भीरनिस्वना । न ते सखा स निहत-
स्तक्षको भुजगोत्तमः । दाहकाले खाण्डवस्य कुरुक्षेत्रं
गतो ह्यसौ” भा० आ० २२८ अ० । ५ काष्ठादितक्षणकर्त्तृ-
मात्रे त्रि० ।
पृष्ठ ३२०३

तक्षकीय त्रि० तक्षा अस्त्यत्र नडा० छ--कुक् च । तक्षवि-

शिष्टे तस्मिन् भवः अण् विल्वका० छमात्रस्य लुक्
न कुको लुक् । ताक्षक तत्र भवे त्रि० ।

तक्षण न० तक्ष भावे--ल्युट् । (चाँचा) (छोला) व्यापारे

“तक्षणं दारुशृङ्गास्थ्नां गोबालफलसम्भुवाम्” या०
“दारवाणाञ्च तक्षणम्” मनुः ।

तक्षणी स्त्री तक्ष्यतेऽनया तक्ष--करणे ल्युट् ङीप् । वाश्याम्

(वाइस) काष्ठतक्षणसाधने अस्त्रभेदे शब्दर० ।

तक्षन् पु० तक्ष--कनिन् । १ तष्टरि, वर्द्धकौ, “आप्तेन

तक्ष्णा भिषजेव तक्षणम्” माघः । “तक्षोभयथा”
शा० सू० । २ विश्वकर्मणि, च अमरः । ३ चित्रानक्षत्रे
तस्य त्वष्टृदेवताकत्वात् तथात्वम् ४ तक्षणकर्त्तृमात्रे त्रि०
स्त्रियां ङीप् उपधालोपे तक्ष्णी । ततः शिवा० अपत्ये
अण् बलन्तत्वादुपधालोपः । ताक्ष्ण तक्ष्णोऽपत्ये पुंस्त्री० ।

तक्षशिला स्त्री भरतपुत्रतक्षनृपस्य राजधान्यां तक्षशिला-

नगरी अभिजनोऽस्य तक्षशि० अञ् । ताक्षशिल पित्रा-
दिक्रमेण तन्नगरवासिनि त्रि० तक्षशिलाया अदूरभवादिः
वरणा० चतुरर्थ्या० अञो लुक् । तक्षशिला तन्नगर्य्या
अदूरभवादौ ब० व० । अनद्यान्तु चतुरर्थ्या० मध्वा०
मतुप् मस्य वः । तक्षशिलावत् तत्पुरस्यादूरभवादौ
नदीभिन्ने देशादौ त्रि० स्त्रियां ङीप् ।

तक्षशिलादि पु० सोऽस्याभिजन इत्यर्थे विहिताञ् प्रत्यय-

निमित्ते पा० ग० सू० उक्ते शब्दगणे स च गणः “तक्षशिला
वत्सोद्धरण कैर्मेदुरक ग्रामणी छगल क्रौष्टुकर्ण सिंहकर्ण
संकुचित किन्नर काण्डधार पर्वत अवसान वर्वर कंस” ।

तग स्खलने कम्पे च अक० गतौ सक० भ्वा० सक० सेट्

इदित् । तङ्गति अतङ्गीत् ततङ्ग तङ्गनम् तङ्गा तङ्गितः ।

तगण पु० छन्दोग्रन्थप्रसिद्धे अन्तलघुके आदिगुरुद्वयके

त्रिवर्णात्मके गणभेदे । “सोऽन्तगुरुः कथितोऽन्तलघुस्तः”
छन्दोम० ।

तगर पु० तस्य क्रोड़स्य गरः गॄ--अच् । (टगर) इति १ वृक्षे

शब्दर० । २ मदनवृक्षे राजनि० । कोङ्गणप्रसिद्धे (पिण्ड-
तगर) ख्याते, ३ वृक्षे न० रत्नमा० । ४ तगरमूलजाते गन्धद्रव्ये
न० । “कालानुसार्य्यं तगरं कठिनं लघु तन्मतम् ।
अपरं पिण्डतगरं दण्डहस्ति च वर्हणम् । तगरद्वयमुष्णं
स्यात् स्वादु स्निग्धं लघु स्मृतम् । विषापस्मारमूर्द्धाक्षिरो
गदोषत्रयापहम्” भावप्र० “प्रियङ्गुचन्दनाभ्याञ्च विल्वेन
तगरेण च” भा० अनु० १०४ अ० । “तुल्यैः पत्र-
तुरस्कबालतगरेगन्धः स्मरोद्दीपनः” वृ० स० ७७ अ० ।
तगरं पण्यमस्य कृसरा० ठन् । तगरिक तद्गन्धद्रव्य-
विक्रेतरि त्रि० । ४ आहुल्यकवृक्षे राजनि० ।

तगरपादिक न० तगरस्य पादो मूलमस्त्यत्र गन्धद्रव्ये

ठन् । नन्द्यावर्त्ते गन्धद्रव्यभेदे शब्दार्थचि० ।

तगरपादी स्त्री तगरं गन्धद्रव्यभेदः पादेऽमूलेऽस्याः जाति-

त्वात् ङीष् । तगरवृक्षे शब्दार्थचि० ।

तङ्क पु० तकि--भावे अच् । १ कृच्छ्रेण जीवने २ प्रियचिह्ने

३ तापे ४ भये भरतः! । कर्मणि--घञ् । ५ परिधानवसने
रमानाथः ।

तङ्कन न० तकि--भावे ल्युट् । कृच्छ्रेण जीवने ।

तच्छील त्रि० तत् शीलं यस्य । स्वभावतः फलनिरपेक्षतया

प्रवर्त्तमाने तत्स्वभावे जने । तदर्थे विहितः ठञ् ।
ताच्छीलिक तच्छीलार्थे पा० विहितप्रत्यये । “आ क्वेस्त-
च्छीलतद्धर्मतत्साधुकारिषु” पा० ।

तज्ज त्रि० ततो जायते जन--ड । तस्मात् जाते ।

तज्जलान् त्रि० ततो जायते जन--ड तस्मिन् लीयते ली--ड

तेनानिति अन--विच् द्वन्द्वात् पूर्वं श्रुतस्य तच्छव्दस्य
प्रत्येकसम्बन्धेन यथायथं विभक्त्यन्ततयान्वयः । तस्माज्जाते
तस्मिन् लीने तेन स्थिते पदार्थे च । “सर्वं खल्विदं ब्रह्म
तज्जलानिति शान्त उपासीत” छा० उ० । तज्जलान्,
तज्जत्वात् तल्लत्वात् तदनत्वाच्चेति” शाङ्करभा० ।

तज्वी स्त्री तं निन्दितं जवते जु--क्विप् गौरा० ङीष् ।

हिङ्गुपत्र्यां राजनि० ।

तट उच्छ्राये भ्वा० पर० सक० सेट् । तटति अताटीत्--अतटीत् । तताट तेटतुः । तटम् ।

तट आहतौ चु० उभ० सक० सेट् । ताटयति--ते अतीतटत् त ।

तट त्रि० तट--अच् । १ कूले नद्यादेस्तीरे अमरः । तीरभूमेश्च

नद्याःप्रवाहात् उच्छ्रितत्वात् तथात्वम् । “सिन्धोस्तटा-
वोघ इव प्रवृद्धः” कुमा० । स्त्रियां ङीप् । “मालञ्चञ्च
श्मशानञ्च नद्यादीनां तटी तथा” सा० द० । २ उच्चक्षेत्रे
न० मेदि० । “निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागो-
ऽधरः” सा० द० । स्तमः तटमिव उप० स० । ३ शिवे
पु० तस्य सर्वोच्छितत्वात् तथात्वम् “नमस्तटाय तट्याय
तटानां पतये नमः” भा० शा० २८५ अ० । ४ उच्छ्रिते त्रि० ।

तटग पु० तड़ाग + पृषो० तडागे द्विरूपको० ।

तटस्थ त्रि० तटे समीपे तिष्ठति स्था--क । १ समीपस्थे

२ वादिप्रतिवादिभावानापन्ने उदासीने च “तटस्थः शङ्कते”
जागदीश्यादौ भूरिप्रयोगः । ३ लक्षणविशेषे यावल्लक्ष्य-
पृष्ठ ३२०४
कालमनवस्थितत्वे सति इतरव्यावर्त्तके विशेषणे यथा
पृथिव्या गन्धवत्त्वं तटस्थलक्षणम् उत्पत्तिकाले प्रलये च
लक्ष्यस्थितावपि तत्काले गन्धस्यानवस्थानात् तथात्वम् ।
यथा वां व्रह्मणो जगत्कर्वृत्वादिकम् तस्य प्रलयादौ
लक्ष्यकाले अनवस्थानात् तथात्वम् । “स्वरूपं तटस्थं
द्विधा लक्षणाभ्याम् । स्वरूपेऽप्रविष्टात् स्वरूपे प्रंविष्टात् ।
यथा काकवन्तो गृहाः खं विलञ्च” वेदान्तका० ।
वेदा० प० अस्य विवृतिर्यथा
“तत्र लक्षणं द्विविधम् स्वरूपलक्षणं तटस्थलक्षण-
ञ्चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् यथा
सत्यं ज्ञानमनन्तं ब्रह्मणः स्वरूपलक्षणम् । ननु स्वस्य
स्ववृत्तित्वाभावेन कथं लक्षणत्वमिति चेन्न स्वस्यैव स्वापेक्षया
धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवात् । तदुक्तं विवरणे
“आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्माः
अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते इति” । तटस्थ-
लक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्याव-
र्त्तकं तदेव यथा गन्धवत्त्वं पृथिवीलक्षणम् । महाप्रलये
परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् । प्रकृते
च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्य्यजातं
विवक्षितम् । कारणत्वञ्च कर्त्तृत्वम् अतोऽविद्यादौ नाति-
व्याप्तिः । कर्तृत्वञ्च तत्तदुपादानगोचरापरोक्षज्ञानचि-
कीर्षाकृतिमत्त्वम् । ईश्वरस्य ताबदुपादानगोचरापरोक्ष-
ज्ञानसद्भावे च “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते” इत्यादिश्रुतिर्मानम् ।
तादृशचिकीर्षासद्भावे च “सोऽकामयत बहुस्यां प्रजायेयेति”
श्रुतिर्मानम् । तादृशकृतौ च “तन्मनोऽकुरुतेत्यादि” वाक्यम् ।
ज्ञानेच्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम्
अन्यथा व्यर्थविशेषणत्वापत्तेः । अतएव जन्मस्थितिध्वंसा-
नामन्यतमस्यैव लक्षर्ण प्रवेशः । एवञ्च लक्षणानि नव
सम्पद्यन्ते । ब्रह्मणो जगज्जन्मादिकारणत्वे च “यतो वा
इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्
प्रयन्त्यभिसंविशन्तीत्यादि” श्रुतिर्मानम् । यद्वा निखिल-
जगदुपादानत्वं व्रह्मणो लक्षणम् । उपादानत्वञ्च
जगदध्यासाधिष्ठानत्वं जगदाकारेण परिणममानमायाधि-
ष्ठानत्वं वा । एतादृशमेवोपादानत्वमभिप्रेत्य “इदं सर्वं
यदयमात्मा सच्चासच्चाभवत् बहु स्यां प्रजायेयेत्यादि श्रुतिषु
व्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः” तटस्थिते त्रि० ।

तटाक पु० तट--बा० आकन् । तड़ागे पद्मादियुक्तसरसि शब्दर० ।

तटाघात पु० तटे आघातः । वृषादिभिः शृङ्गादिभिर्भूभा-

गोत्खननरूपवप्रक्रीड़ायाम् शब्दार्णवः । “अभ्यस्यन्ति
तटाघातं निर्जितैरावताः गजाः” कुमा० । “कैलास-
तटाघातधातुधूलिपटलमिव हरवृषभम्” काद० ।

तटिनी स्त्री तटमस्त्यस्या इनि ङीप् । नद्याम् अमरः ।

तट्य पु० तटमुच्छ्रायमर्हति यत् । शिवे “नमस्तटाय तट्याय”

भा० शा० २८६ अ० शिवसहस्रनाम ।

तड दीप्तौ अक० आहतौ सक० चु० उभ० सेट् । ताडयति

ते अतितडत् त । “लालयेत् पञ्च वर्षाणि दश वर्पाणि
ताड़येत्” चाणक्यः “शिष्ट्यर्थं ताड़येत्ततः” मनुः
ताड़ना । ताड़नम् ताडितः । “श्रोतुर्वितन्त्रीरिव ताड्य-
माना” कुमा० । “दुन्दुभिस्ताडितोऽसौ” वेणीसं० ।

तड आहतौ भ्वा० आत्म० सक० सेट् इदित् । तण्डते

अतण्डिष्ट । ततण्डे ।

तड़ाक पु० तड़--आहतौ पिनाकादयश्च” उणा० आक ।

१ तड़ागे । तड--दीप्तौ आक । २ दीप्तौ स्त्री उज्ज्वलद० ।

तड़ाग पु० जलैराहन्यते तड--आघाते “तड़ागादयश्च”

उणा० नि० आग १ यन्त्रकूटके शब्दार्थचि० २ जलाधारभेदे
पद्माकरे अमरः । अर्द्धर्चा० “प्रशस्तभूमिभागस्तो बहुसंवत्-
सरोषितः । जलाशयस्तडागः स्यादित्याहुः शास्त्रको-
विदाः” शब्दार्थचि० । ३ पञ्चशतधनुःपरिमिते जलाशये
च यथा “चतुर्विंशाङ्गुलो हस्तो धनुस्तच्चतुरुत्तरभ् ।
शतधन्वन्तरञ्चैव तावत् पुष्करिणी शुभा । एतत्
पञ्चगुणः प्रोक्तस्तडाग इति निर्णयः” नव्यवर्द्धमानधृतो
वशिष्ठः । तदुत्सर्गविधिः मत्स्यपु० ५८ अ० उक्तो यथा
“प्राप्य पक्षं शुभं शुक्लमतीते (प्राप्ते) चोत्तरायणे । पुण्ये-
ऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् । प्रागुदक्प्रवणे
देशे तड़ागस्य समीपतः । चतुर्हस्तां शुभां वेदिं चतुरस्रां
चतुर्मुखाम् । तथा षाड़शहस्तः स्यान्मण्डपश्च
चतुर्मुखः । वेद्याश्च परितो गर्तारत्निमात्रास्तु मेखलाः । नव
सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज! । वितांस्तमात्रा
योनिः स्यात् षट्सप्ताङ्गुलिविस्तृता । गर्ताश्चतस्रः शस्ताः
स्युस्त्रिपर्वोच्छ्रितमेखलाः । सर्वतस्तु सवर्णाः (लोकपाल-
वर्णाः) स्युः पताका ध्वजसंयुताः । अश्वत्थोदुम्बरप्लक्ष-
वटशाखाकृतानि तु । मण्डपस्य प्रातदिशं द्वाराण्येतानि
कारवेत् । शुभास्तत्राष्ट होतारो द्वारपाला स्तथाष्ट
वै । अष्टौ तु जापकाः कार्य्याः ब्राह्मणा वेदपारगाः ।
सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः । कुलशील-
पृष्ठ ३२०५
समायुक्तः पुरोधाः स्याद्द्विजोत्तमः । प्रतिगर्त्तेषु कलशा
यज्ञोपकरणानि च । व्यजनञ्चामरे शुभ्रे ताम्रपात्रे
सुविस्तृते । ततस्त्वनेकवर्णाः स्युश्चरवः प्रतिदैवतम् ।
आचार्य्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः । त्र्यरत्नि-
मात्रो यूपः स्यात् क्षीरवृक्षविनिर्मितः । यजमानप्रमाणो
वा संस्थाप्यो भूतिमिच्छता । हेमालङ्कारिणः कार्य्याः
पञ्चविंशती ऋत्विजः । कुण्डलानि च हैमानि केयूर-
कटकानि च । अङ्गुलीयं पवित्राणि वासांसि विवि-
धानि च । पूजयेत्तु संमं सर्वान् आचार्यं द्विगुणैः पुनः ।
दद्याच्छयनसंयुक्तमात्मनश्चापि यत् प्रियम् । सौवर्णौ कूर्म-
मकरौ राजतौ मत्स्यडुण्डुभौ । ताम्रौ कुलीरमण्डूका
वायसः शिशुमारकः । एवमासाद्य तत्सर्वमादावेव विशा-
म्पते! । शुक्लमाल्याम्बरधरः सर्वौषध्युदकैस्ततः । संपूर्णैः
कलसैस्तत्र स्नपितो वेदपारगैः । यजमानः सपत्नीकः
पुत्रपौत्रसमन्वितः । पश्चिमं द्वारमासाद्य प्रविशेद्याग-
मण्डपम् । ततो मङ्गलशब्देन भेरीणां निस्वनेन च ।
अञ्जसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित् । षोड़शा-
रन्ततश्चक्रं पद्मगर्भं चतुर्मुखम् । चतुरस्रञ्च परितो वृत्तं
मध्यें सुशोभनम् । वेद्याश्चोपरि तत् कृत्वा ग्रहान्
लोकपतींस्ततः । संन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु
विचक्षणः । कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः ।
ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद् बुधः । विना-
यकञ्च विन्यस्य कमलामम्बिकां तथा । शान्त्यर्थं सर्व-
लोकानां भूतग्रामं न्यसेत्ततः । पुष्पभक्ष्यफलैर्युक्तमेयं
कृत्वाधिवासनम् । कुम्भान् सजलगर्भांस्तान् वासोभिः
परिवेष्टयेत् । पुष्पगन्धैरलङ्कृत्य द्वारपालान् समन्ततः ।
पठध्वमिति तान् ब्रूयादाचार्यस्त्वभिपूजयेत् । वह्वृचौ
पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ । सामगौ पश्चिमे
तद्वदुत्तरेण त्वथर्वणौ । उदङ्मुखो दक्षिणतो यजमान
उपाविशेत् । यजध्वमिति तात् ब्रूयाद् हौत्रिकान्
पुनरेव तु । उत्कृष्टान् मन्त्रजापेन तिष्ठध्वमिति
जापकान् । एवमादिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रं-
वित् । जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा ।
ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः । ग्रहेभ्यो
विधिवद् हुत्वा तथेन्द्रायेश्वराय च । मरुद्भ्यो
लोकपालेभ्यो विधिवद्विश्वकर्मणे । रात्रिसूक्तञ्च रौद्रञ्च
पावमानं सुमङ्गलम् । जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाः
पृथक् । शाक्रं रौद्रञ्च सौम्यं च कूष्माण्डं जातवेदसम् ।
सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः । वैराज्यं
पौरुषं सूक्तं सौपर्णं रुद्रसंहिताम् । शैशवं पञ्च
निधनं गायत्रं ज्येष्ठसाम च । वामदेव्यं वृहत्साम
रौरवं सरथन्तरम् । गवां व्रतं च काण्वञ्च रक्षोघ्नं
वयसस्तथा । गायेयुः सामगा राजन्! पश्चिमं द्वार-
माश्रिताः । अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम् । पूर्वेद्युरभितो
रात्रावेवं कृत्वाधिवासनम् । गजाश्वरथ्यावल्भीकात्
सङ्गमाद्ध्रदगोकुलात् । मृदमादाय कुम्भेषु प्रक्षिपेच्चत्व-
रात्तथा । रोचनाञ्च ससिद्धार्थां गन्धं गुग्गुलुमेव
च । स्नपनं तस्य कर्त्तव्यं पञ्चभङ्ग(पल्लव) समन्वितम् ।
प्रत्येकन्तु महामन्त्रैरेवं कृत्वा विधानतः । एवं क्षपामति-
वाह्य विधियुक्तेन कर्मणा । ततः प्रभाते विमले
सञ्जातेऽथ शतं गवाम् । ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च
वा पुनः । पञ्चाशद्वाथ षट्त्रिंशत् पञ्चविंशतिरप्यथ ।
ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने । वेदशब्दैश्च
गान्धर्वैर्वाद्यैश्च विविधैः पुनः । कनकालङ्कृतां कृत्वा
जले गामवतारयेत् । सामगाय च सा देया ब्राह्मणाय
विशाम्पते! । पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
ततो निःक्षिप्य मकरमत्स्यादींश्चैव सर्वशः । धृतां
चतुर्विधैर्विप्रैर्वेदवेदाङ्गपारगैः । महानदीजलोपेतां दध्य-
क्षतसमन्विताम् । उत्तराभिमुखीं धेनुं जलमध्ये तु
तारयेत् । आथर्वणेन स्नातां पुनर्गामेत्वथेतिं च ।
आपोहिष्ठेति मन्त्रेण क्षित्वागत्य च मण्डपम् ।
पूजयित्वा सरस्तत्र बलिं दद्यात् समन्ततः । पुनर्दिनानि
होतव्यं चत्वारि मुनिसत्तमाः! । चतुर्थीकर्म कर्तव्यं
देया तत्रापि शक्तितः । दक्षिणा राजशार्दूल! वरुण-
क्षमापणं ततः । कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि
च । ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत् पुनः ।
हेमपात्रीञ्च शय्याञ्च स्थापकाय निवेदयेत् । ततः सहस्रं
विप्राणामथ वाष्टशतं तथा । भोजनीयं यथाशक्ति
पञ्चाशद्वाथ विंशतिः । एवमेष पुराणेषु तड़ागविधि-
रुच्यते । कूपवापीषु सर्वासु तथा पुष्करिणीषु च ।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव । मन्त्रतस्तु विशेषः
स्यात् प्रसादीद्यानभूमिषु । अयन्त्वशक्ताबर्द्धेन विधि-
र्दृष्टः स्वयम्भुवा । अल्पेष्वेकाग्निवत् कृत्वा वित्तशाठ्या-
दृते नृणाम् । पावृट्काले स्थिते तोये ह्यग्निष्टीमफलं
स्मृतम् । शरत्काले स्थितं यत् स्यात् तदुक्तफलदाय-
पृष्ठ ३२०६
कम् । वाजपेयातिरात्राभ्यां हमन्ते शिशिरे स्थितम् ।
अश्वमेधसमं प्राह वसन्तसमये स्थितम् । ग्रीष्मेऽपि तत्
स्थितं तोयं राजसूयाद्विशिष्यते । एतान् महाराज!
विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः । स याति
रुद्रालयामाशु पूतः कल्पाननेकान् दिवि मोदते च ।
अनेकलोकान् समहस्तपादीन् भुक्त्वा परार्द्धद्वयमङ्गनाभिः ।
सहैव विष्णोः परमम्पदं यत् प्राप्तोति तद्यागफलेन
भूयः” ।
जलाशयखननारम्भनक्षत्रादि मु० चि० पी० उक्तं यथा
“मित्रार्कध्रुववासवाम्बुपमघातोयान्त्यपुष्येन्दुभिः पापै-
र्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ । आप्ये
सर्वजलाशयस्य खननम्” मु० चि० ।
“मित्रोऽनुराधा अर्को हस्तः ध्रुवं रोहिण्युत्तरात्रयं
वासवं धनिष्ठा अम्बुपः शततारका तोयं पूर्वाषाढ़ा
अन्त्यं रेवती पुष्यः इन्दुर्मृगः एतैर्नक्षत्रैस्त्रयोदशभिः
सर्वेषां जलाशयानां वापीकूपतड़ागनाम्नां तोयाधाराणां
खननं शुभमुक्तम् उक्तञ्च व्यवहारतत्त्वे “आप्याम्बुपान्त्य
पितृमित्रवसूत्तरार्ककेन्द्वीज्यभेषु खननं सलिलाश्रयाणा-
मिति” । कः ब्रह्मा तद्देवताकत्वेनाभेदात् रोहिणी ।
अथ जलाशयखनने लग्नविचारः पापैः पापखगैर्बल-
रहितैः सद्भिः, तनौ लग्ने सुरगुरौ वृहस्पतौ ज्ञे बुधे
स्थिते सतीत्यर्थः लग्नात् खे दशमस्थाने भृगौ शुक्रे, आप्ये
जलचरराशौ विधौ सति जलाशयखेननं हितं उक्तञ्च
रत्नमालायाम् “लग्ने जीवे ज्ञेऽथ वा दुर्बलैश्च क्रूरैः
शुक्रे चापि मेषुरणस्थे । आप्ये चन्द्रे सर्वतीयाश्रयाणा-
मारम्भाः स्युः सिद्धये निर्विकल्पम्” । कश्यपेनाप्युक्तम्
“गुरौ ज्ञे वा लग्नगते शुक्रे कर्मगते, विधौ । आप्यभे
जलकार्य्याणामारम्भः सिद्धिदः स्मृतः” इति । दीपिका-
यान्तु विशेषः “पुष्ये मित्रकरोत्तरस्ववरुणब्रह्माम्बुपि-
त्र्येन्दुभिःशस्तेऽर्के शुभवारयोगतिथिषु क्रूरेष्ववीर्य्येषु
च । पुष्टेन्दौ जलराशिगे दशमगे शुक्रे शुभांशोदये
प्रारम्भः सलिलाशयस्य शुभदोजीवेन्दुपुत्रोदये । स्वं
धनिष्ठा । अन्ये तु वापीकूपतड़ागानामाकृतिभेदात्प्रत्येकं
भिन्नानि नक्षत्राण्युक्तानि । तत्र वापीखननमाह
ऋक्षोच्चयः “स्वात्यश्विपुष्यहस्तेषु सर्वदा च पुनर्वसौ ।
रेवत्यां वारुणे चैव वापीकर्म प्रशस्यते” । कूपारम्भमाह
श्रीपतिः “हस्तः पुष्यो वासवं वारुणञ्च मैत्रं पित्र्यं
त्रीणि चैवोत्तराणि । प्राजापत्यञ्चापि नक्षत्रमाहुः कूपा-
रम्भे श्रेष्ठमाद्या मुनीन्द्राः” । तड़ागारम्भमाह वसिष्ठः
“मैत्रेन्दुपौष्णोत्तररोहिणीषु देवेज्यवारीश्वरवारिभेषु ।
प्रारम्भणं सर्वजलाशयानां कार्यं सितेन्द्वंशकवारलग्ने” ।
अत्र वापीकूपनक्षत्राणां पार्थक्येनाभिधानात् तड़ागा-
रम्भार्थमिदं वचनमवसीयते बहुवचनमाश्रयाभिप्रायेण
सर्वशब्दोपादानं छन्दःपरिपूरणार्थं तत्र कूपतड़ागनक्षत्रेषु
सदृशनक्षत्रत्यागावशिष्टानां मेलने त्रयोदश नक्षत्राणि
भवन्ति तत्र संक्षेप्तुकामेन व्यवहारतत्वकर्त्रा सर्वजला-
शयानामारम्भे सामान्यतो जलाशयत्वसाधर्म्यादेतानि
त्रयोदश भान्युक्तानि तान्येव च ग्रन्थकर्त्रोक्तानि । तत्र
वापीकूपतड़ागानां भेदो लोकप्रसिद्ध एव यत्तु पुनर्वसि-
ष्ठेनोक्तं “शशाङ्कतोयेशकरार्यमित्रध्रुवाम्बुपित्र्ये वसु
रेवतीषु । उद्यानवाप्यादितड़ागकूपकार्याणि सिद्ध्यन्ति
जलं ध्रुवं स्यात्” । तज्जीर्णोद्धारविषयं प्रागुक्तवाक्ये
प्रारम्भणपदोपादानान्न नूतनखननविषयमिति पुनरुक्ति
परिहारः ।” पी० धा० ।
अधिकं जलाशयोत्सर्गशब्दे ३०७५ पृष्ठादावुक्तम् । अत्र
राहुसाम्मुख्यनिषेधः मु० चि० पी० उक्तो यथा “देवालये
गेहविधौ जलाशये राहोर्मुखं शम्भुदिशो विलोमतः ।
मीनार्कसिंहार्कमृगार्कतस्त्रिभे खाते मुखात् पृष्ठविदिक्
शुभा भवेत्” । मु० चि० ।
“देवालये इति । अत्र यथासङ्ख्यं सम्बन्धः । देवा-
लयप्रारम्भे राहोर्मुखं मीनार्कतस्त्रिराश्यवस्थिते सूर्य्ये
ऐशानीतो विलोमतो विपरीतं विदिक्षु वायव्यादिषु
राहोर्मुखं स्यात् यथा मीनमेषवृषराश्यवस्थिते सूर्य्ये
राहोर्मुखम् ऐशान्याम् । मिथुनकर्कटसिंहराश्यवस्थिते
सूर्य्ये वायव्यां राहुमुखम् । कन्यातुलावृश्चिकस्थे सूर्य्ये
नैरृत्यां राहुमुखम् । धनुर्मकरकुम्भराश्यवस्थे सूर्य्ये
आग्नेय्यां राहोर्मुखम् इत्यर्थः । एवं गृहारम्भेऽपि
सिंहार्कतस्त्रिराश्यवस्थितेऽर्के विलोमतः ऐशान्यां राहुमु-
खम् । वृश्चिकादित्रये वायव्यां कुम्भादित्रये नैरृत्याम् ।
वृषादित्रये आग्नेय्यां राहुमुखं स्यात् । जलाशयारम्भे-
ऽपि मकरार्कतस्त्रिराश्यवस्थेऽर्के विलोमतः ऐशान्यां
राहुमुखं स्यात् । मेषादितः त्रिभिर्वायव्याम् । कर्कादि-
तस्त्रिभिर्नैऋत्याम् । तुलादितस्त्रिभिः आग्नेय्यां राहु-
मुखं स्यादित्यर्थः । फलमाह खात इति । देवालया-
दिविषयके खाते भूमिशोधने कर्तव्ये सति राहुमुखा-
क्रान्तदिशः सकाशात् पृष्ठवर्तिनी दिक् शुभा भवेत् यथा
पृष्ठ ३२०७
देवालयविषये मीनादित्रिराशिस्थितसूर्य्यत्वेन ऐशान्यां
राहुमुखम् । तत्पृष्ठविदिक् आग्नेयी तस्यां प्रथम-
खातप्रारम्भः शुभद इत्यर्थः । मिथुनादिराशित्रयस्थे
सूर्य्ये राहुमुखं वायव्यां तत्पृष्ठविदिगैशानी तस्यां
खातारम्भः शुभः । एवं सर्वत्र । तथैव गृहविधौ
अपि राहुमुखं कस्यां दिश्यस्ति इत्यवधार्य
तत्पृष्ठविदिशि खातः शुभफल इत्यर्थः । यतः ।
सर्पेण विदिक् व्याप्ता । यथा । ऐशान्यां मुखम् ।
वायव्यामुदरम् । नैरृत्यां पुच्छम् आग्नेस्यां पृष्ठम् ।
अतः खाते आग्नेयी सम्यक् । एवमन्यत्राप्यूहनीयम्
यदाह विश्वकर्मा “ईशानतः सर्पति कालसर्पो विहाय
सृष्टिं गणयेद्विदिक्षु । शेषस्य वास्तोर्मुखमध्यपुच्छं
त्रयं परित्यज्य खनेच्चतुर्थम्” इति । ज्योतिश्चिन्तामणौ
“वृषार्कादित्रिकं वेद्यां सिंहादि गणयेद्गृहे । देवालये
च मीनादि तड़ागे मकरादिषु” । तदारम्भतदुत्सर्गौ च
समयाशुद्धौ न कार्य्यौ कालाशुद्धिशब्दे तत्प्रमाणं
दृश्यम् “एतेनाखानि शाखानवनिवह हरित्पर्णपूर्णद्रुमाली
व्यालीढ़ोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तड़ागः” नैष० ।

तड़ाघात पु० “उच्चैः करिकराक्षेपे तड़ाघातं विदुर्बुधाः”

इत्युक्ते तटाघाते वप्रक्रीड़ायाम् शब्दकल्पद्रुमः ।
तच्चिन्त्यं तत्र वाक्ये तटाघातमित्येव पाठः तड़ेति पाठः
लिपिकरप्रमादकृतः ।

तड़ि पु० तड--आघाते भावादौ इन् । १ आघाते २ तत्कर्त्तरि त्रि० ।

तड़ित् स्त्री ताड़यत्यभ्रम् चुरा० तड़--इति नि० ह्रस्वः ।

१ विद्युति अमरः । “जलदास्तड़ित्तुलितकान्तकार्त्त-
स्वराः” “घनं घनान्ते तड़ितां गुणैरिव” माघः ।
“योगस्तडित्तोयदयोरिवास्तु” रघुः ।
तड़ित्सम्भवादिस्तु “सुजलजलधिमध्ये वाड़वोऽग्निः
स्थितोऽस्मात् सलिलभरनिमग्नादुत्थिता धूममालाः ।
वियति पवननीताः सर्वतस्ता द्रवन्ति द्युमणिकि-
रणदीप्ताविद्युतस्तत्स्फुलिङ्गाः” । “अकस्माद्वैद्युतं तेजः
पार्थिवांशकमिश्रितम् । वात्यावद्भ्रमदाघाते प्रतिकूला-
नुकूलयोः । वाय्वोस्तत् पतति प्रायो ह्यकालप्राज्य-
वर्षणे । यतः प्रावृषि नैवेते पांसवः प्रसरन्ति हि । तत्
त्रेधा पार्थिवं चाप्यं तैजसं तड़िदुत्थितम् । ततो निर्झ-
रदाहैश्च मूमिस्थैरनुभूयते” सि० शि० टीका । २ अन्तिके
निघण्टुः ३ हिंसायां निघण्टुः “तड़ित् आखण्डनेत्यु-
षक्रमे “त्रयस्त्रिशत्बधकर्माणः” इति तदुक्तेः

तड़ित्प्रभा स्त्री तड़ितः प्रभेव प्रभा यस्याः । कुमारानुच-

मातृभेदे । “केशयन्त्री त्रुटिनामा क्रोशनाऽथ तड़ित्-
प्रभा” भा० शल्य० ४७ अ० कुमारानुचरमातृगणोक्तौ ।
२ तड़ित्तुल्यदीप्तियुते त्रि० ।

तड़ित्वत् पु० तड़ित् विद्यतेऽस्य मतुप् मस्य वः तान्तत्वेन

अपदान्तत्वात् न तस्य दः । १ मेधे “चलिताचल-
वर्षमाणा गम्भीरविराविणस्तड़ित्वन्तः” वृ० स० ३२ अ०
२ मुस्तके च अमरः । ३ तड़िद्विशिष्टे त्रि० स्त्रियां ङीप्
“समुदितन्निचयेन तडित्वतीम् । लघयता शरदम्बुदसं-
हतिम्” किरा० ।

तडिद्गर्भ पु० तड़ितो गर्भेऽस्य । मेघे “तडिद्गर्भ ऋतवः

समुद्राः” श्वेताश्व० उप० ४ अ० ।

तडिन्मय त्रि तडिदात्मकः तड़ित् + मयट् । तडित्स्वरूपे

“तडिन्मयैरुन्मिषितैर्विलोचनैः” कुमा० ।

तण्ड पु० तडि--अच् । १ ऋषिभेदे तस्य गोत्रापत्यम् गर्गा०

यङ् । ताण्ड्य तद्गोत्रापत्ये पुंस्त्री० । यूनि फक् ।
ताण्ड्यायन तदीये यून्यपत्ये पुंस्त्री० । तण्डशब्दस्य
वतण्डशब्देन समं द्वन्द्वे कीर्त्तकौजपा० पूर्वपदप्रकृति-
स्वरः । भावे अ । २ आहतौ स्त्री ।

तण्डक पुंस्त्री० तडि--ण्वुल् । १ खञ्जने, स्त्रियां ङीष् । २ फेने,

३ समासप्राये वाक्ये, ४ गृहदारुणि, ५ तरुस्कन्धे च न०
मेदि० ६ मायाबहुले, उपघातके त्रि० परिष्कारे पुंन०
शब्दार्थचि० ।

तण्डि पु० कृतयुगोत्पन्ने ऋषिभेदे तत्कथा भा० आनु०

१५ अ० । “ऋषिरासीत् कृते तात! तण्डिरित्येव विश्रुतः
दश वर्षसहस्राणि तेन देवः समाधिना । आराधितोभू-
द्भक्तेन तस्योदर्कं निशामय” इत्यादिका । महादेववराच्च
तत्सुतस्य यजुर्वेदीयताण्डिनशाखाभेदे कल्पसूत्रकर्तृ-
तेति तत्रैव १६ अ० उक्तं यथा “अक्षयश्चाव्ययश्चैव भविता
दम्भवर्ज्जितः । यशस्वी तेजसा युक्तो दिव्यज्ञानसम-
न्वितः । ऋषीर्णामभिगम्यश्च सूत्रकर्त्ता सुतस्तव ।
मत्प्रसादाद्द्विजश्रेष्ठ! भविष्यति न संशयः” “सूत्रकर्त्ता
ताण्डिन इति यजुर्वेदे शाखाविशेषस्तत्र कल्पसूत्रकर्त्तेति”
नीलकण्टः ।

तण्डु पु० शिवद्वारपालभेदे नन्दिकेश्वरे “नन्दी

भृङ्गरिटस्तण्डु नन्दिनौ नन्दिकेश्वरः” मल्लिनाथधृतकोषः ।

तण्डुरीण पु० तण्डा + अस्त्यर्थे उरच् तत्र भवः ख ।

१ कीटमात्रे २ वर्वरे त्रि० तण्डुले भवः ख रस्य लः ।
३ तण्डुलोदके न० मेदि० ।
पृष्ठ ३२०८

तण्डुल पुंन० तडि--उलच् । निस्तुषधान्ये । “शस्यं-

क्षेत्रगतं प्रोक्तं सतुषं घान्यमुच्यते । निस्तुषस्तण्डुलः
प्रोक्तः स्विन्नमन्नमुदाहृतम्” आ० त० । “शालितण्डु-
लप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम् । सूर्य्याय चरुकं
दत्त्वा सप्तम्याञ्च विशेषतः । यावन्तस्तण्डुलास्तस्मि-
न्नैवेद्ये परिसंख्यया । तावद्वर्षसहस्राणि सूर्य्यलोके
महीयते” ति० त० । “तण्डुलो मेह जन्तुघ्नः स
नवस्त्वतिदुर्जरः” । वैद्य० “भ्रष्टस्तु तण्डुलो रूज्ञो सुगन्धिः
कफनाशनः । पित्तकारी स विज्ञेयः” राजव० । तस्य
किण्वशब्देन समा० राजद० पूर्वनि० । हीरकस्य २ मानभेदे
“सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैस्तु विंशत्या”
वृ० स० ८० अ० ।

तण्डुलपरीक्षा स्त्री तण्डुलेन परीक्षा । दिव्यभेदे तद्विधानं

वीरमि० उक्तं यथा पितामहः
“तण्डुलानां प्रवक्ष्यामि विधिम्भक्षणचोदितम् । चोर्य्ये
तु तण्डुला देया नान्यत्रेति विनिश्चयः” इति । चौर्य्य-
ग्रहणमर्थविवादप्रदर्शनार्थम् “तदर्थार्थस्य तण्डुलाः” इति
घनविवादे कात्यायनेनोक्तत्वात् । पूर्वेद्युर्यत्कर्त्तव्यं तत्
सएवाह “तण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य
कस्यचित् । मृण्मये भाजने कृत्वा आदित्यस्याग्रतः
शुचिः । स्नानोदकेन सम्मिश्रान् रात्रौ तत्रैव वासयेत् ।
आवाहनादिपूर्वन्तु कृत्वा रात्रौ विधानतः” इति । शुचिः
प्राड्विपाकः सूर्य्यस्थाने धर्माबाहनादिहोमान्तं सर्व-
दिव्यसाधारणविधिं कृत्वा आदित्यस्नानोदकेन शुक्लान्
शालितण्डुलानाप्लाव्य रात्रावेवं कृत्वा तथैव प्रातःकाल-
पर्य्यन्तं स्थापयेदित्यर्थः । स्नानोदकं देवताया इत्याह
कात्यायनः “देवतास्नानपानीयं दिग्धतण्डुलभक्षणे”
इति । प्रातः कर्त्तव्यमपि स एवाह “प्रभाते कारिणे
देया आदित्याभिमुखाय त्विति” । कारिणे शोध्याय ।
देयाः तण्डुला इत्यनुषङ्गः । भक्षणञ्च सोपवासेन सूर्य्या-
लयमध्य एव कर्त्तव्यमित्याह वृहस्पतिः “सोपवासः
सूय्यगेहे तण्डुलान् भक्षयेच्छुचिरिति” । शोध्यानुष्ठेय-
मनुवादव्याजेन दर्शयति पितामहः “प्राङ्मुखोपोषितं
स्नातं शिरोरोपितपत्रकम् । तण्डुलान् भक्षयित्वा तु
पत्रे निष्ठीवयेत्ततः” इति । भक्षयित्वा भक्षणं कारयित्वा
हेतुमतोणिजन्तस्य भक्षेरयं प्रयोगः । पत्रे विशेषं स
एवाह “भुर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य त्विति” ।
शुद्ध्यशुद्यवधारणोपायं स एवाह “शोणितं दृश्यते यस्य
हनुस्तालु च शीर्यते । गात्रञ्च कम्पते यस्य तमशुद्धं
विनिर्दिशेत्” इति । वृहस्पतिरपि “शुद्धः स्याच्छुक्ल-
निष्ठीवी रक्तमिश्रे तु दोषभागिति” । कात्यायनोऽपि
“शुक्लनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथेति” ।
“अपोग्निरुदकञ्चैव विषङ्कोषस्तथैव च । तण्डुलाश्चैव
दिव्यानि सप्तमस्तप्तमाषकः ।” इति पितामहस्मृतिः ।
“तण्डुलाश्चैव कोषश्च शङ्कास्वेव न संशयः” इति
मिताक्षराधृतस्मृतिः ।

तण्डुला स्त्री ताडि--उलच् नि० नुट् हस्वश्च । २ महासम-

ङ्गायाम् २ विडङ्गे च राजनि० । ३ तण्डुलीयशाके
यवतिक्तायां स्त्री ४ शशाण्डुल्याम् स्त्री राजनि० गौरा० ङीष् ।

तण्डुलाम्बु न० तण्डुलक्षालितमम्बु--शा० त० । तण्डुल-

क्षालनोदके (चेलुनि) तण्डुलोदकादयोऽप्यत्र ।
“जलमष्टगुणं दत्त्वा दत्त्वा पलं कण्डितण्डुलात् ।
भावयित्वा ततो देयं तण्डुलोदककर्मणि” वैद्यकपरिभाषा ।

तण्डुलिकाश्रम पु० न० तीर्थभेदे जम्बूमार्गादपावृत्य गच्छे-

त्तण्डुलिकाश्रमम् । न दुर्गतिमवाप्नोति ब्रह्मलोकं च
गच्छति” भा० व० ८२ अ० । नण्डूलिकाश्रममिति दीर्घ-
पाठः क्वाचित् कः, स च लिप्तिकरप्रमादकृत इत्यन्ये ।

तण्डुलीक पु० तण्डुलीयक + पृषो० यलीपः । तण्डुलीयक

शाके शब्दरत्ना० ।

तण्डुलीय पु० तण्डुलाय तद्भक्षणाय हितं छ । (क्षुद्रनटे)

(चाँपानटे) १ शाकभेदे २ विडङ्गे च । स्वार्थे क ।
तण्डुलीयक उक्तशाके अमरः ।
“तण्डुलीयो मेघनादः केन्दरन्तण्डुलेरकः । भाण्डी-
रस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः । तण्डुलीयो
लघुः शीतो रूक्षः पित्तकफास्रजित् । सृष्टमूत्रमलो
रुच्यो दीपनो विषहारकः” । तद्भेदः जलतण्डुलीयं
शास्त्रे कञ्चटमिति प्रसिद्धम् । पानीयतण्डुलीयो
यस्तत्कञ्चटमुदाहृतम् । कञ्चटं तिक्तकं रक्तपित्ता
निलहरं लघु” भावप्र० स्वार्थे के कापि अत इत्त्वम् ।
तण्डुलीयिका विडङ्गे स्त्री राजनि० । तण्डुलीवीजो-
ऽप्युक्तशाके पु० भावप्र० ।

तण्डुलु पु० तण्डुल + पृषो० । विडङ्गे शब्दर० ।

तण्डुलेर पु० तण्डुल + स्वार्थे बा० ढ्र । तण्डुलीयकशाके हेमच० ।

तण्डुलोत्य तण्डुलात् तत्क्षालनादुत्तिष्ठति उद् + स्था--क ।

(चेलुनि) तण्डुलाम्बुनि राजनि० । तण्डुलाम्बु-
शब्दे दृश्यम् ।
पृष्ठ ३२०९

तण्डुलौघ पु० तण्डुलानामोघ इव । (वेडबाँस) १ वेष्टवंशे

शब्दच० ६ त० । २ तण्डुलसमुदाये च ।

तत् त्रि० तन + क्विप् अन्त्यलोपे तुक् । विस्तारवे अमरः । परीतत् मुग्ध० ।

तत न० तन--क्त । १ वीणादिवादो अमरः २ विस्तारिते

३ व्याप्ते च त्रि० । ४ वायौ पु० मेदि० । भावे क्त ।
५ विस्तारे ६ सन्ताने च न० । तन्यते अन्वयोऽस्मात्
तननाम्नि अपादाने कर्मणि वा क्त तक् वा । ८ पितरि ९ पुत्रे
च पु० । “कारुरहं ततो भिषक्” ऋ० ९ । ११२ । ३ तत इति
सन्ताननाम तन्यतेऽस्मात् ततः पिता तन्यतेऽसौ ततः
पुत्रो वा” भा० इमामृचमधिकृत्य । तत इति सन्तानस्य
नाम पितुर्वा पुत्रस्य वा” निरु० । “सततमृषभहीनं
मिन्नकीकृत्य षड्जम्” माघः । “सततं वीणादिवाद्य
सहितम्” मल्लि० । “सहोबाच पितरं तत! कस्मै मां
दास्यसीति” कटो० । “हे तत! हे तात!” भा० “यस्य
निश्वसितं वेदा येन सर्वमिदं ततम्” माघवः । ततं
विस्तारितं व्याप्तं वेत्यर्थः ।

ततनुष्टि पु० ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान्

वा नुद--डु वश--क्तिच् कर्म० शक० । १ धर्मसन्ततिनोदकधर्म-
सन्ततिकामुके । “अपाप शक्रस्तुतनुष्टिमूहति” ऋ०
५३४ । ३ ततं धर्मसन्ततिं नुदति वष्टि कामयते कामान्
ततनुष्टिः” भा० निरुक्ते अन्यथा निरुक्तं यथा “शक्र-
स्तितनिषुं धर्मसन्तानादपेतमलङ्करिष्णुम् ६ । १९ । तेन
२ तदर्थे च ।

ततपत्री स्त्री ततं पत्रं यस्याः जातित्वात् ङीष् । कदल्याम् शब्दच० ।

ततम त्रि० तेषां मध्ये एकस्य निर्द्धारणे तद् + डमच् ।

तेषां मध्ये निर्द्ध्हारिते एकस्मिन् “एतमेव पुरुषं
ततममपश्यत्” ऐत० उ० ।

ततर त्रि० तयोर्मध्ये एकस्य निर्द्धारणे तद् + डतरच् । तयोर्मध्ये निर्द्धारिते एकस्मिन् ।

ततस् अव्य० तद् + सार्वविभक्तिस्तसिल् । तस्मादित्याद्यर्थे

“ततस्ततस्त्या विनियन्तुमक्षमाः” माघः । प्रथमार्थे ततो
भवान् । द्वितीयार्थे तत्रभवन्तम् । सप्तम्यर्थे ततस्त्या
तृतीयार्थे “यतोयतः षट्चरणोऽभिवर्त्तते ततस्ततः
प्रेरितवामलोचना” शकु० । हेतुभूतयो र्द्वयोर्मध्ये
एकस्यातिशये आमु तरप् च । ततस्तराम् विग्रहोक्तार्थे हेतु-
भूतानां बहूनां मध्ये एकस्यातिशये आमु तमप्च” ततस्त-
माम् विग्रहोक्तार्थे अव्य० ।

ततस्त्य त्रि० ततस्तत्र भवः त्यप् । तत्र भवे “ततस्ततस्त्या विनियन्तुमक्षमाः” माघः ।

ततामह पु० ततस्य पितुः पिता “पितरि ड़ामहः” इत्यत्र

पितृशब्दस्यार्थपरत्वं न स्वरूपपरत्वम् । पितामहे “अस्माकं
तावकानमवनतानां ततामह । तव चरणयुगलध्यानबद्ध
हृदयनिगड़ानाम्” भाग० ६ । ९ । ३९ क्वचित् पुस्तके
ततामहेत्यत्र तततत इत्येव पाठः । सोऽपि तदर्थे एव ।

तति स्त्री तन--क्तिन् । १ श्रेणौ हेमच० । २ समूहे च ।

“विश्रब्धं क्रियतां वराहततिभिः मुस्ताक्षतिः पल्लले” शकु० ।
“विभर्त्ति जनयन्नयमुदमपामपायधवला वलाहकततीः”
माघः । “तत्र हेतिततिहतिश्रान्ता अमात्याः” दशकुमा०
तत् परिमाणं येषां डति । २ तत्परिमाणे त्रि० ब० व०
अयञ्च षट्संज्ञकत्वात् त्रिषु समः । “ष्णान्ताः षट्” “डति च”
पा० तस्य षट्संज्ञा विहिता “षट्संज्ञकास्त्रिषु समा युष्म-
दस्मत्तिङव्ययाः” अमरः । “बहुगणवतु डति च संख्या”
पा० अस्य संख्याकार्य्यातिदेशः । ततः जसः शसश्च लुक्
तति पुरुषाः सन्ति तति पुरुषान् पश्य । ततः प्रकारे
धाच् । ततिधा ततिप्रकारे अव्य० “तावत्तेजस्ततिधा
वाजिनानि” अथ० १२ । २ । ३ । २ ।

ततिथी स्त्री तावतीनां पूरणी तावत् + डट् तिथुडागमः

ङीप् वेदे अवशब्दलोपः । तावतीनां पूरणीभूतस्त्रियाम्
“स यतिथीं तत्समां परिदिदेश ततिथीं समां
नावमुपकल्प्योपासाञ्चक्रे” शत० व्रा० १ । ८ । १ । ५ । यावतिथीं
तावतिथीमिति प्राप्ते छान्दसोऽवशब्दलोपः” भा० ।

ततुरि त्रि० तुर्व--हिंसायाम् कि द्वित्वं पृषो० । १ हिंसके

“सद्यो द्युम्ना तिरते ततुरिः” ऋ० ६ । ६८ । ७ । “ततुरि
र्हिंसकः । तॄ--कि द्वित्वं पृषो० । २ तारके च “ददथुर्मित्रा
वरुणा ततुरिम्” ४ । ३९ । २ । “ततुरिं तारकम्” भा०

तत्कर त्रि० तत् करोति तद् + अहेत्वादावपि कृञः ढः ।

तत्पदार्थकारके ।

तत्काल पु० कमघा० । वर्त्तमानकाले १ तदात्वे अमरः ।

२ तस्मिन् काले च । स कालो यस्य । ३ तत्कालवृत्तौ त्रि० ।
“शुचिस्तत्कालजीवी कर्म कुर्य्यात्” स्मृतिनिवन्धेषु
कल्प्या श्रुतिः । “प्रतिनिधौ तत्कालात्” कात्या० श्रौ०
१ । ४ । १५ । स कालो यस्यासौ तत्कालः भावप्रधानो निर्देशः
प्रतिनिधेस्तत्कालत्वादित्यर्थः । यतः प्रतिनिधेः स एव
कालो यो मुख्यद्रव्यस्याभावः” कर्कः । “प्रायश्चित्तं
तत्कालम्” कात्या० श्रौ० १ । १ । २२ ।

तत्कालधी त्रि० तस्मिन् उचिते काले धीर्बुद्धिर्यस्य । अनिष्टादि

निवारणाय झटिति प्रत्युत्पन्नबुद्धौ जने हेमच० ।

तत्क्रिय त्रि० वेतनं विना स्वभावतः सा क्रिया कर्म यस्य ।

कर्मकरणशीले, वेतनं विना स्वभावतः कर्मकरे अमरः ।
पृष्ठ ३२१०

तत्क्षण पु० स चासौ क्षणः कालः । सद्योऽर्थे हेमच० ।

“विवक्षितामर्थविदन्तत्क्षणप्रतिसंहृताम्” “आप्तेन तक्ष्णा
भिषजेव तत्क्षणम्” माघः “सेकान्ते मुनिकन्याभित्तत्क्षणो
ज्झितवृक्षकम्” रघुः ।

तत्त्व(त्व) न० तस्य भावः, तन--क्विप् तुक् ततो भावो वा त्व वा

तलोपः । १ याथार्थ्ये, २ स्वरूपे, ३ ब्रह्मणि च अमरः ४
अनारोपितस्वरूपे, परमात्मनि, “तदिति सर्वनाम सर्वं च ब्रह्म
तस्य नाम सर्वनाम तस्य भावः । सर्वस्मिन् दृश्ये बाध्यमाने-
ऽपि तद्बाधाधिष्ठानत्वेन स्वयमबाध्यमानमनारोपितं स्वरूपं
तत्त्वमिति विवरणकाराः । ५ विलम्बिते नृत्यवाद्यादौ,
६ चेतसि, ७ वस्तुनि, ८ साङ्ख्योक्तेषु प्रकृत्यादिषु पञ्चविंशतौ
पदार्थेषु त्रिका० । “वेदान्ता बहुतर्ककर्कशमतिग्रस्ताः
परं मायया भाट्टाः कर्मफलाकुला हतधियो ह्येते हि
वैशेषिकाः । अन्ये भेदरता विवादकलहास्ते तत्त्वतो
वञ्चितास्तस्मात् सिद्धमतं स्वभावकसृतं धीरः परं
संश्रयेत्” । ९ सत्त्वरजस्तमःसु । तत्र याथार्थ्ये इत्यष्टा-
विंशतिस्थाने तत्त्वं वक्ष्यामि यत्नतः” रघु० । श्रीतत्त्व-
चिन्तामणिः तत्त्वविवेकः । तत्त्वचूड़ामणिः तत्त्वदीपिका ।
प्रमाणप्रमेयेत्याद्युपक्रमे “तत्त्वज्ञानान्निःश्रेयसाधिगमः”
गौ० सू० “कार्य्यं सोऽवेक्ष्य शक्तिञ्च देशकालौ च
तत्त्वतः” मनुः । “सतश्च सद्भावोऽसतश्चासद्भावः । सत्
‘सत्’ इति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं
भवति । असच्च ‘असत्’ इति गृह्यमाणं यथाभूतमविपरीतं
तत्त्वं भवति” । वात्स्या० प्रस्तावना । प्रकृत्यादिप-
दार्थे । “एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्य-
परिशेषम्” सां० कौ० । “तत्प्रतिषेधार्थं तत्त्वा-
भ्यासात्” पात० सू० । १० स्वभावे निस्तत्त्वाः निःस्वभावा
इत्यर्थः प्रकृत्यादी पुंन० केचित् । “यस्यापि देवस्य गुणान्
समग्रांस्तत्त्वांश्चतुर्विंशतिमाहुरेके” हरिवं० २७६ अ० ।
ब्रह्मणि “वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” भाग० १ । ३ । ११
अनारोपितं तत्त्वमिति वेदान्तिनो वदन्ति । पदार्थे ।
“शून्यं तत्त्वं भावो विनश्यति वस्तुधर्मत्वाद्विनाशस्य”
सा० सू० । मतभेदे पदार्थभेदा यथा
“सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव
तत्त्वमिति शून्यवादिनो बौद्धाः । पृथिव्यादीनि
चत्वारि भूतानि तत्त्वानीति चार्वाका आहुः । जीवा
जीवाख्ये द्वे तत्त्वे इत्यार्हताः । जीवाकाशधर्माधर्म
पुद्गलास्तिकायाः पञ्चतत्त्वानीत्यार्हतैकदेशिनः । जीवा
जीवास्रवबन्धसंवरनिर्जरमोक्षाः सप्त तत्त्वानीत्यपरे
आर्हतैकदेशिनः । स्वतन्त्रास्वतन्त्रभेदेन द्विविधं तत्त्व-
मिति द्वैतवादिनः श्रीपूर्णप्रज्ञाचार्य्याः । चिदचिदी-
श्वरभेदेन त्रिविधं तत्त्वमिति रामानुजीयाः पतिपशु
पाशभेदेन त्रिबिधं तत्त्वमिति पाशुपतशास्त्रकोविदाः
नकुलीशाचार्य्याः शैवाश्च । महदादीनि पञ्चविंशतिस्तत्त्वा-
नीति सांख्याः । ईश्वराधिकानि तानि चेति, षड्विं-
शतिस्तत्वानीति पातञ्जलाः । ब्रह्मैकमेव परमार्थ-
तत्त्वं तद्भिन्नाः मायाकल्पिता इति मायावादिनो
वेदान्तिनः ।

तत्त्वज्ञान न० ६ त० । १ याथार्थ्यज्ञाने, २ ब्रह्मज्ञाने च ।

“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय
वादर्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति गौ० सू० । ३
अनारोपितवस्तुप्रत्यये । इदं सर्वं द्वेतजातमद्वितीये चिदा-
नन्दात्मनि मायया कल्पितत्वात् मृषैव आत्मैर्वैकः
परमार्थसत्यः सचिदानन्दाद्वयोऽहमस्मीति ४ परिज्ञाने ।
५ यथार्थ्यज्ञाने । यथा सति घटादिवस्तुनि सदिति
ज्ञानम् असति च शशशृङ्गादावसदिति ज्ञानम् ।
“निखिललोकविमोक्षमुख्योपायं मननोपायमात्मन-
स्तत्त्वज्ञानमामनन्ति” । यथा आत्मा शरीरादिभ्यो
भिन्न इत्याकारं ज्ञानमिति । नैयायिकाः । इतरनिवृत्ति-
पूर्बको व्रह्मात्मावगम इति मायावादिनो वदन्ति ।
भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिवेदान्तिन आहुः

तत्त्वज्ञानार्थदर्शनम् न० । तत्त्वज्ञानस्याहंब्रह्मास्मीति

साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसा-
धनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्य्या-
त्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्च
मोक्षः तस्य दर्शनम् आलोचनम् । तत्त्वज्ञानार्थे आलोचने
तत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात्
इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम् ।

तत्त्वन्यास पु० तन्त्रोक्ते विष्णुपूजाङ्गे न्यासभेदे तत्प्रकारस्त-

न्त्रसारे यथा
“मादिकान्तानथार्य्यांश्च जीवाद्येकैकशो वदेत् । नमः
परायेत्युच्चार्य्य ततस्तत्वात्मने नमः” इति गौतमीय
वचनात् सर्वत्र तत्त्वपदपयोगः । यथा मं नमः पराय
पृष्ठ ३२११
जीवतत्त्वात्मने नमः । भं नमः पराय प्राणतत्वात्मने
नमः । एतदुभयं सर्वगात्रे । तथा च गौतमीये “जीवं
प्राणं द्वयञ्चोक्त्वा सर्वाङ्गेषु प्रविन्यसेत् । ततो हृदयमध्ये
च तत्वत्रयञ्च विन्यसेत्” । वं नमः पराय मतितत्वात्मने
नमः । फं नमः परायाहङ्कारतत्वात्मने नमः । पं नमः
पराय मनस्तत्वात्मने नमः । इति त्रयं हृदि । नं नमः
पराय शब्दतत्वात्मने नमः मस्तके । धं नमः पराय
स्पर्शतत्वात्मने, नमः मुखे । दं नमः पराय रूपतत्वात्मने
नमः हृदि । थं नमः पराय रसतत्वात्मने नमः
गुह्ये, तं नमः पराय गन्धतत्वात्मने नमः पादयोः । णं
नमः पराय श्रोत्रतत्वात्मने नमः कर्णयोः । ढं नमः
पराय त्वक्तत्वात्मने नमः त्वचि । डं नमः पराय
नेत्रतत्वात्मने नमः नेत्रयोः । ठं नमः पराय जिह्वा-
तत्वात्मने नमः जिह्वायाम् । टं नमः पराय घ्राणतत्वा-
त्मने नमः घ्राणयोः । जं नमः पराय वाक्तत्वात्मने
नमः वाचि । झं नमः पराय पाणितत्वात्मने नमः
पाण्योः । जं नमः पराय पादतत्वात्मने नमः पादयोः ।
छं नमः पराय पायुतत्वात्मने नमः गुह्ये । चं नमः
पराय उपस्थतत्वात्मने नमः लिङ्गे । ङं नमः पराय
आकाशतत्वात्मने नमः मूर्ध्नि । घं नमः पराय वायुतत्वा
त्मने नमः मुखे । गं नमः पराय तेजस्तत्वात्मने नमः
हृदि । खं नमः पराय जलतत्वात्मने नमः लिङ्गे ।
कं नमः पराय पृथिवीतत्वात्मने नमः पादयोः । तथा
न्थासोऽभिहितः क्रमदीपिकायाम् । “इत्युच्युतीकृततनुर्वि-
दघीत तत्वन्यासं मपूर्वकपराक्षरनत्युपेतम् । भूयः पराय च
तदाह्वयमात्मने च नत्यन्तमुद्धरतु तत्वमनून् क्रमेण ।
सकलवपुषि जीवं प्राणमायोज्य मध्ये न्यसतु मतिमहङ्कार
तत्त्वं मनश्च । कमुखहृदयगुह्याङ्घ्रिष्वथो शब्दपू-
र्वगुणगणमथ कर्णादिस्थितम् श्रीत्रपूर्वम् । वागादीन्द्रि-
यवर्गमात्मनि नमेदाकाशपूर्वं गणं मूर्द्धास्ये हृदये शिवे
(लिङ्गे) चरणयोः हृत्पुण्डरीके हृदि । शं नमः पराय
हृत्पुण्डरीकतत्वात्मने नमः हृदि । हं नमः पराय द्वादश-
कलाव्याप्तसूर्य्यमण्डलतत्वात्मने नमः हृदि । सं नमः
पराय षोड़शकलाव्याप्तसोममण्डलतत्वात्मने नमः हृदि ।
रं नमः पराय दशकलाव्याप्तवह्निमण्डलतत्वात्मने नमः
हृदि । षं नमः पराय परमेष्ठितत्वात्मने वासुदेवाय
नमो मस्तके । यं नमः पराय पुरुषतत्वात्मने सङ्कर्ष-
णाय नमो मुखे । लं नमः पराय विश्वतत्वात्मने प्रद्यु-
म्नाय नमो हृदि । वं नमः पराय निवृत्तितत्वात्मनेऽनि-
रुद्धाय नमो लिङ्गे । लं नमः पराय सर्वतत्वात्मने
नारायणाय नमः पादयोः । क्षं नमः पराय
कोपतत्वात्मने नृसिंहाय नमः सर्वगात्रे । हृत्पुण्डरीक-
तत्वादीनां न्यास प्रमाणमाह तथा विम्बानि द्विषडष्टक-
युग्युग्दशकलाव्याप्तानीति, । गौतमीये “शं वीजं
हृत्पुण्डरीके च तत्वं हृदि प्रविन्यसेत् । हं वीजं सूर्य्य-
मण्डलतत्वं हृदि प्रविन्यसेत् । सं वीजं चन्द्रमण्डलतत्वं
तत्र प्रविन्यमेत् । रं वीजं वह्निमण्डलतत्वं तत्र प्रवि-
न्यसेत् । षं वीजं परमेष्ठितत्वं वासुदेवञ्च मूर्द्धनि ।
यं वीजमथ पुंस्तत्वं सङ्कर्षणमथोमुखे । लं वीजं विश्वतत्वञ्च
प्रद्युम्नञ्च हृदि न्यसेत् । वं वीज निवृत्तितत्वञ्च
अनिरुद्धमुपन्यसेत् । लं वीजं सर्वतत्वञ्च पादे नारायणं न्यसेत् ।
क्षं वीजं कोपतत्वञ्च नृसिंहं सर्वगात्रके । एवं तत्वानि
विन्यस्य प्राणायामं समाचरेत्” अन्येऽपि तत्त्वन्यासाः
श्रीविद्याताराकालीनामपि पूजाङ्गं तन्त्रसारोक्ता दृश्या

तत्त्वरश्मि पु० तन्त्रोक्ते (स्त्रीँ) वधूवीजे “नादविन्दुसमा-

क्रान्तस्तत्त्वरश्मिसमन्वितः” इत्यस्य व्याख्यायां “तत्त्वरश्मि-
र्वधूवीजमिति” तन्त्रसा०

तत्त्वविद् त्रि० तत्त्वं वेत्ति विद्--क्विप् । पदार्थानां याथार्थ्य

ज्ञातरि “तत्त्ववित्तु महाबाहो! गुणकर्मविभागशः”
गोता । २ परमेश्वरे पु० “तत्त्वं तत्त्वविदेकात्मा जन्म-
मृत्युजरातिगः” विष्णुस० । “तत्त्वं स्वरूपं यथाव-
द्वेत्तीति तत्त्वविद्” भा० ।

तत्पत्री स्त्री तन--क्विप् तत् पत्रमस्याः ङीष् । हिङ्गुपत्र्यां शब्दार्थचि० ।

तत्पद न० तदिति पदम् । तच्छब्दे “तत्त्वमसि श्वेतकेतो

इत्यादिवाक्यस्थं तत्सत्यं स आत्मेतित्यादि” श्रुति-
स्थञ्च तत्पदं ग्राह्यम् ।

तत्पदलक्ष्यार्थः पु० तत्पदस्य लक्ष्योऽर्थः अज्ञानादि-

समष्ट्युपाध्युपहिताधारभूतेऽनुपहितचैतन्ये चिदेकरस
रूपिणि ।

तत्पदवाच्यः त्रि० ६ त० । तत्त्वमस्यादिवाक्यस्थतत्पदार्थे तत् पदाभिधेये ।

तत्पदवाच्यार्थ पु० ६ त० । तत्त्वमस्यादि वाक्यस्थ तत्पदस्य

वाच्यार्थे अज्ञानादिसमष्टिः एतदुपहितसर्वज्ञत्वादिवि-
शिष्टचैतन्यम् एतदनुपहितचैतन्यञ्चैतत् त्रयं तप्तायः-
पिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवतीति
व्युत्पादितेऽर्थे ।
पृष्ठ ३२१२

तत्पदार्थः पु० तत्त्वमस्यादिवाक्यस्थस्य तत्पदस्यार्थः । जगत्

कारणे परमात्मनि । “यत् जगत्कारणं तत्त्वं
तत्पदार्थः स उच्यते” । एवं तत्पदार्थो निरूपितः इदानीं
त्वंपदार्थो निरूप्यते” वेदान्तसा० । तत्पदत्वंपदवाच्य-
योर्विरोधेनाभेदाभावेऽपि लक्ष्यार्थयोर्यथाऽभेदस्तथा
विवेकचू० न्यरूपि यथा
“तत्त्वम्पदाभ्यामभिधीयमानयोर्ब्रह्मात्मनोः शोधितयोर्यदी
त्थम् । श्रुत्या तयोस्तत्त्वमसीति सम्यक् एकत्वमेव प्रति-
पाद्यते मुहुः । ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निग-
द्यतेऽन्योऽन्यविरुद्धधर्मिणोः । खद्योतभान्वोरिव
राजभृत्ययोः कूपाम्बुराश्योः परमाणुमेर्व्वोः । तयोर्विरो-
धोऽयमुपाधिकल्पितो न वास्तवः कश्चिदुपाधिरेषः ।
ईशस्य माया महदादिकारणं जीवस्य कार्य्यं शृणु
पञ्चकोषम् । एतावुपाधी परजीवयोस्तयोः सम्यग्निरासे
न परो न जीवः । राज्यं नरेन्द्रस्य भटस्य खेटकस्तयो-
रपोहे न भटी न राजा । अथात आदेश इति श्रुतिः
स्वयं निषेधति ब्रह्मणि कल्पितद्वयम् । श्रुतिप्रमाणानु-
गृहीतबोधात्तयोर्निरासः करणीय एवम् । नेदं नेदं
कल्पितत्वान्न सत्यं रज्जुर्दृष्टा व्यालवत् स्वप्नवच्च । इत्थं
दृश्यं साधु युक्त्या व्यपोह्य ज्ञेयः पश्चादेकभावस्तयोर्यः ।
ततस्तु तौ लक्षणया सुलक्ष्यौ तयोरखण्डैकरसत्वसिद्धये ।
नालं जहत्या, न तथाऽजहत्या, किन्तूभयार्थात्मिकयैव
भाव्यम् । स देवदत्तोऽयमितीह चैकता विरुद्धधर्भांश-
मपास्य कथ्यते । यथा, तथा तत्त्वमसीतिवाक्ये विरुद्ध-
धर्मानुभयत्र हित्वा । संलक्ष्यचिन्मात्रतया सदात्मनो-
रखण्डभावः परिचीयते बुधैः” ।

तत्पदाभिधः त्रि० तत्त्वमस्यादिवाक्यस्थतत्पदस्याभिवा

यत्र । तत्पदवाच्ये । “मायोपाधिर्जगद्योनिः सर्वज्ञत्वादि
लक्षणः । परोक्षशवलः सत्याद्यात्मकस्तत्पदाभिधः” ।
वेदान्तकारिका ।

तत्पर त्रि० तत्परमुत्तमं यस्य । १ तद्गते, २ तदासक्ते च

अमरः । ५ त० । तस्मात् परे ३ वस्तुनि च । परता च
कालिकी दैशिकी च । तत्र कालिकी “परश्वस्तत्परे-
ऽहनि” अमरः दैशिकी । “गण्डौ कपोलौ तत्परे हनू”
अमरः । “परः पूर्वेण सङ्गुण्यस्ततत्परस्तेन तेन च”
लीला० । “अक्ष्णोर्निमेषस्य स्वराम(३०)भागः स तत्परस्त-
च्छतभाग उक्तः” सि० शि० निमेषस्य त्रिंशद्भागा-
त्मके ४ सूक्ष्मकालभेदे पु० ।

तत्परायण त्रि० तदेव परमयनं यस्य णत्वम् । तदासक्ते ।

तत्पुरुष “तत्पुरुषः” इत्यधिकृत्य पा० विहिते १ समासमेदे

“उत्तरपदार्थप्रधानस्तत्पुरुष इति तस्य लक्षणं
प्रायिकम् अर्द्धपिप्पल्यादि तत्पुरुषे उत्तरपदार्थप्राधा-
न्याभावात् अव्याप्तिः पूर्वपदप्राधान्याच्चाव्ययीभावत्वा-
पत्तेरतिव्याप्तिश्च यथोक्तं वाक्यपदीये “समासस्तु
चतुर्द्धेति प्रायोवादस्तथाऽपरः । योऽयं पूर्वपदार्थादि
प्राधान्यविषयःस च” “अयमर्थः समासः अव्ययीभावतत्पु-
रुषद्वन्द्वबहुघ्रीहि भेदात् चतुर्द्धा । तत्र पूर्वपदार्थप्रधानो-
ऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थ-
प्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुब्रीहिः इत्यादि
लक्षणमपि प्रायिकम् । उन्मत्तगङ्गं सूपप्रति अर्द्ध-
पिप्पली द्वित्राः कुशपलाशमित्यादौ परस्परव्यभिचा-
रात् । तथाहि उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थ-
प्राधान्याभावादव्याप्तिः अन्यपदार्थप्राधान्याद्बहुब्रीहिल
क्षणातिव्याप्तिश्च “अन्यपदार्थे च संज्ञायामिति”
(अव्य०) समासात् । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थ-
प्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च ।
“सूपः प्रतिना मात्रार्थे” इति (अव्य०) समासात् ।
अर्द्धपिप्पलीति तत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययी-
भावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च “अर्द्ध्वं नपुंसकमिति”
(तत्पु०) समासात् । एवं पूर्वकाय इत्यादावपि द्रष्टव्यम्
द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्यात् द्वन्द्वाति-
व्याप्तिबहुव्रीह्यव्याप्तिश्च । कुशपलाशमित्यादिद्वन्द्वे
समाहारान्थपदार्थप्राधान्याद्बहुब्रीह्यतिव्याप्तिर्द्वन्द्वाव्याप्तिश्च
स्यादिति मावः । सिद्धान्ते त्वव्ययीभावाधिकारपठितत्व-
मव्ययीभावत्वमित्यादि लक्षणं द्रष्टव्यम्” वै० भू० सा० ।
शब्दशक्तिप्रकाशिकायान्तु अन्यथा तल्लक्षणमुक्त्वा तत्र
पदार्थयोरन्वयबोधप्रकारो दर्शितो यथा
“यदीयेन सुवर्थेन युतयद्बोधनक्षमः । यः समासस्तस्य
तत्र स तत्पुरुषः उच्यते” । यदर्थगतेन सुबर्थेन विशि-
ष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोम्यः स
तदर्थस्य तदर्थे तत्पुरुषः । न तु यन्नामोत्तरं यन्नाम
यदर्थगतसुवर्थावच्छिन्नस्य यत्स्वार्थस्य बोधकं तदुत्तरं तन्ना-
मैव तदर्थयोस्तत्पुरुषः पूर्बकायोऽर्द्धपिप्पलीत्यादाव-
व्याप्तेः । स्तोकपक्तेत्यादौ क्रियाविशेषणैः कर्मधारय
एव महाकविर्महाविज्ञ इत्यादौ कवित्वादाविव प्रकृते-
ऽप्येकनामार्थैकदेशे पचनादावपरनामार्थस्याभेदान्वयबोध-
कतया तथात्वसम्भवात् । स्तोकं पक्तेत्यादौ अमस्तादात्म्य-
पृष्ठ ३२१३
वाचित्वे तु तत्पुरुषः सम्भवत्येव क्रियाविशेषणैः
समास एवाव्युत्पन्न इति तु न देश्यं “स्तोकनम्रा स्तना-
भ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्वात् द्विगौ कर्मधारये
च शाब्दिकानां तत्पुरुषत्वव्यपदेशः पदसंस्कारार्थो
गौणः । विभजते । “द्वितीयादिसुवर्थस्य भेदादेष च
षड्विधः । क्रियान्वथी द्वितीयादेरर्थः प्रायोऽत्र योजितः”
“ग्रामगतः चैत्रनीतः ब्राह्मणदत्तः वृक्षपतितः चैत्रधनं
मैत्रगतिः गृहस्थित इत्यादौ द्वितीयादिसुबर्थस्य कर्मत्व
कर्तृत्वादेर्बोधभेदादेतस्य द्वितीयातृतीयादितत्पुरुषत्वेन
षड्भेदाः स्वघटकैकपदार्थनिष्ठद्वितीयार्थावच्छिन्नापरपदा-
र्थबोधकसमासत्वादेर्धर्मषट्कस्य सुवचत्वात् । इयांस्तु
विशेषो यदेतेषु धात्वर्थान्वय्येव द्वितीयादेरर्थः प्रायो
घटकः पीठं परितः पुण्येन सुखं शमाय विद्या दण्डा-
द्वटः गवां कृष्णा सम्पन्नक्षीरा तिलेषु तैलमित्यादिविग्रहे
तत्पुरुषस्यासाधुत्वात् वर्षसुखी गिरिकाणः कुण्डल-
हिरण्यं घटान्यः कुवेरवलिः कर्मकुशल इत्यादौ तु
तत्तद्विशेषविधेर्द्वितीयादितत्पुरुषः । ननु ग्रामगत
इत्यत्र गतौ ग्रामकर्मकत्वस्य राजपुरुष इत्यत्र च पुरुषे
राजसम्बन्धस्यावगमो न ग्रामादिपदेभ्यो लुप्तसुपः स्मर-
णात्, तल्लोपमजानतोऽप्यन्वयवोधात् समृद्धं ग्रामगत
इत्यादितः समृद्धग्रामयोरभेदान्वयधीप्रसङ्गाच्च सम्पन्नं
दधि पश्येत्याद्राविव तत्रापि नामार्थयोरभेदान्वयबोधो-
पयुक्तस्य नाम्नोः समानविभक्तिप्रतिसन्धानस्याविशिष्ट-
त्वात् । नापि ग्रामादिपदस्य ग्रामकर्मकत्वादिलक्षकत्वात्
अभेदान्यसम्बन्धेन नामार्थस्यान्वयवोधं प्रत्यनुकूलस्य
नामोत्तरविभक्त्युपस्थाप्यत्वस्य तादृशप्रत्ययोपस्थाप्यत्वस्य
वा गत्यादावसत्त्वात् । नच ग्रामादिपदलक्षितस्य ग्राम-
कर्मकादेरेव तत्र गत्यादौ तादात्म्येनान्वय इति साम्प्र-
दायिकानाम्मतमेव साम्प्रतं तत्पुरुषस्यापि समस्यमान-
पदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः ग्रामं
गतः राज्ञः पुरुष इत्यादिविग्रहस्य समासतुल्यार्थकत्व-
हान्यापत्तेश्चेति चेन्न प्रत्ययान्ततत्तन्नामार्थस्यैव भेदेनान्व-
यवोधं प्रति तत्तन्नामोत्तरप्रत्ययोपस्थाप्यतायास्तन्त्रत्वेन
ग्रामगत इत्यादौ ग्रामादिपदलक्षितग्रामकर्मत्वादेर्गत्यादौ
भेदेनान्वये बाधकाभावात् । नचैवं गतो ग्रामेत्यत्रापि
ग्रामदपलक्षितस्य ग्रामकर्मत्वादेर्गत्यादौ भेदेनान्वयबोध-
प्रसङ्गः प्रत्ययान्तान्यतत्तन्नामोपस्थाप्यार्थस्यान्वयबोधसा-
मान्यं प्रत्येवोत्सर्गतस्तादृशतत्तन्नामोत्तरनामोपस्थाप्यत्वस्य
हेतुत्वेन तदसम्भवात् । अतएवार्द्धपिप्पलीच्छेद इत्यादौ
पूर्वपदप्रधानत्वेनामुशिष्टस्य तत्पुरुषादेरन्त्यपदार्थानां
पिप्पलीप्रभृतीनाम् अर्द्धाद्यर्थे घटपटमठानामित्यादौ च
सर्वपदप्रधानत्वेन द्बन्द्वस्यानन्त्यपदार्थानां घटादीनां सुबर्थे
अन्वयः तथा बहुगुड़ो द्राक्षेत्यादौ गुड़ादीनामपि बहुजर्थे
प्रकृत्यर्थस्येषदसमाप्तौ नाम्नः प्राग्बहुचि विधानादिति ।
ननु यदि नामार्थयोरपि भेदेनान्वयो व्युत्पन्नस्तर्हि
ग्रामगत इत्यादौ कर्मत्वादिसंसर्गेण ग्रामादेरेव गत्यादा-
वन्वयोऽस्तु कृतं ग्रामादिशब्द्स्य ग्रामकर्मकत्वादिलक्षणयेति
चेत् सत्यं विग्रहवाक्यानां समाससमानार्थकत्वरक्षणाय
तत्र लक्षणास्वीकारात् । माऽस्तु वा ग्रामादिपदस्य तत्कर्म-
कत्वादौ लक्षणा कर्मत्वादिसंसर्गेणैव ग्रामादेर्गत्यादावन्व-
यसम्भवात्तथापि न क्षतिः ग्रामं गत इत्यादिविग्रहस्यापि
कर्मत्वार्थकद्वितीयाद्युपसन्धानवशादेव कर्मत्वादिसंसर्गेण
गत्यादौ ग्रामाद्यन्वयबोधकतया समाससमानार्थकत्वसम्भ-
वात् ग्राममित्यादौ कर्मत्वादिधर्मिकान्वयबोधानुरोधेन
द्वितीयादेः कर्मत्वाद्यर्थकत्वात् । अतएवाघटः पट इत्या-
दावन्यस्य असुरो दैत्य इत्यादौ विरोधिनः, अनिक्षुः शर
इत्यादौ सदृशस्य, अव्राह्मणी वार्द्धुषिक इत्यादावपकृष्टस्य,
अनुदरमुदरन्तरुण्या इत्यादौ स्वल्पस्य, बाचकेन
नञ्निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनु-
भावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः । पटस्याभाव
इत्यर्थे प्रसज्यनञा अव्ययीभाव एव समासः प्रमाणन्ते
नापटं वर्त्तते इत्याद्येव तत्र प्रयोगस्तत्पुरुषस्योत्तरपद-
लिङ्गकत्वनियमात् इति वृद्धाः । प्रसज्यनञाप्यपट
इत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधे-
स्तदपवादकत्वात् अतएव वादिनामविवाद इत्यादिकः
किरणावल्यादौ पुंसि प्रयोग इति तु पक्षध्ररमिश्राः ।
युज्यते चोत्तरः कल्पो नचेदेवं “दशैते राजमातङ्गास्तस्यै-
वामी तुरङ्गमाः । चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुते-
ऽधुना” इत्यादौ राजसम्बन्धादे राजादिपदलक्ष्यत्वे
तदेकदेशस्य राजादेस्तदा परामर्शो न स्यात् विशेष्यविधया
वृत्त्या पूर्वोपस्थापितस्यैवार्थस्य परामर्शकत्वात् तदादिश-
ब्दानाम् “नहि प्रजावतीयं मे त्वं तस्मै देहि कम्ब-
लम् । नीलो मणिर्गुणः सोऽत्र भ्रात्रादिर्वोध्यते तदा” ।
नन्वेवम् “अनयैव ऋचा निषादस्थपतिं याजयेदिति”
श्रुतौ निषादानां स्थपतिरिति व्युत्पत्त्या न तत्पुरुषः
परन्तु निषादः स्थपतिरित्यर्थे कर्मधारय एवेति सिद्धान्तो
पृष्ठ ३२१४
व्याहन्येत तत्पुरुषे भक्तिभिया हि तत्र कर्मधारय-
स्वीकारस्तन्मूलके निषादस्याधानेऽपूर्वविद्याप्रयुक्तिश्च
कल्प्यते कल्प्यते च निषादीयतत्तदध्ययने निषेधविधि-
बाधात् “स्त्रीशूद्रौ नाधीयेतामिति” श्रुतौ तत्तदध्ययने-
तराव्ययनपरत्वं धातोः, शूद्रपदस्य त्रैवर्णिकान्योपलक्षक-
त्वात् । यदि च कर्मधारय इव तत्पुरुषेऽपि न लक्षणा
तदा तत्पुरुष एव तत्रोचितस्त्रैवर्णिकस्यैव निषादीय
स्थपतित्वेन प्राप्तावपूर्वविद्याप्रयुक्तेस्तन्मूलकनिषेधविधि-
सङ्कोचस्य चाकल्प्यत्वादिति चेत् तत्पुरुषे लक्षणापक्षेऽपि
किमिति कर्मधारय एव तत्राभ्युपेयते न तु तत्पुरुषः
निषादानां स्थपतिरिति व्युत्पत्त्या निषादस्थेपतिपदा-
न्निषादसम्बन्धवत्त्वेन स्थपत्यनुभवसहस्रस्य सर्वसिद्धत्वेन
नदनुरोधाल्लक्षणायाः कॢप्तत्वेन तत्कल्पनाभयस्यासम्भ-
वात् न हि निषादस्थपत्यादिपदं निषादादिसम्बन्धवत्तया
स्थपत्यादिबोधने निराकाङ्क्षं तथा सति निराकाङ्क्षत्वादेव
तत्पुरुषत्वासम्भवेन लक्षणापत्तेस्तद्वाधकतयोपन्यासानौ-
चित्यात् । अथ बाधकं विना मुख्यार्थ एव श्रुतीनां
प्रामाण्यं नतु प्रमाणान्तरविषयेऽपि लक्ष्यार्थे मुख्ये
शब्दस्वरस इत्यादिमीमांसया तथैव सम्प्रतिपत्तेरिति
चेत्तर्हि बाधकासत्त्वे कर्मधारयविधयैव वेद्रानां प्रा-
माण्यं न तु प्रमाणान्तरविषयेऽपि तत्पुरुषविधया कर्म-
धारयात् समासान्तरस्य दौर्बल्यमित्यादिमीमांसया तथैव
प्रतिपत्तेरित्यपि किन्न रोचयेः । तत्पुरुषाद्बहुब्रीहे-
र्जघन्यत्वमित्यत्राप्युक्तैव रीतिरनुसर्त्तव्या न हि
बहुव्रीहौ समस्तपदानां लाक्षणिकत्वादेव ततो दुर्बलत्वम् ।
एकपदमात्रलक्षणयापि बहुब्रीहेर्व्यवस्थाप्यत्वादित्यास्तां
विस्तरः” ।
स च तत्पुरुषस्त्रिविधः व्यधिकरणपदघटित समानाधि-
करणपदघटित संज्ञानवबोधकसंख्यावाचकपदघटितभे-
दात् । तत्र संज्ञानबोधकसंख्यापूर्वकसमानाधिकरणपदघ-
टितस्तत्पुरुषो द्विगुः “दिक्संख्ये संज्ञायामिति
सूत्रेण विहितपञ्चाम्रादिकर्मधारयादिष्वतिप्रसङ्गवार-
णाय संज्ञानबोधकेति “संख्यापूर्बोद्विगुरिति सूत्राच्च
संख्यापूर्वकेति । द्विमूर्द्धाद्यन्यपदार्थे तथात्ववारणाय
तत्पुरुषेति । द्विगुविषयपरिहारेण समानाधिकरणपद-
घटिततत्पुरुषः कर्मधारयः “तत्पुरुषः समानाधिकरणः
कर्मधारयः” इति सूत्रात् । इति तद्भिन्नोव्यधिकरणपद-
घटितस्तत्पुरुषः यथा राजपुरुष इतित्यादि । “द्वन्द्वो द्विगु-
रपि चाहं सततं मद्गृहे व्ययीभावः । तत्पुरुष कर्म-
धारय येन स्यां मदा बहुब्रीहिः” उद्भटः
स प्रसिद्धः पुरुषः । २ रुद्रभेदे धरणिः तस्य पुरुषः ।
३ तदधिष्ठातृदेवे च । “तत्पुरुषाय विद्महे” इति गायत्री

तत्फल पु० तनोति क्विप् तत् विस्तीर्णं फलति विकाशते

अच् । पुष्पमात्रविकाशिनि १ कुवलये, २ कृष्णौषधौ ३
चोरणामौषधौ च शब्दार्थ० ।

तत्र धारणे चु० आत्म० सक० सेट् इदित् । तन्त्रयते

अतितन्त्रत इदित्करणं वेदे स्वरविशेषार्थम् ।

तत्र कुटुम्बधारणे भ्वा० प० अक० सेट् चान्द्राः । तन्त्रति

अतन्त्रीत् ततन्त्र । “इतराभ्योऽपि दृश्यन्ते” पा० इत्युक्तेः
प्रथमाद्यर्थे त्रल् । तत्र भवान् तत्र भवन्तमित्यादि ।

तत्र अव्य० तस्मिन् त्रल् । तस्मिन्नित्यर्थे “तत्रापि तत्रभवती

भृशसंशयालोः” नैष० । “कथं तत्र विभागः स्यादिति
चेत् संशयो भवेत्” मनुः ।

तत्रत्य त्रि० तत्र भवः अव्ययात् त्यप् । तत्र भवे त्रि० ।

“मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यैः क्षुधितैर्जनै” भाग० १ । ३१

तत्रभवत् त्रि० पूज्यार्थे नित्य० स० । पूज्ये तत्रशब्दे उदा०

“अद्य तत्रभवांस्तं च पितरं रक्ष किल्विषात्” रामा०
अयो० ११३ अ० ।

तत्साधुकारिन् तत्साधु यथा तथा करोति कृ--णिनि

सहसुपेति समासः । तस्य साघुकारिणि “आक्वेस्तच्छील
तद्धर्मतत्साधुकारिषु” पा० ।

तथा अव्य० तेन प्रकारेण तद् + प्रकारे थाल् विभक्तित्वात् ।

१ तेन प्रकारेणेत्यर्थे २ साम्ये च अमरः । ३ अभ्युपगमे
४ पूर्वप्रतिवचने ५ समुच्चये, ६ निश्चये च मेदि० । तत्र साम्ये
“यथा नदोनदः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः ।
समुच्चये । “विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्”
“ज्ञाननिष्ठा द्विजाः केचित्तपोनिष्ठास्तथा परे” मनुः ।
तेन प्रकारेणेत्यर्थे “कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां
गतः” भा० व० ११ नलोपाख्यानम् । “यथा क्रतु-
रस्मिन् लोके भवति तथेत्य भवति” छा० उप० ।
“यथा कामो भवति तथा क्रतुर्भवति” शत० व्रा०
१४ । ७ । २ । ७ । ७ सत्ये च ।

तथाकारम् अव्य० तथा + कृ--निन्दितप्रतिवचने णमुल् ।

कथञ्चित् उक्तप्रकारेण कृत्वेत्यर्थे । “तथाकारमहं
भोक्ष्ये” सि० कौ० ।
पृष्ठ ३२१५

तथागत पु० तथा सत्यं गतं ज्ञानं यस्य यथा न पुनरावृत्ति-

र्भवति तथा तेन प्रकारेण गत इति वा तथा गतः सहसु-
पेति समासः । १ बुद्धमुनौ सुगते अमरः । “यथा गतास्ते
मुनयः शिवां गतिं तथागतिं सोऽपि गतस्तथागतः”
सर्वद० वौद्धागमः । २ पूर्वोक्तप्रकारेण गते त्रि० । “नलं दृष्ट्वा
तथागतम्” भा० व० ७७ अ० । “श्रियं तथागतां दृष्ट्वा
ज्वलन्तीमिव पाण्डवे” भा० स० १६ अ० ।

तथाच अव्य० तथा च च च द्वन्द्वः । उक्तस्य दृढ़ीकरणार्थे

“निरिन्द्रियाह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः । तथा
च श्रुतयो बह्व्यो निगीता निगमेष्वपि” मनुः ।
“एतावानेव पुरुषो यज्जायात्मा प्रजेति ह । विप्राः
प्राहुस्तथाचैतद्यो भर्त्ता सा स्मृताऽङ्गना” हितो० ।

तथात्व न० तथा + भावे त्व । तथाभूतत्वे । “तथात्वं चेदि

न्द्रियाणामुपघाते कथं स्मृतिः” भाषाप० । “स्वरूपा-
नन्दस्य तथात्वम्” सांख्य० सू० ।

तथापि अव्य० तथा च अपि च द्वन्द्वः । यद्यपीत्यनेनाक्षिप्तस्य

समाधानार्थे “तथापि मम सर्वस्वं रामः कमललोचनः”
उद्भटः । “यद्यपि का नो हानिः परस्य द्राक्षां रासभ-
श्चरति । असमञ्जसमिति मत्वा तथापि तरलायते चेतः”
उद्भटः । “सा चैवास्मि तथापि सुरतव्यापारनीला-
विधौ” काव्यप्र० ।

तथाभूत त्रि० तेन प्रकारेण भूतः भू--कर्त्तरि क्त । तादृशेन

रूपेण भूते । “तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयाम्”
वेणी० । “स्मरस्तथाभूतमयुग्मनेत्रम्” कुमा० ।

तथाराज पु० तथेति राजते राज--अच् । बुद्धदेवे शब्दार्थचि०

तथाविध त्रि० तथा विधा यस्य । तथाप्रकारे “तथाविध-

स्तावदशेषमस्तु सः” कुमा० “अतोऽभिलाषे प्रथमं
तथाविधे” । “श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः” ।
“प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम्” इति च रघुः
“तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः” मनुः

तथाहि अव्य० तथा च हि च द्व० । १ निदर्शने २ प्रसिद्धमेवे-

त्यर्थे शब्दार्थचि० । ३ उक्ताथे दृढ़ीकरणे ।

तथैव अव्य० तथा + सादृश्ये समुच्चये वा तस्यावधारणम् ।

तद्वदेवेत्यर्थे तत्समुच्चयावधारणे च शब्दार्थचि० “अस्ति
पुत्रो वशे यस्य भार्य्या भर्त्तुस्तथैव च” चाणक्यः ।
“यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्” मनुः ।

तथ्य न० तथा + साधु यत् । १ यद्वस्तु यथाभूतं तथारूपावस्याने

सत्ये २ तद्युते त्रि० अमरः । “काणं वाप्यथ वा
खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्
दाप्योदण्डं कार्षापणावरम्” मनुः । “अनन्यभाजं
पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन” कुमा० ।
“भूय एव तु मां तथ्यैर्वचोभिरुपवृंहथ” भा० द्रो०
५५ अ० । “यदर्जुनगुणांस्तथ्यान् कीर्त्तयानं नराधम!”
भा० द्रो० १५९ अ० ।

तद् त्रि० तन--अदि डिच्च । १ पूर्वोक्ते बुद्धिस्थे, २ परामर्शयोग्ये

३ विप्रकृष्टविषये । ४ ब्रह्मणि न० । “ॐ तत्सदिति निर्देशो
ब्रह्मणस्त्रिविधः स्मृतः” इति गीता । “अदसस्तु विप्रकृष्टं
तदिति परोक्षे विजानीयात्” इत्युक्तेरस्य परोक्षवाचित्वम् ।
बुद्धिस्थत्वोपलक्षितधर्मावस्मिन्नेऽस्य शक्तिः । बुद्धिस्थत्वं च
पूर्वानुभूतसंस्कारवत्तया, तेन स्मृतिविषयत्वेन तथात्वं
बोध्यम् । तदर्थ एवास्य सर्वनामता शब्दपरत्वे न
तथात्वम् । अतएव “एतत्तदोः सुलोपेऽकोरनञ्समासे हलि”
पा० न सर्वनामकार्य्यमन्यथा एतत्तयोरिति स्यात् । सर्व-
नामकार्यञ्च त्यदादीनामः जसादौ शीभावादि वृत्तिमात्रे
पुंवद्भावादिश्च । स तौ ते तस्मै तस्मात् तेषां तस्मिन्
इत्यादि । तस्य च टेरकच् सकः तकौ इत्यादि च ।
“स किं सखा साधु न शास्ति योऽधिपम्” किरा० ।
“तौ गुरुर्गुरुपत्नी च” रघुः । “ते त्र्यहादूर्द्धमाख्याय
चेरुश्चीरपरिग्रहाः” “ते हिमालयमामन्त्र्य” कुमा० ।
“तस्मै शंशस प्रणिपत्य नन्दी” कुमा० । “तस्मिन्
मघोनस्त्रिदशान् विहाय” कुमा० । तस्मात्तान्यत्र वापयेत्”
स्मृतिः । वृद्धसंज्ञत्वात् छ “तदीयमातङ्गघटाविघट्टितैः”
माघः । ततः तत्र तर्हि तदा इत्यादि । ५ हेतौ अव्य०
स्वरादेराकृतिगणत्वात् स्वरादि । “सन्तप्तानां त्वमसि
शरणं तत् पयोदः प्रियायाः” मेघ० । “तदङ्गमग्र्यं
मघवन्! महाक्रतोः” रघुः । अहेतावपि ६ सर्व-
नामसमानार्थे न० । “इन्द्रियदोषात् संस्काराच्चाविद्या”
“तद्दुष्टज्ञानम्” का० सू० “तदित्यव्ययपदं सर्वनामसमा-
नार्थकमविद्यां परामृशति साऽविद्या दुष्टज्ञानं व्यभि-
चारिज्ञानमतस्मिंस्तदभिज्ञानं व्यधिकरणप्रकारावच्छिन्न
विशेष्यकम्” उप० वृत्तिः । ८ तदेत्यर्थे च “ज्यायसी
चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन! तत् कर्म्मणि घोरे
माम् । गीता ९ प्रसिद्धे त्रि० सर्वनामकार्य्यञ्च । “तं
केशपाशं प्रसमीक्ष्य कुर्य्युः” कुमा० । तत्र ब्रह्मणि
“तदित्यनमिसन्धाय फलं यज्ञतपःक्रियाः । दान
पृष्ठ ३२१६
क्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिरिति” गीता ।
तदिति ब्रह्माभिधानमुच्यार्य्य अनभिसन्धाय च कर्मणः
फलमित्यर्थः “तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो”
छा० उ० । तत्पदवाच्यार्थश्च तत्पदवाच्यार्थशब्दे उक्तः
शरदा० अव्ययी० अच समासान्तः । तस्य समीपम् उपतदम् ।

तदर्थ त्रि० स अर्थोयस्य, तस्मै इदं वा “अर्थेन सह नित्य-

समासो विशेष्यनिघ्नता चेति” वार्त्ति० समासो वा । १
तत्प्रयोजनके २ तदुद्देश्यके “अन्तेवासी वार्थांस्तदर्थेषु धर्मकृ-
त्येषु योजयेद्दाहिता वा” दाय० त० आपस्तम्बः ।
३ तस्याभिधेये ४ तत्प्रयोजने च ततो भावे ष्यञ् । तादर्थ्य
तत्प्रयोजनकत्वे । “तादर्थ्ये चतुर्थी” मुग्ध वो० ।

तदनन्यत्व न० तयोरनन्यत्वम् । तयोर्भेदाभावे “तदनन्यत्व

मारम्भणशब्दादिभ्यः” शा० सू० ।

तदन्यबाधितार्थप्रसङ्ग पु० तदन्यः बाधितार्थस्य प्रसङ्गः ।

प्रमाणबाधितार्थस्य प्रसङ्गरूपे प्रमाणबाधितार्थप्रसङ्गा-
परपर्य्याये तर्कभेदे । तत्स्वरूपादि “स चायं तर्कः
पञ्चविधः आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणवा-
धितार्थप्रसङ्गभेदात् इति” विभज्य आत्माश्रयादीन् लक्ष-
यित्वा जगदीशेनोक्तं यथा उक्तचतुष्कान्यः प्रसङ्गः
प्रमाणबाधितार्थप्रसङ्गः । सोऽपि द्विविधो व्याप्तिग्राहको
विषयपरिशोधकश्च तत्राद्यो यथा धूमो यदि वह्निव्यभि-
चारी स्यात्तदा जन्यो न स्यादिति । द्वितीयस्तु पर्वतो
यदि निर्वह्निः स्यान्निर्धूमः स्यादित्यादि” । विषयस्य व्यभि-
चारशङ्कानिवृत्तिद्वारा निश्चायकत्वेन परिशोधकत्वम् ।

तदर्पण न० तस्य स्वस्मिन् निक्षिप्तस्यार्पणं प्रत्यर्पणम् ।

निक्षिप्तद्रव्यस्य निक्षेप्तुरर्पणे । ६ त० । तस्यार्पणे च ।

तदा अव्य० तस्मिन् काले तद् + दाच् विभक्तित्वात् अ ।

तस्मिन् काले इत्यर्थे । “तदा विधिः कुण्डलनां
विधोरपि” नैष० ।

तदात्मन् पु० स आत्मा यस्य । १ तत्स्वरूपे २ तदभिन्ने च ।

तस्य भावः ष्यञ् । तादात्म्य अभेदे “क्रमिकं यन्नाम-
युगमेकार्थेऽन्यार्थवोधकम् । तादात्म्येन भवेदेषः समासः
कर्मधारयः” शब्द० प्र० ।
“अभेदस्तादात्म्य तच्च स्ववृत्त्यसाधारणो धर्मः ।
असाघारणत्वं चैकमात्रवृत्तित्वम् । एकमात्रवृत्तित्वञ्च
स्वमामानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन
भेदविशिष्टं यत्तदन्यत्वम् । इत्येकमात्रवृत्तिधर्म एव विशेषण-
विभक्त्यर्थः । वृत्तिश्च तत्र प्रकृत्यर्थस्य संसर्गमर्य्यादया
आघारादीनां मुख्यकालीनत्वं स्यात् एवमनुयाजमात्र-
स्योत्कर्षे तदूर्द्ध्वभाविनां सूक्तवाकसंवाकादीनां मुख्यकाली-
धर्मत्वादिना सामान्यप्रत्यासत्त्या सुज्ञेयत्वमेव । अभेदस्य
संसर्गतामतेप्येतादृशानुगतभेदस्यैव तथात्वमुचितम् । तत्त-
द्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य विशेष्य तथात्वे घटो
न नील इत्यादि वाक्यजन्यबोधे प्रतियोग्यभावान्वयी-
तुल्ययोगक्षेमावितिन्यायेन तादृशानुगतसम्बन्धावच्छिन्न-
प्रतियोगिताकाभावा एव भासेरन् नीलादिवृत्तिप्रति-
योगिताकैकैकाभावः । तथा सति तादृशैकैकावभाव तात्प-
पर्य्येण प्रयुक्तस्य नीलोपि न नील इति वाक्यस्य
प्रामाण्य स्यात्” व्युत्प० गदा० “सत्यैक्ये मिथोभेदस्ता-
दात्मम् तच्च तत्सत्तातिरिक्तसत्ताकत्वाभावः” वेदा० प०
“तदात्मनोपि निषिध्यमानत्वे तन्निषेधात्मके तदात्मनि
जगत्प्रवेशात् । न हि घटः पटात्मेत्यनेन घटस्वरू-
पादन्यस्तदात्मा विहितः स्यात् यदि तु तादात्म्यं नामा-
भेदाख्यो धर्मः कश्चिदिष्यते स घटपटद्यधिकरणतया
निषिध्यते तदा संसर्गाभाव एव स्यात् । तस्मान्निर्विशेषण
तदात्मान्तर्भूतं जगदिति कोट्यन्तराभाव इति” । श्रीह-
र्षखण्डने अन्योन्याभावखण्डने उक्तम् ।

तदात्व न० तदेत्यस्य भावः तदा + त्व । तत्काले अमरः ।

“तदात्वायतिसंयुक्तः सन्धिर्ज्ञेयो द्विलक्षणः । “तदात्वे
चाल्पिकां पीडां तदा सन्धिं समाश्रयेत् “आयत्य०
गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः” इति च मनुः ।

तदादितदन्तन्याय पु० न्यायभेदे अन्तभूतस्य कर्त्तव्यत्वे

शास्त्रतः प्राप्ते आदिभूतस्योत्कर्षेण विधानबोधके न्यायभेदे ।
स च न्यायः जैमि० पञ्चमस्य प्रथमे पादे दर्शितो यथा ।
अग्नीषोमीयपशौ श्रूयते “तिष्ठन्तं पशुं प्रयजन्तीति” ।
अत्र प्रकृतौ पशुमारणानन्तरं हविष्यासादिते
पश्चात् प्रयाजादय इज्यन्ते इति विकृताविहापि
पशुमारणानन्तरं हविष्यासादिते प्रयाजाः प्राप्ताः ते च
तिष्ठन्तमिति वचनात् जीवत्येव पशौ अपकृष्यन्ते ।
तथा सवनीयपशौ अनुयाजानामुत्कर्षः श्रूयते यथा अग्नि-
लाभादूर्द्ध्वमनुयाजेश्चरन्तीति । अत्र संशयः । प्रयाजमा-
त्रस्योत्कर्षः प्रयाजाद्यङ्गकलापस्यापकर्षः अनुयाजाद्य-
ङ्गकलापस्योत्कर्षो वा इति । श्रुतयोरेव प्रयाजानुया-
जयोरपकर्षोत्कर्षौ नतु तदाद्यन्तकलापयोस्तदङ्गप्रयाजा
पूर्वभाविनामाघारसामधेन्यादीनां तदाद्यपकर्षेऽत्यन्तव्यव-
हितत्वेन प्रधानकालीनत्वं न स्यात् प्रयाजमात्रापकर्षे तु
पृष्ठ ३२१७
भासते । तादृशश्च धर्मस्तद्व्यक्तित्वादिरूप एव । अपूर्वव्यक्ति-
निष्ठ तादृशधर्मस्य विशेष्य ज्ञातुमशक्यत्वेऽपि एकमात्रवृत्ति-
मत्वं स्यात् एवमनुयाजमात्रोत्कर्षे तदूर्द्ध्वभाविनां सूक्त-
वाकसम्प्रवाकादीनामुत्कर्षात् प्रधानसन्निधिर्न विलुप्यते
तस्मात् प्रयाजमात्रस्योत्कर्षः तथा च सूत्रम् “अङ्गानां
मुख्यकालत्वात् यथोक्तमुत्कर्षः स्यात्” । अङ्गानां मुख्य-
कालकर्त्तव्यत्वानुरोधात् यथोक्तस्यानुयाजमात्रस्योत्कर्ष
इति प्राप्ते ब्रूमः । प्रकृतियागे सक्रमपदार्थानुष्ठानस्य
कॢप्तत्वात् विकृतावपि सक्रमाणां पदार्थानामतिदेशात्
क्रमरूपाङ्गवाधस्यान्याय्यत्वात् उत्तरकालकर्त्तव्यकर्मपदा-
र्थस्यानुपस्थित्यानुष्ठानविलोपापत्तेः तदुक्तम् पूर्वेणीप-
स्थितं कार्य्यमुत्तरं कर्मचोदनात् । प्राप्तं तदन्यथा
भावे क्रमलोपाद्विलुप्यते” । तस्मात् प्रयाजापकर्षे तदङ्ग
कलापस्यापकर्षः, अनुयाजोत्कर्षे तदाद्यङ्गकलापस्योत्-
कर्ष”, इति तत्त्वबौ० । अनया दिशा मासिकानां
सक्रमाणां करणे उत्कर्षापकर्षौ कल्पनीयौ ।

तदानीम् अव्य० तस्मिन् काले--तद् + दानीम् विभक्तित्वात्

अ । तदेत्यर्थे । “तदानीमपि पार्श्ववर्त्तिनाम्” भाग०
५ । ८ । ३१ । तत्र भवः ट्युल् तुट् च । तदानीन्तन तत्र भवे
त्रि० स्त्रियां ङीप् ।

तदाप्रभृति त्रि० तदा तत्कालः प्रभृतिरादिर्यस्य

तदाशब्दस्य सप्तम्यर्थवृत्तेरपि कथञ्चित् प्रथमार्थवृत्तिता । तत्
कालादिके “तदाप्रभृत्येव विमुक्तसङ्गः” कुमा० ।

तदामुख त्रि० तदा मुखं यस्य । प्रारब्धे ।

तदित् त्रि० तदेति इण--क्विप् तुक् । तद्विषयके स्तोत्रे ।

“वयमु त्वा तदिदर्थाः” ऋ० ८ । २ । १६ यद्विषयकं स्तोत्रं
तदित् तदेवार्थः प्रयोजनं येषाम्” भा० ।

तद्गत त्रि० तत् गतः । १ तत्परे २ तदासक्ते च । तद्गतेनैव

मनसा” रामा० वा० २ अ० । “शुचिस्तद्गतमानसः” गीता

तद्गुण त्रि० तस्य गुण इव गुणोऽस्य । १ तत्तुल्यगुणके

२ अर्थालङ्कारभेदे पु० ३९९ पृ० लक्षणादि दृश्यम् । ६ त० ।
१ तस्य गुणे पु० । “तद्गुणसारत्वात्” शा० सू० । तत्र
प्रधाने गुणः विशेषणम् । ४ प्रधानविशेषणे तद्गुण-
संविज्ञानः ।

तद्गुणसंविज्ञान पु० तत्र बहुव्रीहौ गुणस्य गुणीभूतस्य

विशेषणस्य संविज्ञानं विशेष्यपारतन्त्र्येण बोधनं यत्र ।
व्याकरणोक्ते बहुब्रीहिसमासभेदे । भवति च लम्बकर्ण-
मानयेत्यादौ गुणीभूतस्य कर्णस्याप्यानयने पारतन्त्र्येणा-
न्वयवोधः । शब्द० प्र० स्वमते तल्लक्षणादिकमुक्त्वा
प्राचीनमतसिद्धमप्युक्तं यथा “तदतद्गुणसंविज्ञानौ
द्वौ भेदौ तदादिमः । विग्रहस्य विशेष्यो यस्त-
द्विशेष्यकबोधकृत्” । तद्गुणसंविज्ञानोऽतद्गुण-
संविज्ञानश्च बहुव्रीहेर्द्वौ भेदौ । तत्र विग्रह-
वाक्यस्य विशेष्यविधया प्रत्याय्योयोऽर्थस्तद्विशेष्यक-
बोधकृद्बहुब्रीहिः तयोरादिमस्तद्गुणसंविज्ञानस्तस्य
स्वार्थगुणीभूतस्य सम्यग्विविशेष्यविधया विज्ञानं यस्मा-
दिति व्युत्पत्त्या सान्वयसंज्ञकत्वात् । तद्भिन्नश्चातद्गुण-
संविज्ञानश्चरमः इत्यर्थाद्गम्यते । घटस्वरूपः पदार्थः इत्या-
दितोहि घटः स्वरूपं यस्येति विग्रहस्थले स्वस्वरूपा-
भिन्नघटसम्बन्धित्वेन घटाभिन्नस्वस्वरूपसम्बन्धित्वेन
वा विग्रहविशेष्यं कलसमेव विशेष्यविधया बोध्यते
घटस्य स्वरूपं यस्मादिति विग्रहे च विग्रहस्य यद्विशेष्यं
ततोऽन्यदेव स्वजन्यस्वरूपाभिन्नघटसम्बन्धित्वेन । कुटादि-
र्गण इत्यादिरपि कुट आदिर्यस्येति व्युत्पत्त्या कुटा-
भिन्नस्य स्वधर्मिकव्यवस्थाधर्मिणः सम्बन्धित्वेन धात्व-
न्तरमिव कुटमपि बोधयंस्तद्गुणसंविज्ञान एव
बहुव्रीहिः । प्राचां मतेन तद्गुणसंविज्ञानबहुब्रीहिम-
न्यथा निर्वक्ति । “यः स्वार्थघटकार्थस्य खार्थान्वयिनि
बोधने । अनुकूलो बहुब्रीहिः स तयोरथवादिमः” ।
यो बहुब्रीहिः स्वार्थस्यान्वयिनि स्वार्थघटकस्याप्यर्थ-
स्यान्वयबोधने समर्थः स तयोस्तदतद्गुणसंविज्ञा-
नयोरादिमः । लम्बकर्णमानय हारग्रीवं पश्येत्यादौ
हि बहुव्रीहिर्लम्बस्वकर्णसम्बन्धिनः स्वग्रीवावृत्तिहार-
सम्बन्धिनश्च स्वार्थस्यान्वयिनि कर्मत्वादौ स्वार्थघटकी-
भूतस्य तादृशकर्णहारादेरपि व्युत्पत्तिवैचित्र्येणान्वय-
बोधगे समर्थ इत्येवंविध एव तद्गुणसंविज्ञानस्तद्भिन्न
एव चार्थादतद्गुणसंविज्ञानः । यथा दृष्टसागरमानय
इत्यादाविति

तद्दिन न० कर्म्म० । “तस्मिन् दिने । तद्दिनं स्यादनध्यायं

व्रतं तत्र न कारयेत्” मल० त० । १ दिनमध्ये २ प्रतिदिने
च मान्तम् अव्य० शब्दार्थ चि० ।

तद्धन त्रि० तदेव धनं यस्य । १ कृपणे हेमच० स हि

सर्वमेव धनमपर्य्याप्ततयावधार्य्य आत्मनि तद्धनत्वमेवाभि-
मन्यते कर्म्म० । २ तस्मिन् धने न० ।

तद्धर्म्मन् त्रि० स धर्म्म यस्य अनिच् समा० । तथाभूतधर्म्म-

युक्ते । “आक्वेस्तच्छीलतद्धर्म्म तत्साधुकारिषु” पा०
पृष्ठ ३२१८

तद्धित त्रि० तस्मै हितम् । १ तस्मै हिते । २ व्याकरणोक्ते

प्रत्ययभेदे पुंन० । “तद्धिताः ४ । १ । ७६ पा० सूत्रेणा-
धिकृत्य “यूनस्तिः” इत्यादिना पञ्चमाध्यायसमाप्तिं
यावद्ये प्रत्यया विहितास्ते तद्धितसंज्ञकाः ।
शब्द० प्रका० तल्लक्षणादिकमुक्तं यथा
“विभक्त्यादित्रिकादन्यः प्रत्ययस्तद्धितं मतम् । नामप्रकृ-
तिको नैवमतिव्याप्त्यादिदोषतः” । “विभक्तिधात्वंशकृ-
द्भ्योऽन्यः प्रत्ययस्तद्धितः । वृक्षक इत्यादौ ह्रस्वाद्यर्थकः
कादिरपि तद्धितमेवेति । तदन्यत्वेनापि प्रत्ययं विशेषय-
न्त्यन्ये । नामप्रकृतिकप्रत्ययत्वन्तु न तद्धितस्य लक्षणं
विभक्तौ क्यजादौ चातिव्याप्तेः पचतितरामित्यादौ
तरामाद्यव्याप्तेश्च” । विभजते । “तस्यापत्यं तद्विशेषस्तदृक्षेण
युतेन्दुमान् । कालस्तथा तेन रक्तं तस्य व्यूहोऽथ वेत्ति
तत् । अधीते वा देवताऽस्य सैवमादीन् यथायथम् ।
वोधयद्विविधानर्थांस्तद्धितं स्यादनेकधा” तेनास्य क्लीवत्व-
मपि “तद्धितस्याचामादेः” । “तद्धितश्चासर्वविभक्तिः”
पा० । “समासतद्धितकृतां यत्किञ्चिदुपदर्शकम् । गुणप्र-
धानभावे च तस्य दृष्टो विपर्य्ययः” हरिकारिका । स च
तद्धितो द्विविधः प्रकृत्यर्थभिन्नार्थकः स्वार्थिकश्चेति भेदात् ।

तद्बल पु० तस्मिन् बलं यस्मात् । १ वाणभेदे “क्षुरप्रतद्बलार्द्धे-

न्दुतारामुख्याश्च तद्भिदः” हेम० । अस्य स्त्रीत्वोक्तिः प्रामा-
दिकी “पुमान्” इत्यधिकारे “देवासुरात्मस्वर्गगिरिसमुद्रनख
केश दन्त स्तन भुज कण्ठ खड्ग शरपङ्काभिधानानि”
पा० “पुंस्त्वे सभेदानुचराः सपर्य्यायाः सुरासुराः ।
स्वर्गयागाद्रिमेघाब्धिद्रुकालासिशरारयः” अम० च पुंस्त्वोक्तेः

तद्भाव पु० तस्य भावः असाधारणधर्मः प्राप्तिर्वा । १ तस्यासा-

धारणे धर्मे यथा वटे घटत्वम् । गोर्गोत्वम् । २ तद्रूपप्राप्तौ
च “अभूततद्भावे च्विः” “पयसस्तद्भावात्” कात्या० श्रौ०
४ । ३ । २३ सू० । ७ त० तस्मिन् भावः तद्विषयकचिन्तने
“सदा तद्भावभावितः” गीता ।

तद्राज पु० तस्य राजा टच् । १ तस्य नृपतौ २ तदर्थविहिते

तद्धितप्रत्ययभेदे च । “ते तद्राजाः” पा० ते अञादय-
स्तद्राजसंज्ञकाः स्युः “ञ्यादयस्तद्राजाः” पा० “पूगात्
ञ्य इत्यारभ्य उक्ताः तद्राजसंज्ञका स्युः” सि० कौ० ।
तद्राजस्य बहुषु अस्त्रियाम् लुक् ।

तद्र अवसादे मोहे च सौ० पर० अक० सेट् इदित् । तन्द्रति

अतन्द्रीत् । तन्द्रा

तद्र्यञ्च(च्) त्रि० तदञ्चति गच्छति पूजयति वा--अन्च्--गतौ

पूजायां वा क्विप् टेरद्र्यादेशः पूजार्थत्वे न नलोपः ।
१ तद्गामिनि २ तत्पूजके च ।

तद्वत् अव्य० तेन तुल्यं या तुल्या सा चेत् क्रियेत्यर्थे वति ।

१ तत्सदृशक्रियावति । तस्येव तत्रेव वा इत्यर्थे वति ।
२ तत्तुल्येऽर्थे यथा तद्वत् शिवस्य विभुता, तद्वत् शिवे भक्ति-
रित्यादि । “तद्वत्तादृशि च स्थितम्” स्वाङ्गलक्षणम् ।
“चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।
तद्वद्विना विशेषैर्न तिष्ठते निराश्रयं लिङ्गम्” “पुरुषस्य
मोक्षार्थं प्रवर्त्तते तद्वदव्यक्तम्” सा० का० । “क्षत्तृवैदे-
हकौ तद्वत् प्रातिलोम्येऽपि जन्मनि” मनुः । तद् अस्त्यर्थे
मतुप् मस्य वः । ३ तद्विशिष्टे त्रि० “तद्वानपोहो वा
शब्दार्थः” काव्य० प्र० “द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये” ।
“अथ वा तत्प्रकारं यज्ज्ञानं तद्वद्विशेष्यकम्” भाषाप०
स्त्रियां ङीप् । तस्य भावःतल् । तद्वत्ता तद्विशिष्टत्वे
स्त्री “पदार्थे तत्र तद्वत्ता योग्यता परिकीर्त्तिता” भाषा० ।

तद्विध त्रि० सा विधा प्रकारो यस्य । तत्प्रकारे “धर्म्मार्थौ

यत्र न स्यातां शुश्रूषा वापि तद्विधा” मनुः । “क्व तद्वि-
धात्वं क्व च पुण्यलक्षणा” कुमा० ।

तन विस्तृतौ तना० उभ० सक० सेट् । तनोति तनुते अतानीत्

अतनीत् अतत--अतनिष्ट ततान तेनतुः तेने । उदित्
तनित्वा तान्त्वा । ततः वितानः । “तनोति भानोः
परिवेषकैतवात्” नैष० । “आचार्य्यस्तनुते विवृतिमिमां
दायभागस्य” । दायभागटीका “ततान सोपानपरम्परा-
मिव” रघुः । “यस्य तस्य विना षष्ठीं तेनेति करणं
विना” उद्भटः । “तेनिरेऽभिरुचितेषु तरुण्यः” माघः
“स तमीं तमोभिरभिगम्य तताम्” माघः “तन्वता
प्रथमतादृशि रागम्” माघः ।
अति + अतिशयविस्तारे । अतितत् । “तन्ततोऽतितता-
तितुत्” माघः ।
  • वि + अति + व्यतितहारेण विस्तारे आत्म० “वियति व्यत्यत-
न्वातां मूर्त्ती हरिपयोनिधी” भट्टिः ।
  • अधि + आरोप्य विस्तारे । “धनुरधितनोति” शत० ब्रा० ५ । ३ । ५ । ७ अ० ।
  • अनु + सन्ततविस्तारे पश्चाद्विस्तारे च “परिपाल्यानुतनुयादेष-
धर्मः सनातनः” भा० शा० १३३ अ० ।
  • अप + अधोविस्तारे । अपतानकः ।
  • अव + सन्ततविस्तारे “विशालमूलावततं पवनाम्भोदधारिणम्”
हरिवं० ८८ अ० ।
  • आ + दीर्घतया विस्तारे । आतानः (टाना देओया) सम्यग्-
पृष्ठ ३२१९
विस्तारे च “मौर्वी धनुषि चातता” रघुः । यदुत
पुनरात्मानुस्मृतिमोषणं मायामयभोगैश्वर्य्यमेवातनुत”
भाग० ५ । २४ । २२ “इदं ते लोभान्धस्य चेष्टितं चेतसि
चमत्कारमातनोति” प्रवोध० च० ।
  • वि + आ + विशेषेण विस्तारे । “व्यातेने किरणावलीमुदयनः” किरणावली ।
  • उद् + ऊर्द्ध्वतो विस्तारे उत्तानः ।
  • प्र + प्रकर्षेण विस्तारे । “फलं प्रकल्प्य पूर्वं हि ततो यज्ञः
प्रतायते” भा० शा० ९६१३ श्लो० । “तदुरीकृत्य कृति-
भिर्वाचस्पत्यं प्रतायते” माघः । पक्षे प्रतन्यते ।
  • वि + विशेषेण विस्तारे वितानः (पड़ान देओया) “यथा लूता
आतानवितानाभ्यामिति” वेदान्तप्र० ।
  • सम् + सम्यग्विस्तारे सन्तानः सन्ततिः सन्ततम् “सन्तता
शुशुभे भूमिः” रामा० स० १४ अ० ।

तन उपकारे श्रद्धायां आघाते च वा० चुरा० उभ० पक्षे भ्वा०

सक० शब्दे अक० सेट् । तानयति ते तनति अतीतनत् त
अतानीत् अतनीत् । व्युपसर्गात् दैर्घ्ये अक० दीर्घीक-
रणे सक० । वितानयति दीर्घो भवति दीर्घं करोति
वा । “वितानयति यः कीर्त्तिं वितनत्यमलं यशः”
कविरहस्यम् “अयं वेदे गणव्यात्यसात् दिवा० “घोषा घोषा-
दिन्द्राय तन्यति ब्रुवाणः” ऋ० ६ । ३८ । २ । “तन्यति
शब्दं करोति” भा० । चौरादिकस्य अदन्तत्वमिति
तनयित्नुशब्दार्थे माधवः तनयित्नुशब्दे दृश्यम् ।

तनय पुंस्त्री० तनोति कुलम् तन--कयन् । १ पुत्रे । २ दुहितरि,

३ चक्रकुल्यायां, (चाकुलिया) लतायां, ४ घृतकुमार्य्याञ्च
स्त्री टाप् । “अथैनमद्रेस्तनया शुशोच” कुमा० ।
तनयाशब्दस्य प्रियादिषु पाठात् पूर्वपदस्य न पुंवत् । तनया
जाता अस्य तनयाजातः इत्यादिः ।
५ लग्नावधिकपञ्चमस्थाने पु० । “जनयति तनयभवनमुप-
गतः” वृ० स० ।

तनयित्नु पु० चु० स्तन--शब्दे इत्नु पृषो० सलोपः अदन्तचुरा०

तन--शब्दे इत्नु माधवः । १ अशनौ “अग्निं पुरा
तनयित्नोरचित्तात्” ऋ० ४ । ३ । १ “तनयित्नुरशनिः” भा०
२ मेघे च “एकपात्तनयित्नुरर्णवः” ऋ० १० । ६६ । ११ ।
“तनयित्नुर्मेघः” भा० ।

तनस् पु० तनोति वंशम् तन--असुन् । पौत्रादौ “मा शेषसा

मा तनसा” ऋ० ५ । ७० । ४ । “तनसा पौत्रादिना” भा०

तना स्त्री तन--अच् टाप् । धने निघण्टुः ।

तनादि पु० पा० धातुपाठोक्ते धातुगणे । स च धातु-

पाठे वोपदेवेन तत्सूचकं द इत्यनुबन्धयुक्ततया पठितः
“तनादिकृञ्भ्यौः” । “तनादिभ्यस्तथासोः” पा० । तनादौ
गणे पठितः ठक् । तानादिक तद्गुणपरिते धातौ ।

तनिका स्त्री तन्यते धातूनामनेकार्थत्वात् बध्यते अनया

करणे इन् संज्ञायां कन् कापि अतैत्त्वम् । बन्धन-
रज्वौ शब्दार्थचि० ।

तनिमन् पु० तनोर्भावः तनु + इमनिच् । १ तनुत्वे, २ कार्श्ये

च । “विरलातपस्तनिमानमभजत” काद० । तनयति तनुं
करोति तनु + णिच् इमनिच् डिद्वद्भावे टिलोपः ।
३ यकृति । “अथ पार्श्वयोरथ तनिम्नोऽथ वृक्वयोः” शत०
ब्रा० ३ । ८ । ३ । १७ । “तनिम्नः यकृतः” भा० तस्य
तनूकरणात् तथात्वम् ।

तनिष्ठ त्रि० अयमनयोरतिशयेन तनुः तनु + इष्ठन् डिद्व-

द्भावः । द्वयोर्मध्ये एकस्मिन् अतिशयेन तनौ । वेदे
बहुभ्यो निर्द्धारणेऽपि इष्ठन् । २ बहूनां मध्येएकस्मिन्,
अतिशयेन तनौ च “एतेषां लोकानां अन्तरिक्षलोक-
स्तनिष्ठः” शत० ब्रा० ७ । १ । २ । २० । लोके तु तत्रार्थे
ईयसुन् तनीयानित्येव ।

तनीयस् त्रि० बहूनां मध्येऽयमतिशयेन तनुः ईयसुन्

डिद्वत् । बहूनां मध्ये एकस्मिन् अतिशयेन तनौ
“पक्षपुच्छानि तनीयांसीव” शत० ब्रा० ८ । ७ । २ । १ स्त्रियां
ङीप् ।

तनु स्त्री तनोति कर्म कार्श्यं वा तन--उन् । शरीरे अमरः

२ त्वचि राजनि० । “तनुभिरवतुवस्ताभिरष्टामिरीशः”
शकु० । “तनौ ममुस्तत्र न कैटभद्विषः” “वभार वाष्पैर्द्वि-
गुणीकृतं तनुः” माघः । वा ऊङ् । तनूः इत्यपि तत्रार्थे
तनूजः । ३ कृशे ४ अल्पे ५ विरले च त्रि० मेदि० । “तनुलोम-
केशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम्” मनुः । स्त्रियां वा ङीप्
तन्वी । “तव तन्वि! कुचावेतौ नियतं चक्रवर्त्तिनौ” उद्भटः ।
सा च ६ कृष्णभार्य्याभेदे “शैव्यस्य च सुतां तन्वीं रूपेणा-
प्सरसां समाम्” हरिवं० ११८ अ० । “भूतमुनीनैर्यति-
रिह भतनामतभौ भतनाश्च यदि भवति तन्वी” वृ० र०
उक्ते चतुर्विंशत्यक्षरपादके ७ छन्दोभेदे च तनोर्भावः तल्
तनुता कार्श्ये स्त्री “तनुतां दुःखमनङ्ग मोक्ष्यति” कुमा०
“सर्वाणि तनुतां यान्ति जलानि जलदक्षये” हरिवं०
३८२५ । त्व तनुत्व तत्रार्थे न० । योगशास्त्रोक्तेषु दग्धवीजभा-
वेषु अप्ररोहापन्नेषु ८ अस्मितादिषु “अविद्या क्षत्रमुत्तरेषां
प्रसुप्ततनुविच्छिन्नोदाराणाम्” पात० सू० । “दग्धवी-
पृष्ठ ३२२०
जानामप्रवरोहस्तनुत्वमुच्यते प्रतिपक्षभावनोपहताः
क्लेशास्तनवो भवन्ति” भा० । तेन प्रतिपक्षभावनया
अस्मितादिक्लेशानां तनुत्वात् तनुसंज्ञेति तदर्थः ।
ज्योतिषोक्ते स्त्री ९ लग्नस्थाने स्त्री० । “तनुनिधनखभेशाः
केन्द्रकोणे त्रिलाभे” जातकाल० । स्वार्थे क । तनुक
तनुशब्दार्थे ।

तनुक्षीर पु० तनु अल्पं क्षीरं निर्यासोऽस्य । आम्रातके राजनि०

तनुच्छद पु० तनुं देहं छादयति छादेर्घः ह्रस्वश्च । १ कवचे

वर्मणि । “तरुपलाशसवर्णतनुच्छदः” “मातलिस्तस्य
माहेन्द्रमामुमोच तनुच्छदम्” रघुः ।

तनुच्छाय पु० तन्वी स्वल्पाछाया यस्य । १ वर्वुरकवृक्षे राजनि० । ६ त०

२ देहच्छायायां स्त्री । तन्वी अल्पा च्छाया यस्य । ३ अल्प-
छायायुक्ते त्रि० । तन्वी छाया कर्म० । ४ अल्पच्छायायां स्त्री ।

तनुज पुंस्त्री० तनोर्देहात जायते जन--ड ५ त० । पुत्रे

हलायुधः २ कन्यायां स्त्री ३ लग्नावधिकपञ्चमस्थाने ज्यो०

तनुत्र न० तनुं त्रायते त्रै--क । वर्मणि “काण्डीरः

खाड्गिकः शार्ङ्गीरक्षन् विप्रांस्तनुत्रवान्” भट्टिः ।
“अक्षितारासु विव्याध द्विषतः स तनुत्रिणः” माघः ।

तनुत्राण न० तनुस्त्रायतेऽनेन त्रै--करणे ल्युट् । बर्मणि हारा०

तनुत्वच् स्त्री तन्वी त्वम् वल्कलं यस्याः । क्षुद्राग्निमन्थे

राजनि० । २ सूक्ष्मत्वग्युक्ते त्रि० ।

तनुपत्र पु० तनूनि कृशानि पत्राणि यस्य । १ इङ्गुदीवृक्षे

राजनि० । २ स्वल्पपत्रयुक्तवृक्षमात्रे त्रि० ।

तनुभव पु० तनोर्भवति भू--अच् ५ त० । १ पुत्रे “दृश्यते तनुभवः

शिशिरांशो” वृ० सं० १७ अ० । २ दुहितरि स्त्री

तनुभस्त्रा स्त्री तनोर्देहस्य भस्त्रेव । १ नासिकायाम् शब्द-

रत्ना० । कर्म० । क्षुद्रभस्त्रायाम् ।

तनुभृत् त्रि० तनुं बिभर्त्ति भृ--क्विप् ६ त० । देहधारिणि

“छायाफलं तनुभृतां शुभमादधाति” वृ० स० ६८ अ० ।

तनुमध्या स्त्री तनु कृशं मध्यं यस्याः । १ कृशमध्यायां स्त्रियां

२ षड़क्षरपादके छन्दोभेदे च । “तौ चेत् तनुमध्या” ।
“मूर्त्तिर्मुरशत्रोरत्यद्भुतरूपा । आस्तां मम चित्ते नित्यं
तनुमध्या” छन्दोम० । ३ अल्पमध्यके त्रि० ।

तनुरस पु० तनो रस इव । घर्मे हारा० ।

तनु(नू)रुट् न० तनौ तन्वां वा रोहति रुह--क्विप्

७ त० । लोमनि शब्दर० ।

तनु(नू)रुह न० तनौ तन्वां वा रोहति रुह--क ७ त० । लोमनि शब्दर० ।

तनुल त्रि० तन--उलच् । विस्तृते संक्षिप्तसा० ।

तनुवात पु० तनुरल्पो वातोऽत्र । १ नरकभेदे हेमच० । २ अल्पवातस्थाने त्रि० ।

तनुवार न० तनुं देहं वृणोति वृ--अण् उपस० । कवचे सन्नाहे

शब्दार्थचि० ।

तनुवीज पु० तनूनि कृशानि वीजानि यस्य । १ वीजवदरे । राजनि० २ स्वल्पवीजयुक्ते त्रि० ।

तनुव्रण पु० तनुरल्पो व्रणो यतः । बल्मीकरोगे शब्दर० ।

तनुस् न० तन--उसि । देहे उणादिको० ।

तनुसञ्चारिणी स्त्री तनु अल्पं सञ्चरति सम् + चर--णिनि

ङीप् । १ वालिकायां शब्दार्थचि० । २ अल्पसञ्चारयुक्ते त्रि० ।

तनुसर पु० तनोः सरति सृ--अच् ५ त० । स्वेदे घर्म्मे

शब्दार्थचि० ।

तनुह्रद पु० तनो र्ह्रद इव । पायौ त्रिका० ।

तनू पु० तनोति कुलं तन--ऊ । १ पुत्रे । “ता वां विश्वको नुवते

तनूकृथे” ऋ० ८ । ८६ । १ ॥ “तनोति तनूः पुत्रः” भा०
तनोति कर्म उन् ऊङ् । २ शरीरे अमरः । ३ प्रजापतौ
४ गवि ५ अप्सु च तनूनपाच्छब्दे दृश्यम् ।

तनूकृ अतनुं तनुं करोति तनु + अभूततद्भावे च्वि कृञोऽनु-

प्रयोगः अल्पीकरणे तनूकरोति “लज्जां तनूकृत्य नरेन्द्र-
कन्या” रघुः । “समाधिभावनार्थः क्लेशतनूकरणार्थश्च”
पात० सू० । “तनूकृद्बोधि प्रमतिश्च कारवे” ऋ० १ । ३१ । ९

तनूकृत त्रि० तनूकृ--कर्मणि क्त । १ तष्टे २ अल्पीकृते च अमरः ।

तनूज पु० तन्वाः देहात् जायते जन--ड़ ५ त० । १ पुत्रे

२ कन्यायां स्त्री । “समादिदेश प्रयतां तनूजाम्” कुमा०
तनूजनि तनूजात तनूजन्मादयोऽप्यत्रार्थे यथायथं पुंस्त्री

तनूद्भव पु० तनोरुद्भवति उद् + भू--अच् ५ त० । १ पुत्रे २ दुहि-

तरि स्त्री । “पञ्चभूतपरित्यक्तं शावं तं स्वतनूद्भवम्”
हरिवं० २० अ० ।

तनूनप न० तन्वा ऊनं कृशं पाति--पा--क । घृते शब्दच० तनूनपात् ।

तनूनपात(द्) पु० तनूं न पातयति पत--णिच्--क्विप्

नभ्राङित्यादिना नञोन नलोपः । तनूनं पाति
रक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपं
घृतं तदत्ति अद--क्विप् वा । अग्न्रौ, जठरस्थित्या
भुक्तान्नादिपाचनादस्य देहापातकत्वम् । शतृपक्षे तनून-
पान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः ।
२ घृते न० ६ त० । ३ प्रजापतिपौत्रे । “नराशंसः प्रतिशूरोमि-
मानस्तनूनपात् प्रतियज्ञय्य धाम” यजु० २० । ३७ तनून-
पात् तनोति विस्तारयति सृष्टिं तनूः प्रजापति
र्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वा
तनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेति
पृष्ठ ३२२१
तनूनपात् अग्निः यद्वा तनोति भोगानिति तनूः
गौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते
पयसआज्यमिति घृतं तनूनपाद्वा” वेददी० निरुक्ते अस्य
निरुक्तिर्दर्शिता यथा “तनूनपादाज्यं भवति नपादित्यन-
नन्तरायाः प्रजाया नामघेयं भवति गौरत्र
तनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयस
आज्यं जायते । अग्निरिति शाकपूणिरापोऽत्र तन्व
उच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो
जायन्त ओषधिवनस्पतिभ्य एष जायते । तस्यैषा भवति ।
“तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदया
सुजिह्व” निरु० ८ । ६ । अग्न्युद्देश्यके ४ प्रयाजभेदे च ।
तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानां
पयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इति
भेदः यथोक्तं आश्व० श्रौ० १ । ५ । ६ “प्रयाजैश्चरन्ति” “पञ्चैते
भवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायण-
स्यापि पञ्चैव भवन्ति न षड़ेत्येवमर्थम् । एत इति वचनम्
अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्च
भवन्ति नापठितेन सहेत्येवमर्थम्” नारा० । ये यजामहे
इत्युपक्रमे “समिधः अग्न आज्यस्य व्यन्तु ३ वौ३ष-
ड़िति वषट्कारः १५ सू० । “इति प्रथमः” १६ सू० ।
“त्ययं प्रथमः प्रयाजः” नारा० “तनूनपादग्न आज्यस्येति
वेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः” ।
२१ सू० । “नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्” २२ ।
सू० “वसिष्ठादीनामयं द्वितीयः” नारा० “इडो अग्न
आज्यस्य व्यन्त्विति तृतीयः” । २३ सू० । “सर्वेषामिति शेषः”
नारा० “वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमे
स्वाहाऽमुं स्वाहासुमिति” २४ सू० इत्यादि । वसिष्ठादिभि-
न्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वा-
हाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम् ।
वसिष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः । अतएव
श्रुतौ “समिधो यजति तनूनपातं यजति इडो
यजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताः
वसिष्ठादिभिन्नषरतया व्यवस्याप्याः । “बभार वाष्पैर्द्विगुणी
कृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः । “तनूं
न पातयति जाठररूपेण धारयतीति” मल्लि० ।

तनूनप्तृ न पातयति नप्ता ६ त० । वायौ तनोति तनूः

परमात्मा आकाशस्तस्य पुत्रो वायुस्तस्य नप्ता पौत्रः
वायुहि आत्मजाताकाशजातत्वात् ब्रह्मपौत्रः “तखाद्वा
एतस्मादात्मन आकाशः सम्भूत, आकाशाद्वायुः” इति
श्रुतेस्तस्य तथात्वम् । “तनूनप्तुरेव शाक्वरस्येति
यो वा अयं पवत एष तनूनपाच्छाक्वरः सोऽयं
प्रजानामुपद्रष्टा प्रविष्टस्ताविमौ प्राणोदानौ” शत० वा०
३ । ४ । २ । ५ “तन्वा देहस्य नपातयिता रक्षको देवस्तनूनप्ता
अथवा सर्वतनूरात्मा प्रजापतिः तस्याकाशः पुत्रः तत्
पुत्रो वायुरिति तनूनप्ता वायुः स च शाक्करः शक्तः सर्वं
कर्त्तुम्” । भा०

तनूपा पु० तनूं पाति पा--क्विप् । ६ त० । जठराग्नौ

जठरानले “तनूपा अग्नऽसि तन्वं मे पाहि” यजु०
३ । १७ जठरानलेन भुक्तान्ने जीर्णे रसवीर्य्यादिपाके
सति देहपालनं भवतीति तस्य तथात्वम् । तन्वमिति
छान्दसः प्रयोगः । २ देहपालकमात्रे च “असन्न उग्रो-
ऽविता तनूपाः” ऋ० ४ । १६ । २० “तनूपाः इन्द्रः” भा०

तनूरुह न० तनौ रोहति रुह क । १ लोमनि २ पक्षिणां पक्षे

च मेदि० । “तनुमुत्फुल्लतनूरुहीकृतामिति” नैषधम् ।
३ पुत्रे ४ गरुति ५ लोमनि च पु० हेमच० । “कुक्कुटस्तनु
तनूरुहाङ्गुलिः” वृ० स० ६३ अ० । “तस्य तद्वचनं
श्रुत्वा सम्प्रहृष्टतनूरूहः” भा० आ० १०० अ० । “वला-
हकाञ्जननिभं वराहकतनूरुहम्” हरिवं० ४३ अ० ।

तनूर्ज पु० मनुभेदोत्तमपुत्रे नृपभेदे । “औत्तभेयान्

महाराज! दश पुत्रान् मनोरमान् । इष ऊर्जस्तनूर्जश्च
मधुर्माधव एव च” हरिवं०७ अ० ।

तनूहविस् न० वैद्रिकेषु तनूरूपेषु हविःषु । “द्वादशा-

हान्ते तनूहवींषि निर्वपति” कात्या० श्रौ० ४ । १० । ७ ।
“तनूहवींषि अग्नये पवमानायेत्यादीनि निर्वपति” कर्कः
तानि च “अग्नवे पवमानाय प्रथमा” ८ सू० “अग्नये
पावक्रायाग्नये शुचये च द्वितीया” ९ सू० “अदित्यै
चरुस्तृतीया” १० । इत्युक्तानि

तन्च गतौ भ्वा० पर० सक० सेट् । तञ्चति अतञ्चीत् । ततञ्च

ततचतुः तक्तः । तच्यते । उदित् । तञ्चित्वा तक्त्वा ।

तन्च सङ्कोचे रुधा० पर० सक० सेट् । पाणिनीयगणे अन्ज

साहचर्य्यादयं वेड़ेव वोपदेवगणे उदित्करणं प्रामादि-
कम् किन्तु ऊदिदेव । तनक्ति अतञ्चीत् अताङ्क्षीत् ।
ततञ्च । “तनच्मि व्योम विस्तृतम्” भट्टिः ।
  • आ + आतञ्चनशब्दोक्तार्थेषु (दम्बलदेओया) “इन्द्रस्य त्वा भागं
सोमेनातनच्मि” यजु० १ । ४ । “उद्वाथातनक्ति प्राग्घुत-
शेषेणेन्द्रस्यत्वेति” कात्या० श्रौ० ४ । २ । २३ “तां दुग्धस्थालीमुत्त-
पृष्ठ ३२२२
रत उद्वास्य प्राग्घुतशेषेण पूर्वदिने कृताग्निहोत्रशेषेण दध्ना
दुग्धमातनक्ति अवशिष्टं दधि दुग्धमध्ये प्रक्षिपति
दधित्वसम्पत्त्यर्थम्” कर्कः । १ भयहेतुकसङ्कोचे च न्यङ्क्वा०
कुत्वम् आतङ्कः । आतङ्क्यम् ।

तन्ज सङ्कोचे रुधा० पर० सक० । पाणिनीयगणे (तन्चू)

इत्यत्र तन्ज् इति पाठान्तरम् अयमूदित्त्वात् वेडेव ।
तनक्ति अतञ्जीत् अताङ्क्षीत् । ततञ्ज ।

तन्तस् दुःखे कण्ड्वा० अक० पर० सेट् । तन्तस्यति अतन्तस्यीत् अतन्तसीत् ।

तन्ति स्त्री तन--कर्मणि क्तिच् वेदे दीर्घनलोपा-

भावौ । १ दीर्घप्रसारितायां रज्वाम् । “वत्सानां
न तन्तयस्त इन्द्र”! ऋ० ६ । २४ । ४ । “तन्तिर्नाम दीर्घ-
प्रसारिता रज्ज्वुः” भा० लोके तु ततिः तातिरित्येव
क्वचिदार्षेऽपि तथा । “साऽसज्जत शिचस्तन्त्यां महिषी
कालयन्त्रिता” भाग० ७ । २ । ५२ । २ गवां मातरि च
तन्तिपालः । वा ङीप् तन्ती गवां मातरि “तन्तीं
प्रसार्य्यमाणां वद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवां
मातेति गोपथब्रा० ३ । ६ । ७

तन्तिपाल पु० तन्तिं गोमातरं पालयति पालि--अण्

उप० स० । २ गोमातृपालके । अस्य “गोतन्तियवं पाले”
पा० आद्युदत्तता । २ सहदेवे च “तेषां गोसंख्य आसं
वै तन्तिपालेति मां विदुः” भा० वि० १० अ० । अत्र
तन्त्रिपालेति पाठान्तरं तदभिप्रायेण तन्त्रिं वशीभूततां
पालयतीति विग्रहेण तन्त्रिपालं वचनकरमिति
नीलकण्ठेनोक्तम् “तन्त्रिपाल इति ख्यात नाम्नाऽहं
बिदितस्तथा” भा० वि० ३९ अ० इत्यत्र तथैव पाठः ।

तन्तु पु० तन--तुन् । १ सूत्रे अमरः तन्तुवायः । तन्तुदामन-

पर्वणोः” नरसिं० पु० “तस्मिन्नोतमिदं प्रोतं विश्वं शाटीव
तन्तुषु” भाग० ९ । ९ । ७ । “तिरष्क्रियन्ते कृमितन्तुजालैः”
रघुः । २ ग्राहे हेम० । ३ सन्ताने “तेषामुत्पन्नतन्तूनामपत्यं
दायमर्हति” मनुः । “संवेष्टमानं बहुभिर्मोहात्तन्तुभिरा-
त्मजैः । कोषकार इवात्मानं वेष्टयन्नावबुध्यसे” भा०
शा० ३३१ अ० ।

तन्तुक पु० तन्तुनेव कायति कै--क । १ सर्षपे २ नाड्यां स्त्री गौरा० ङीष् ।

तन्तुकाष्ठ न० तन्तुयुक्तं काष्ठम् । (ताँतेर काटि) तन्तु-

वायोपकरणे तन्त्रकाष्ठभेदे शब्दर० ।

तन्तुकीट पु० तन्तोः तन्त्वर्थं कीटः । (गुटीपोका) कीटभेदे जटाधरः ।

तन्तुन पु० तन--बा० तुनन् । १ ग्राहे (हाङोर) ख्याते

जलजन्तुभेदे हेम० ।

तन्तुनाग पु० तन्तुर्नाग इव । वृहद्ग्राहे त्रिका० ।

तन्तुनाभ पु० तन्तुर्नाभावस्य अच् समा० । (माकड़सा) ल्तायाम्

तन्तुनिर्य्यास पु० तन्तुरिव निर्य्यासो यस्य । तालवृक्षे ।

शब्दर० ।

तन्तुपर्वन् न० तन्तोः यज्ञोपवीतसूत्रस्य दानरूपं पर्व यत्र ।

चान्द्रश्रावणपौर्णमास्याम् तद्दिने हि वामनाय यज्ञोप-
वीतदानोत्सवः स्मृतौ विहितः । राघवभट्टधृतनारसिंह
वचनम् । “शिष्यस्त्रिजन्मदिवसे संक्रान्तौ विषुवायने ।
सत्तीर्थेऽर्कविधुग्रासे तन्तुदामनपर्वणोः । मन्त्रदीक्षां
प्रकुर्वाणो मासर्क्षादीन्न शोघयेत्” । तन्तुपर्व परमेश्वरोप-
वीतदानतिथिः श्रावणी पूर्णिमा” रघुनन्दनः ।
इयं तिथिः रक्षासूत्रबन्धरूपोत्सवदिनत्वात्तथेत्यपि तथा
च तस्यां रक्षासूत्रबन्धनप्रकारः निर्णयसि० दर्शितो यथा
“अत्रैव रक्षाबन्धनमुक्तं हेमाद्रौ भविष्ये “संप्राप्ते श्रावण-
स्यान्ते पौर्णमास्यां दिनोदये । स्मानं कुर्वीत मतिमान् श्रुति
स्मृतिविधानतः । उपाकर्मादिकं प्रोक्तमृषीणां चैव तर्पणम् ।
शूद्राणां मन्द्ररहितं स्मानं दानं च शस्यते । उपाकर्मणि
कर्तव्यमृषीणां चैव पूजनम् । ततोऽपराह्णसमये रक्षापोट-
लिकां शुभाम् । कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितै-
रिति” अत्रोपाकर्मानन्तर्यस्य पूर्णमासीतिथौ वार्षिकस्यानु-
वादो न तु विधिः गौरवात् प्रयोगविधिभेदे च क्रमायोगा
च्छूद्रादौ तदयोगाच्च । तेन परेद्युरुपाकरणे पूर्वेद्युरपराह्णे
तत्करणं सिद्धम् । इदं भद्रायां न कार्यम् “भद्रायां द्वे न
कर्त्तव्ये श्रावणी फाल्गुनी तथा । श्रावणी नृपतिं हन्ति
ग्रामं दहति फाल्गुनीति” संग्रहोक्तेः तत्सत्त्वे तु रात्रा-
वपि तदन्ते कुर्य्यादिति निर्णयामृते । इदं प्रतिपद्युतायां न
कार्यम् “नन्दायादर्शने रक्षाबलिदानं दशासु च । भद्रायां
गोकुलक्रीडा देशनाशाय जायते” इति मदनरत्ने ब्रह्मवैवर्तात्
भविष्ये “उपलिप्ते गृहमध्ये दत्तचतुष्के न्यसेत् कुम्भम् ।
पीठेतत्रोपविशेद्राजामात्यैर्युतश्च सुमुहूर्ते । तदनु पुरीधा
नृपते रक्षां बध्नीत मन्त्रेण” । इदं रक्षाबन्धनं नियतका-
लत्वात् भद्रावर्जं ग्रहणदिनेऽपि कार्यं होलिकावत् ।
ग्रहसंक्रान्त्यादौ रक्षानिषेधाभावात् “सवेर्षामेव वर्णानां
सूतकं राहुदर्शने” इति तत्कालीनकर्मपरमेव न त्वन्यत्र ।
अन्यथा होलिकायां का गतिः । अतएव “नित्ये नैमित्तिके
जप्ये होमयज्ञक्रियासु च । उपाकर्मणि चोत्सर्गे ग्रहवेघोन
विद्यते” इति नियतकालीने तदभाव इति दिक् । उपाक-
र्मणीति तद्दिनभिन्नपरं तत्रतन्निषेधादित्युक्तं प्राक । मन्त्रस्तु
पृष्ठ ३२२३
“येन बद्धो बलीराजा दानवेन्द्रो महाबलः । तेन त्वामपि
बध्नामि रक्षे! मा चल मा चल” । “ब्राह्मणैः क्षत्रियै-
र्वैश्यैः शूद्रैरन्यैश्च मानवैः कर्तव्योरक्षणाचारो द्विजान्
संपूज्य शक्तितः” इति ।

तन्तुभ पु० तन्तुना सन्तत्या भाति भा--क । १ सर्षपे २ वत्से च

जटाधरः । “मरीचं पिप्पलं कोषं जीरकन्तन्तुभं तथा ।
संस्कारे च समक्षे च महादेव्यै निवेदयेत्” कालि०
पु० । “तन्तुभं सर्षपम्” रघुनन्दन ।

तन्तुवर्द्धन त्रि० तन्तुं सन्तानं संसारं वा वर्द्धयति

छिनत्ति वा वृध--वृद्धौ णिच् ल्यु वर्द्धि छेदने ल्यु वा ।
१ तन्तुबर्द्धके २ तन्तुच्छेदके च । ३ परमेश्वरे पु० । “शुभाङ्गो
लोकसारङ्गः सुतन्तुस्तन्तुवर्द्धनः” विष्णु स० । “तन्तुं
सन्ततिं संसारं वर्द्धयति छेदयति वा ज्ञानदानेन” भा० ।

तन्तु(र)ल न० तन्तुर्विद्यतेऽस्य र--लच् वा । मृणाले । हेमच०

तन्तुवाप त्रि० तन्तून् वपति वप--अण् उप० स० । (ताँति)

तन्तुवाये जटाधरः ।

तन्तुवाय त्रि० तन्तून् वयति वे--अण् उप० स० । १ तन्तुवयन-

कर्त्तरि (ताँति) २ लूतायां कीटभेदे च अमरः । ३ सङ्की-
र्णजातिभेदे पुंस्त्री । स्त्रियां जातित्वात् ङीष् । सा च
जातिस्तद्वृत्तिश्च मानवोक्ता यथा “नृपायां वैश्यसंसर्गा-
दायोगव इति स्मृतः । तन्तुवाया भवन्त्येव वसुकांस्योप-
जीविनः । शीलकाः केचित्तत्रैव जीवनं वस्त्रनिर्मितौ”
“तन्तुवायो दशपलं दद्यादेकपलाधिकम्” मनुः ।

तन्तुवायदण्ड पु० तन्तोर्वायस्य दण्डः ६ त० वायते अनेन

करणे--घञ वा कर्म्म० । वेमनि तन्तुवायसाधने
दण्डे । (नराज)

तन्तुविग्रहा स्त्री तन्तवो विग्रहे यस्याः । कदल्याम् त्रिका० ।

तत्त्वचि हि बहुसूत्राणि प्रादुर्भवन्ति ।

तन्तुशाला स्त्री तन्तूनां वयनाय शालां । (ताँतघर) तन्तु-

वयनगृहे हेम० ।

तन्तुसन्तत त्रि० तन्तुभिः सन्ततं व्याप्तम् । स्यूतवस्त्रे । (सिँओयान) अमरः ।

तन्तुसार पु० तन्तव इव सारो मज्जास्य । गुवाकवृक्षे । त्रिका०

तन्त्र न० तन्यते तनोति वा कर्त्त्रादौ यथायथं ष्टुन् तन्त्रि-

कुटम्बभरणे घञ् वा । १ कटुम्बभरणादिकृत्ये २ सिद्धान्ते
३ औषधे ४ प्रधाने ५ परिच्छदे ६ वेदशाखाभेदे ७ हेतौ ८
उभयार्थैकप्रयोगे । ९ इतिकर्त्तव्यतायाञ्च मेदि० । १० तन्तुवाये
शब्दमाला ११ राष्ट्रे १२ परच्छन्दानुगमने १३ स्वराष्ट्रचिन्ता-
याम हेमच० । १४ प्रवन्धे शब्दरत्ना० १५ शपथे, धरणिः
१६ धने १७ गृहे १८ वयनसाधने (ताँत) १९ कुले च
नानार्थमञ्जरी । २० शिवाद्युक्तशास्त्रभेदे तल्लक्षणभेदादिकं
यथा “सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च । देवतानाञ्च
संस्थानं तीर्थानाञ्चैव वर्णनम् । तथैवाश्रमधर्मश्च विप्र
संस्थानमेव च । संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव
निर्णयः । उत्पत्तिर्विबुधानाञ्च तरूणां कल्पसंज्ञितम् ।
संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च । कोषस्य
कथनञ्चैव ततानां परिभाषणम् । शौचाशौचस्य
चाख्यानं नरकाणाञ्च वर्णनम् । हरचक्रस्य चाख्यानं
स्त्रीपुंसोश्चैव लक्षणम् । राजधर्मो दानधर्मो युगधर्म-
स्तथैवच । व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम् ।
इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते” । तस्य प्रशंसा ।
“विष्णुर्वरिष्ठो देवानां ह्रदानामुदधिर्यथा ।
नदीनाञ्च यथा गङ्गा पर्वतानां हिमालयः । अश्वत्थः सर्व
वृक्षाणां राज्ञामिन्द्रो यथा वरः । देवीनाञ्च यथा दुर्गा
वर्णानां ब्राह्मणो यथा । तथा समस्तशास्त्राणां तन्त्र
शास्त्रमनुत्तमम् । सर्वकामप्रदं पुण्यं तन्त्रं वै वेद
सम्मितम् । कीर्त्तनं देवदेवस्य हरस्य मतमेव च ।
पावनं श्रद्दधानानामिह लोके परत्र च” । तस्य श्लोक
संख्या यथा “न शक्यं विस्तराद्वक्तुमपि वर्षशतैरपि ।
संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना । दिवि
देवि! नवलक्षं पाताले ब्रह्मशासने । लक्षमात्रं भारते
च क्षितौ तन्त्राणि यानि च । आगमं त्रिविधं प्रोक्तं
चतुर्थमैश्वरं स्मृतम् । कल्पश्चतुर्विधः प्रोक्त आगमो
डामरस्तथा । यामलञ्च तथा तन्त्रं तेषां भेदाः पृथक्
पृथक् । मुक्तकाख्यं सप्रपञ्चम् सारदाख्यञ्च नारदम् ।
महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः । अमृत
शुद्धिर्वीरश्च सिद्धसंवरणस्तथा । प्रथमोऽष्टसहस्रन्तु
श्लोका दश प्रकीर्त्तिताः । द्वितीयोमुक्तकस्तत्र षट्सहस्राणि
संख्यया । श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसह-
स्रकः । शतद्वयं साधिकञ्च श्लोकानां पञ्चविंशतिः । त्रिंशो,
त्तरसहस्राणि श्लोकानां भानुसंख्यया । प्रपञ्चः प्रथमे
तन्त्रे द्वितीये वसुसंख्यया । सहस्राणि तथा श्लोकाः
सप्तविंशतिसंख्यया । भूतनेत्रसहस्राणि तृतीयेऽब्धिसहस्र-
कम् । शतद्वयं पङ्क्ति १० श्लोकाः प्रपञ्चः कथितस्त्रिधा ।
कला १६ संख्या सहस्राणि सारदायाः प्रकीर्त्तिताः ।
पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे । विंशतिश्च
सहस्राणि षट्सहस्राणि संख्यया । वसुश्लोकाश्च कथिताः
पृष्ठ ३२२४
कपिलः श्लोकसंख्यया । त्रयोदश सहस्राणि कलोत्तर
शतत्रयम् । श्लोकसंख्या समुद्दिष्टा योगे कल्पे च
संख्यया । वाणसंख्या सहस्राणि श्लोका नवतिः कीर्त्तिताः ।
श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया । श्लोकाश्च
भानु १२ संख्याता स्तन्त्रेऽपि च कपिञ्जले । अमृतशुद्धौ
सहस्राणि पञ्चश्लोकाधिकानि च । पञ्चैव कथिता नेत्र
संख्यातानि यथार्थतः । वीरागमे षड़धिकानि शतानि
परिसंख्यया । सहस्राणि च तावन्ति श्लोकानान्तु
ययार्थतः । पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया ।
सिद्धसंवरणोक्तानि ईश्वरेण यथा पुरा । डामरःषड्विधो
ज्ञेयः प्रथमो योगडामरः । श्लोकास्तत्र त्रयस्त्रिंशत्
तथा पञ्च शतानि च । त्रिविंशतिसहस्राणि श्लोकानि
चेह संख्यया । एकादश सहस्राणि संख्यया शिवडामरे ।
श्लोकाःसप्तैव निश्चित्य इश्वरेणैव भाषिताः । तावच्छ्र्लोक-
सहस्राणि पञ्च श्लोकशतानि च । गुणोत्तराणि दुर्गाया
डामरे कथितानि च । नव श्लोकसहस्राणि नव श्लोकश
तानि च । सारस्वते तथा श्लोकाः पञ्चैव परिकी-
र्त्तिताः । स्वर ७ संख्यसहस्राणि श्लोकानां ब्रह्मडामरे ।
पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु । षष्टिः श्लोक-
सहस्राणि गन्धर्वडामरोत्तरे । श्नोकाश्च षष्टिसंख्याता
ब्रह्मणाऽव्यक्तयोनिना । यामलाः षट् समाख्यातास्तन्त्रादावा-
दियामले । द्वात्रिंशच्च सहस्राणि त्रयस्त्रिंशत् शतानि च ।
द्वितीये ब्रह्मसंज्ञे तु द्वाविंशतिश्च संख्यया । सहस्राणि
शतान्यत्र तान्येव कथितानि च । तावत्संख्यसहस्राणि
शतानि परिसंख्यया । विंशतिश्च तथा संख्या श्लोकाश्च
विष्णुयामले । कालसंख्यसहस्राणि वेदसंख्यशतानि
च । पञ्चषष्टि स्तथा श्लोका कनिष्ठे रुद्रयामले । नव श्लोक-
सहस्राणि त्रयोदश शतानि च । द्वाविंशतिस्तथा श्लोका
गणेशयामलोत्तमे । रविसंख्यसहस्राणि आदित्याख्ये
तु यामले । तन्त्रे नीलपताकायां सहस्राणि च पञ्च
च । पञ्चविंशतिः श्लोकाश्च कथिता वामकेश्वरे । त्रयोदश
सहस्राणि द्वे शते विंशतिस्तथा । श्लोकामृत्युञ्जये तन्त्रे
संख्यातास्तन्त्रवेदिभिः । गजसंख्यसहस्राणि त्रिकसंख्या-
शतानि च । सप्त श्लोकास्तथैवात्र तन्त्रयोगार्णवोत्तमे ।
दश श्लोकसहस्राणि तावन्त्येव शतानि च । मायाख्ये
च महातन्त्रे यथार्थतः प्रकीर्त्तिताः । पञ्च श्लोकसहस्राणि
तावन्त्येव शतानि च । शतार्द्धसंख्यया श्लोका दक्षि-
णामूर्त्तितन्त्रके । दश श्लोकसहस्राणि तावन्त्येव शतानि
च । त्रयोदश तथा श्लोकाः कालिकाख्ये च तन्त्रके ।
कालेश्वर्य्यास्तन्त्रवरेस हस्रतित्रयं महत् । श्लोकानां संख्यया
चात्र तन्त्रराजे च संख्यया । नव श्लोकसहस्राणि नव श्लोक-
शतानि च । द्वाविंशतिः सहस्राणि हरगौर्य्याख्यतन्त्रके ।
तथा च विंशतिः श्लोकास्तन्त्रेऽस्मिन् परिकीर्त्तिताः ।
अर्कसङ्ख्यसहस्राणि द्वितीये तन्त्रवेदिभिः । अष्टाविंश-
तिश्च श्लोकाः संख्यातान्तन्त्रनिर्णये । कुब्जिकाख्ये महातन्त्रे
श्लोकाश्च दशसंख्यया । सहस्राणि तथा सप्त संख्यातानि-
मनीषिभिः । द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके ।
अर्कसंख्यसहस्राणि तथाङ्कुशशतानि च । तावद्देव्या
महातन्त्रे संख्यातानि द्विजोत्तमैः । द्वाशिंशतिः
सहस्राणि द्वाविंशतिः शतानि च । कात्यायन्यास्तु तन्त्रस्य
संख्यातानि मनीषिभिः । वसुश्लोकसहस्राणि तावन्त्येव
शतानि च । प्रत्यङ्गिराथास्तन्त्रे च निश्चितानि यथार्थतः ।
भूतसंख्या सहस्राणि तथा तावच्छतानि च । महालक्ष्म्या
स्तन्त्रराजे पञ्च श्लोकाश्च कीर्त्तिताः । गजसंख्यसहस्राणि
श्लोकका सप्तसंख्यया । त्रिपुरार्णवे महातन्त्रे लिखिताः
परमर्षिभिः । सरस्वत्याः सहस्रे द्वे द्वे शते संख्यया स्मृते ।
पञ्च श्लोकास्तथैवात्र विज्ञातव्या द्बिजातिभिः । द्वाविं-
शतिः सहस्राणि आद्ये तन्त्रोत्तमोत्तरे । अङ्ग-
संख्या शतान्यत्र श्लोकाः पञ्चदशैव तु । द्वाविंशतिः
सहस्राणि तथा नव शतानि च । द्वात्रिंशच्च तथा श्लोका
योगिन्यास्तन्त्रराजके । द्वितीये षट् सहह्राणि तथा च
त्रिशतानि च । त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्र
उत्तमे । ऊर्म्मिसंख्यासहस्राणि तत्वसंख्यशतानि च ।
गवाक्षे तन्त्रराजेऽस्मिन् श्लोकाहि तत्वसंख्यया । वर्ण
संख्यसहस्राणि द्वे शते परिनिश्चिते । श्लोकास्तयश्च
संख्यातास्तन्त्रे नारायणीयके । वेदसंख्यसहस्राणि
तान्येव च शतानि च । श्लोका नवतिःसंख्याता मृडानी
तन्त्रराजके । तृतीये त्रिसहस्राणि त्रिशतानि
कनिष्ठके । त्रिंशत् श्लोकाश्च संख्याताज्ञातव्यास्तन्त्रवे-
दिभिः” । वराहोत०
उपतन्त्राणि यथा “सैद्धीक्तान्युपतन्त्राणि कपिलोक्तानि
यानि च । अद्भुतानि च एतानि जैमिन्युक्तानि यानि
च । वशिष्ठः कपिलश्चैव नारदो गर्ग एव च । पुलस्त्यो-
भार्गवः सिद्धो याज्ञवल्क्योभृगुस्तथा । शुक्रो वृहस्पति-
श्चैव अन्ये ये मुनिसत्तमाः । एभिः प्रणीतान्यन्यानि
उपतन्त्राणि यानि च । विसंख्यातानि तान्यत्र धर्मविद्भि-
पृष्ठ ३२२५
र्महात्मभिः । सारात् सारतराण्येव संख्यातानि
निबोधत” । वाराहीत० ।
शिवोक्तं चतुःषष्टिसङ्ख्यकं तन्त्रं यथा “सिद्धीस्वरं
महातन्त्रं कालीतन्त्रं कुलार्णवम् । ज्ञानार्णवं नीलतन्त्रं
फेत्कारीतन्त्रमुत्तमम् । देव्यागमं उत्तराख्यं श्रीक्रभं
सिद्धियामलम् । मत्स्यसूक्तं सिद्धसारं सिद्धिसाराह्वयं
तथा वाराहीतन्त्रं देवेशि! योगिनीतन्त्रमुत्तमम् ।
गणेशविमार्षणीतन्त्रं नित्यातन्त्रं शिवागमम् । चामु-
ण्डाख्यं महेशानि! मुण्डमालाख्यतन्त्रकम् । हंसमाहे-
श्वरं तन्त्रं निरुत्तरमनुत्तमम् । कुलप्रकाशकं देवि!
कल्पं गाथात्मकं शिवे! । क्रियासारं निवन्धाख्यं स्वतन्त्रं
तन्त्रमुत्तमम् । सम्मोहनं तन्त्रराजं ललिताख्यं
तथाशिवे! । राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम् ।
वृहच्च श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनि! । विशुद्धेश्वर
तन्त्रञ्च मालिनीविजयं तथा । समयाचारतन्त्रञ्च
भैरवीतन्त्रमुत्तमम् । योगिनीहृदयं तन्त्रं भैरवं
परमेश्वरि! । सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।
तन्त्रान्तरञ्च देवेशि! नवरत्नेश्वरं तथा । कुलचूड़ामणि-
तन्त्रं भावचूड़ामणीयकम् । मन्त्रदेवप्रकाशञ्च कामाख्या-
नामकं तथा । कामचेनुकुमारी च भूतडामरसंज्ञकम् ।
मालिनीविजयं तन्त्रं यामलं व्रह्म यामलम् । विश्वसारं
महायन्त्रं महाकालं कुलामृतम् । कुलोड्वीशं कुब्जि-
काख्यं यन्त्रचिन्तामणीयकम् । एतानि तन्त्ररत्नानि
सकलानि युमे युगे । कालीविलसकादीनि तन्त्राणि
परमेश्वरि! । कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु ।
महाचीनादितन्त्राणि अविकल्पे महेश्वरि! । सुसिद्धानि
वरारोहे! रथक्रान्तासु भूमिषु” इति महासिद्धिसार-
तन्त्रम् । “चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति ।
सकलानीह वाराहे विष्णुक्रान्तासु भूमिषु । कल्प
भेदेन तन्त्राणि कथितानि च यानि च । पाषण्ड
मोहनायैव विफलानीह सुन्दरि!” विश्वसारतन्त्रम् ।
अन्यत्र च “दैत्यानां मीहनार्थं तु तन्त्रशास्त्रं शिवोदितम्”
तत्र स्वराष्ट्रचिन्तायां औषधे च “तन्त्रावापविदा योगैः”
माघः । शास्त्रे “इदानीं तत्प्रवक्ष्यामि तन्त्रमुत्तरमुत्त-
मम्” सुश्रुतः अनेकोद्देन सकृत्प्रयोगे “द्वौ दैवे प्राक् त्रयः
पित्र्ये उदगैकैकमेव वा । मातामहानामप्येवं तन्त्रं वा
वैश्वदैविकम्” याज्ञ० । “पिवृश्राद्धे मातामहश्राद्धे च वैश्व-
दैविकं तन्त्रेण कार्य्यमिति” मिता० । २१ विध्यन्ते अङ्ग-
समुदाये “दर्शपौर्णमासौ तु पूर्वं व्याख्यास्यामस्तन्त्रस्य
तत्राम्नातत्वात्” आश्व० श्वौ० १ । १ । ३ । तन्त्रमङ्गसंहतिः
विध्यन्त इत्यर्थः स चावस्थानादिसंस्थाजपान्तः
प्रधानस्य तन्त्रणात् तन्त्रमित्युच्यते” कर्कः । तन्त्रल-
क्षणादिकं कात्यां० श्रौ० उक्तं यथा “कर्मणां
युगपद्भावस्तन्त्रम्” कात्या० श्रौ० १ । ७ । १
“यत्र प्रधानकर्मणां युगपद्भावः सह प्रयोगः तत्रारा-
दुपकारकाणामङ्गानां तन्त्रं सकृदनुष्ठानं भवति । न
प्रतिप्रधानं पृथक् पृथक् यद्धि सकृत् कृतं बहूनामुप-
करोति तत्तन्त्रमित्युच्यते यथा बहूनां मध्ये कृतः
प्रदीपः । कुतस्तन्त्रमिति हेत्वाकाङ्क्षायां त्रीन् हेतू-
नाह” कर्कः । “शक्यपुरुषार्थकृतत्वैकार्थसमवाय
श्रुतिभ्यः” २ सू० । “प्रधानकर्मणां सह प्रयोगे सति
तदङ्गानां सकृदनुष्ठानमुक्तम् । तत् कुतः शक्यत्वात् सकृदप्य-
नुष्ठितैरारादुपकारकैरङ्गैर्बहूनामपि प्राधानानामुप-
कारस्य कर्तुं शक्यत्वात् शक्नुवन्ति ह्यारादुपकारकाणि
बहूनामुपकर्तुम्, अगृह्यमाणविशेषत्वात् प्रदीपवत्
यथा एक एव प्रदीपो बहूनां मध्ये कृतः सन् सर्वेषा-
मुपकरोति एवमेतान्यपीति । यद्यप्यङ्गानां प्रत्येकमेव
विनियोगस्तथापि विधिना तावदनुष्ठानं सकृदेवोपकारकं
भवति यथैव हि षट्सु भावनासु लिङ्पदेनैव कथम्भाव-
मपेक्षमाणास्वपि सकृदाम्नाता एवाङ्गविधयः षण्णामपि
प्रत्येकमङ्कानि समर्पयन्ति सत्यपि च कस्यचित् प्रधानो-
त्पत्तिविधिसन्निधौ प्रकरणवशेन संनिधिर्बाध्यते तथैव
संहतानां प्रधानानां फलसाधनत्वात् कर्तृदेशकालैक्याच्च
युगपत् सर्वेष्वनुष्ठातुं प्रारब्धेषु सकृत्कृतमेवाङ्गं सर्व-
चिकीर्षया कृतत्वात् सन्तमपि केनचित् संनिधिं बाधित्वा
प्रकरणवशेन सर्वार्थं भवति । किं च पौर्णमास्यां यजेतेति
त्रयाणां युगपदनुष्ठानमवगतं पृथक् पृथक् साङ्गे-
ष्वनुष्ठीयमानेषु बाध्यते तस्मात् सकृदेवाङ्गानामनुष्ठा-
नम् । तथा पुरुषार्थकृतत्वाच्च यतः सकृदनुष्ठितैरप्यङ्गैः
पुरुषार्थः कृत एव भवति पुरुषार्थः पुरुषस्याभीष्टं
फलम् तद्धि आग्नेयादिभिरङ्गोपकृतैः क्रियते
आरादुपकारकाणि चाङ्गान्यनेकघटादिप्रकाशकप्रदीपवत् सर्वेषां
सहैवोपकुर्वन्ति सकृत्कृतैरपि पुरुषार्थः कृतएव भवति ।
तथा एकार्थसमवायश्रुतेश्चाङ्गानां तन्त्रं भवति
एकोऽर्थो यस्य एकार्थ एकफलो यः प्रधानानां समवायः
समूहः स एकार्थसमवायः तत्र एकार्थे समवाये एकफले
पृष्ठ ३२२६
प्रधानसमूहे अङ्गानां तन्त्रश्रुतेः अङ्गानां सकृदनुष्ठानं
श्रूयते यतः । तथाहि “ता एकविंशतिराहुतयोद्वावा-
धारौ पञ्च प्रयाजा द्वावाज्यभागावाग्नेयः पुरोडाशस्त-
द्दशाग्नीषोमीय उपांशुयाजोऽग्नीषोमीयः पुरोडाशोऽग्निः
स्विष्टकृदिडा त्रयोऽनुयाजाः सूक्तवाकश्च शम्योर्वाक्-
श्चाथ यदेवादः पत्नीसंयाजेषु सम्प्रगृह्णाति समिष्ट
यजुश्चेति तत्राग्नेयोपांशुयाजाग्नीषोमीयलक्षण
एकफले प्रधानसमवाय आहुतीनामेकविंशतिसंख्या श्रूयते
सा चाङ्गानां सकृत्करणपक्ष एवोपपद्यते न प्रतिप्रधानं
पृथगनुष्ठानपक्षे । तस्मात् प्रधानानां सहप्रयोगे
सकृदेवारादुपकारिका क्रिया सन्निपत्योपकारकाणां प्रति-
प्रधानमावृत्तिरिति तु प्रागुक्तमेव । अथ प्रधानानां सह
प्रयोगे कारणान्याह” कर्कः । “फलकर्मदेशकालद्रव्य-
देवतागुणसामान्ये” ३ सू० । यत्रैकेन वाक्येन बहूनि
प्रधानकर्माणि एकफलसाधनत्वेन विधीयन्ते तत्र तेषा-
मितरेतरापेक्षाणां साधनत्वेन विधानात् सहप्रयोगः
तद्यथा मित्राविन्दाश्रीराष्ट्रमित्रायुष्कामस्येति वैश्वदेवेन
प्रजाकामं याजयेदिति अत्र मित्रविन्दाशब्देन समुदाय-
वचनेन दशानां हविषां सहप्रयोगः वैश्वदेवशब्देन च
समुदायवचनेनाष्टानां हविषाम् । सूत्रार्थस्तु सामान्य
शब्दः प्रत्येकं सम्बध्यते फलसामान्ये कर्मसांमान्ये
देशसामान्ये कालसामान्ये द्रव्यसामान्ये देवतागुणयोः
सामान्य इति एकवाक्येनैकफलसाघनत्वेन विधानेऽपि
फलादिसामान्ये सत्येव प्रधानानां सहप्रयोगो भवति
फलं स्वर्गादि कर्म पञ्चप्रयाजता त्र्यनुयाजतेत्यादि । देशः
समप्राचीनप्रवणादिः । कालः पूर्वाह्णापराह्णादिः । द्रव्यं
दक्षिणाद्रव्यम् न तु हविर्द्रव्यम् अनेकेषु प्रधानकर्मसु
तद्भेदस्यावश्यम्मावात् देवता प्रजापतीन्द्रादिः । तद्गुण
उपांशुत्वाश्राव्यत्वादिः तस्मिन् सति प्रधानमपि सहैव
भवति न पृथक्” कर्कः “तद्भेदे भेदः” ४ सू० । तेषां
फलादीनां भेदस्तद्भेदः तद्भेदे तेषां फलादीनां सह
प्रयोगकारणानां भेदे सति प्रधानानां प्रयोगभेदो
भवति तत्र प्रयोगवचनभेदान्मित्रविन्दाप्रीतिकामा-
ग्नेययोर्न सहप्रयोगः फलभेदाच्च श्रीकामराष्ट्रकाम-
मित्रकामायुष्काममित्रविन्दानां पृथक् प्रयोगः । कर्म-
भेदेऽपि प्रयोगभेदो भवति तद्यथा कस्यचित् पञ्चप्रया-
जता कस्यचिन्नवप्रयाजता यथा च क्रैडिनीया
महाहविषोस्तन्त्रसहत्वे इतरेतरस्य विगुणत्वं भवति ।
देशभेदेऽपि तन्त्रभेदो भवति यथा वरुणप्रयासेषु
मारुत्याः क्रैडिनीमहाहविषोश्च क्रैडिन्याः समदेशः
महाहविषस्तु प्राचीनप्रवणः । कालभेदेऽपि
सहप्रयोगो न भवति यथा दर्शस्य पौर्णमासस्य च “पौर्ण-
मास्यां पौर्णमास्या यजेतामावास्यायाममावास्यया
यजेतेति वचनेन कालभेदेन तयोर्विधानात् । यथा वा
आनीकवतीसान्तपनीययोः पूर्वाह्णमध्याह्नरूपकालभेदात्तन्त
भेदः । दक्षिणाद्रव्यैक्ये सति सहप्रयोगो यथा
राजसूये त्रयाणां त्रिषंयुक्तानां येषां मते च
त्रिषंयुक्तानां त्रयाणामप्येकस्मिन्नेवाहन्यनुष्ठानम्
तेषां दक्षिणाद्रव्यभेदेन त्रयाणां त्रयाणां पृथग-
नुष्ठानम् न सर्वेषां सहप्रयोगः दक्षिणाभेदश्च
त्रयाणां वामनः त्रयाणां श्यामः त्रयाणां बभ्रुरिति
तत्र दक्षिणाभेदादानतिभेदः तद्भेदात्तत्कृतस्य स्वरूपस्य
भेदः वामनानतैर्हि पूर्वं कर्म कर्त्तव्यम् श्यामानतै-
रुत्तरम् तन्त्रत्वे तूभाभ्यामानता उभयं कुर्य्युः । तत्र
दक्षिणाव्यवस्था गम्यमाना बाध्येत । तस्मात् प्रतिदक्षिणं
तन्त्रभेदः । अत्र एकवाक्येनेकफलार्थमेव विधाने
देशकालकर्मैक्ये सत्यपि दक्षिणाभेदात्तन्त्रभेदः । देवताया
देवतागुणस्य च सामान्ये सति उच्चारणमपि तस्या
देवताया आवाहनत्यागादौ तन्त्रेण भवति यथा सप्त-
दशप्राजापत्येषु राजपेये प्रजापतेर्देवतायाः समानत्वा-
द्गुणस्योपांशुत्वस्य च समानत्वादनुवचनादौ तन्त्रेणो-
च्चारणं भवति यागोऽपि तन्त्रेणैव भवति । तथा च
प्राजापत्यान् प्रकृत्य श्रूयते एकानुवाक्या भवत्येक-
याज्यैकदेवत्या हि प्राजापत्या इत्युपांशुत्वाच् छागानां
हविषोऽनूब्रूहोति अत्रानुवाक्याद्येकत्वे एकदेवतत्वं
हेतुं ब्रुवन्ती एकदेवताकानां सिद्धं तन्त्रोच्चारणं दर्श-
यति । दर्शपूर्णमासयोरेव द्रव्यभेदेऽपि दध्नः पयसश्च
देवताया इन्द्रस्य तद्गुणस्य चाश्राव्यत्वस्य समानत्वात्त-
न्त्रेणैव याग उच्चारणं भवति । देवतायां समानाया-
मपि देवतागुणस्योपाशुत्वादेर्भेदे सति सहोच्चारणं न
भवति यथा प्रकृतावेवापांशुजापाग्नीषोमयोः पुरोडाशा-
ग्नीषोमयोश्च । इह देवतातद्गुणयोः सामान्ये यागस्य
तन्त्रेणानुष्ठानमुच्यते अत्र सिद्धमेव देवतागुणसामान्ये
तन्त्रेण यागानुष्ठानमुपजीव्य भेदो यागस्य भेदेनानु-
ष्ठानपूर्वं निषिद्धः न द्रव्यभेदे गुणयोगादिति वा तस्य
इति न पुनरुक्तिदोषादि ।” कर्कः ।
पृष्ठ ३२२७
तल्लक्षणविषयादिकं जैमिनिना एकदशाध्याये न्यरूपि तत
एवागन्तव्यं संक्षेपतश्च जैमिनिशब्दे माधवेनोक्तं ३१४१
पृ० दर्शितम् । तत्र शास्त्रे “आसुरिरपि पञ्चशिखाय
तेन बहुधा कृतं तन्त्रम्” “सप्तत्यां किल येऽर्थास्तेऽर्थाः
षष्टितन्त्रस्य” सा० का० । २२ नीत्यवयवे । “तन्त्रैः पञ्चभि-
रेतच्चकार मनोरमं शास्त्रम्” पञ्चत० । तदवय-
पाश्च मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धाप्रणाशपरीक्षित-
कारकाख्याः । तन्त्रं वेत्ति ठक् । तान्त्रिक तन्त्रवेत्तरि त्रि० ।
तन्त्र विहितः ठक् । तान्त्रिक तन्त्रविहिते त्रि० स्त्रियां
ङीप् “वैदिकी तान्त्रिकी सन्ध्या यथानुक्रमयोःगत”
तन्त्रसा० तान्त्रिकी दीक्षा २३ वशे च स्वतन्त्रः परतन्त्रः ।

तन्त्रक त्रि० तन्त्रात् अचिराहृतम् कन् । अभिनवे वस्त्रे

अमरः पटे पु० शाट्यां स्त्री इति भेदः । “वसानस्तन्त्र-
कनिभे सर्वाङ्गीणे तरुत्वचौ” भट्टिः ।

तन्त्रकाष्ठ न० तन्त्रस्थं काष्ठम् । तन्त्रस्थे काष्ठभेदे (ताँतेर

काटि) प्रभृतौ त्रिका० ।

तन्त्रता स्त्री तन्त्रस्य भावः तल् । अनेकोद्देशेन सकृत्प्रवृत्तौ

यथा तर्पणपूजनाद्यनेककर्मोद्देशेन सकृत्स्नाने कृते सर्व-
कर्माङ्गस्नानसिद्धिः । तद्विषयोदाहरणं प्रा० त० उक्तं यथा
“आग्नेयाष्टकपालैन्द्रदध्यैन्द्रपयोयागानां त्रयाणा-
माग्नेयाष्टकपालोपांशुयागाग्नीषोमीयैकादशकपालया-
गानां त्रयाणां सकृत् सकृदनुष्ठितेन प्रयाजाद्यङ्गे-
नोपकारः सिद्ध्यति तथा मानाब्रह्मबधसत्त्वे सर्वो-
द्देशेन सकृत् प्रायश्चित्ते कृते सर्वब्रह्मवधजन्यपापनाशः ।
तन्त्रतायाहेतुश्च अदृष्टार्थैकजातीयकर्मणः कालदेश
कर्त्रादीनां प्रयोगानुबन्धिवैधहेतुभूतानामभेदे उद्देश्य
विशेषाग्रहः” इति । एवञ्च “स्नातोऽधिकारी भवति दैवे
पैत्रे च कर्मणि । पवित्राणां तथा जाप्ये दाने च
विधिदर्शिते” इति विष्णूक्तम् “अस्नात्वा नाचरेत् कर्म-
जपहोमादि किञ्चनेति” दक्षोक्तञ्च, क्रियाङ्गस्नानं
कर्तृसंस्कारद्वारैव तद्दिनकर्त्तव्याशेषकर्मार्थमेकमेव
न तु प्रतिकर्म कर्त्तंव्यम्” इति रघुनन्दनः अधिकं
तन्त्रशब्दे दृश्यम् ।

तन्त्रधारक पु० तन्त्रं कर्मज्ञापकपद्धतिग्रन्थं धारयति

धारि--ण्वुल् ६ त० । “एकस्तत्र नियुक्तः स्यादपरस्त-
न्त्रधारकः । तृतीयं प्रश्नकं ब्रूयात् ततः कर्म समाचरेत्”
गृह्यपरिष्टोक्ते कर्मस्वरूपज्ञापकपुस्तकवाचके । “तन्त्र-
धारकः पुस्तकधारकः” स० त० रघुनन्दनः ।

तन्त्रयुक्ति स्त्री तन्त्रोक्ता आयुर्वेदशास्त्रोक्ता युक्तिः ।

सुश्रुतोक्ते द्वात्रिंशद्भेदके युक्तिभेदे । ताश्च यथा
“अथातस्तन्त्रयुक्तिनामाध्यायं व्याख्यास्यामः । द्वात्रिंश-
त्तन्त्रयुक्तयो भवन्ति । तद्यथा । अधिकरणं योगः
पदार्थो हेत्वर्थ उद्देशो निर्द्देश उपदेशः प्रदेशोऽ-
तिदेशोऽपवर्गो वाक्यशेषोऽर्थापत्तिर्विपर्य्ययः प्रसङ्गएकान्तो-
ऽनेकान्तः पूर्वपक्षो निर्णयोऽनुमतं विधानमनागतावे-
क्षणम् अतिक्रान्तावेक्षणम् । संशयो व्याख्यानं स्वसंज्ञा
उदाहरणं निर्वचनं निदर्शनं नियोगो विकल्पः समुच्चय ऊह्य-
मिति अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमित्युच्यते ।
वाक्ययोजनमर्थयोजनञ्च । भवन्ति चात्र श्लोकाः । असद्वादि-
प्रयुक्तानां वाक्यानां प्रतिहेलनम् । स्ववाक्यानां सिद्धिरपि
क्रियते तन्त्रयुक्तितः । व्यक्ता नोक्ताश्च ये ह्यर्था लीना ये
चाप्यनिर्मलाः । लेशोक्ता ये क्वचित्तन्त्रे तेषाञ्चापि प्रसा-
धनम् । यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ।
प्रबोध्यस्य प्रकाश्यार्थास्तथा तन्त्रस्य युक्तयः । यमर्थम-
धिकृत्योच्यते तदधिकरणं १ यथा रसं दोषं वा । येन
वाक्यं युज्यते स योगः २ । यथा तैलं पिबेच्चामृतवल्लि-
निम्बहिंस्राभयावृक्षक पिप्पलीभिः । सिद्धं बलाभ्याञ्च
सदेवदारु हितञ्च नित्यङ्गलगण्डरोगी” । सिद्धं पिवेदिति
प्रथमं वक्तव्ये तृतीयपादे सिद्धं प्रयुक्तमेवं दूरस्थाना-
मपि पदानामेकीकरणं योगः । योऽर्थोभिहितः सूत्रे
पदे वा स पदार्थः ३ । अपरिमिताश्च पदार्थाः । यथा
स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणामर्थानामुपप-
त्तिर्दृश्यते तत्र योऽर्थः पूर्बापरयोगसिद्धोभवति स ग्रही-
तव्यो यथा । वेदोत्पत्तिं व्याख्यास्याम इत्युक्ते सन्दि-
ह्यते बुद्धिः । कतमस्य वेदस्यायमुत्पत्तिं पिवक्षुरिति ।
ऋग्वेदादयस्त्रयोवेदास्तत्र पूर्वापरयोगमुपलभ्य विद--वि-
चारणे विन्दत्येतयोश्च धात्वोरनेकार्थयोः प्रयोग इति
पश्वात्प्रतिप्रत्तिर्भवति । आर्युवेदोत्पत्तिमयं विवक्षुरित्येवं
पदार्थः । यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वर्थः ४ ।
यथा मृत्पिण्डोऽद्भिः प्रक्लिद्यते यथा माषदुग्धप्रभृति-
भिर्व्रणः प्रक्लिद्यत इति । समासकथनमुद्देशः ५ । यथा
शल्यमिति । विस्तरवचनं निर्देशः ६ । यथा । शारीरमा-
गन्तुकं चेति । एवमित्युपदेशः ७ । यथा “तथा न जागृ-
याद्रात्रौ दिवा स्वप्नञ्च वर्जयेत्” अनेन कारणेनेत्युपदेशः ।
यथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति । प्रकृतस्या-
तिक्रान्तेन साधनं प्रदेशः ८ । यथा देवदत्तस्यानेन शव्य-
पृष्ठ ३२२८
मुद्धृतं तस्माद्यज्ञदत्तस्याप्ययमेवोद्धरिष्यतीति । प्रकृत-
स्यानागतेन साधनमतिदेशः ९ । यथानेनास्य वायुरूर्द्ध-
मुपतिष्ठते तेनोदावर्त्तः स्यादिति । अभिव्याप्यापकर्षण-
मपवर्गः १० । यथा स्वेद्या विषापसूष्टा अन्यत्र कीटवि-
षादिति । येन पदेनानुक्तेन वाक्यं समाप्यते स वाक्य-
शेषः ११ । यथा शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते
पुरुषग्रहणमपि गम्यते पुरुष एवोक्त इति । यदकीर्त्ति-
तमर्थादापद्यते सार्थापत्तिः १२ । यथौदनं भक्ष्ये इत्युक्तेऽ-
र्थादापन्नं भवति नायं पिपासुर्यवागूमिति । यद्यत्राभि-
हितं तस्य प्रातिलोम्यं विपर्य्ययः १३ । यथा कृशाल्पप्राण-
भीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढ़ा-
दयः सुचिकित्स्या इति । प्रकरणान्तरेण समापनं
प्रसङ्गः १४ । यथा प्रकारणान्तरितोयमर्थोऽसकृदुक्तः
समाप्यते स प्रसङ्गः महाभूतशरीरसमवायः पुरुषस्तस्मिन्
क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतविद्यायां
पुनरुक्तं यतोऽभिहितं पञ्चमहाभूतशरीरसमवायः
पुरुष इति स खल्वेवं कर्मपुरुषश्चिकित्सायामधिकृतः
सुर्वत्र । यदवधारेणोच्यते स एकान्तः १५ ।
“यथा तृवृद्विरेचयति मदनफलं वामयतीति । क्वचि-
त्तथा क्कचिदन्यथेति यः सोऽनेकान्तः १६ । यथा केचि-
दाचार्य्या ब्रुवते द्रव्यं प्रधानं केचिद्रसं केचिद्वीर्य्यं
केचिद्विपाकमिति । आक्षेपपूर्बकः प्रश्नः पूर्बपक्षः १७
यथा कफवातनिमित्ताश्चत्वारः प्रमेहा असाध्या
भवन्तीति । तस्योत्तरं निर्णयः १८ । यथा शरीरं प्रपीड्य
पश्चादधोगत्वा वसामेदोमज्जानुविद्धं मूत्रं प्रसृजति वात
एवमसाध्या वातजा इति । तथाचोक्तम् “कृत्स्नं
शरीरं निष्पीड्य मेदोमज्जवसायुतः । अधः प्रकुप्यते वायु-
स्तेनासाध्यास्तु वातजाः” । परमतमप्रतिषिद्धमनुमतम् १९ ।
यथान्यो ब्रूयात्सप्त रसा इति । प्रकरणानुपूर्व्याभिहितं
विधानम् २० । यथा सक्थिमर्म्माण्येकादशप्रकरणानुपू-
र्व्याभिहितानि । एवं वक्ष्यतीत्यनागतावेक्षणम् २१ । यथा
श्लोकस्थाने ब्रूयाच्चिकित्सितेषु वक्ष्यामीति । यत्पूर्बमुक्तं
तदतिक्रान्तावेक्षणम् २२ । यथा चिकित्सितेषु ब्रूयात् श्लोक
स्थाने यदीरितसिति । उभयहेतुदर्शनं संशयः २३ । यथा
तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनं प्राण-
हरमिति । तत्रातिशयोपवर्णनं व्याख्यानम् २४ । यथेह
पञ्चविंशतिकः पुरुषोऽत्र व्याख्यायते । अन्येष्वायुर्वेद-
तन्त्रेषु भूतादिप्रकृत्यारब्धचिन्ता । अन्यशास्त्रासा-
मान्या स्वसंज्ञा २५ । यथा मिथुनमिति मधुसर्पिषोर्ग्रह-
णम् । लोके प्रथितमुदाहरणम् २६ । यथोष्णभयाच्छीतम-
नुधावति । निश्चितं वचनं निर्वचनम् २७ । यथायुर्विद्यतेऽ-
स्मिन्ननेन वायुर्विन्दतीत्यायुर्वेदः । दृष्टान्तैनार्थः प्रसाध्यते
यत्र तन्निदर्शनम् २८ । यथाग्निर्वायुना सहितः कोष्ठे
वृद्धिं गच्छति तथा वातपित्तकफजोदुष्टव्रण इति । इदमेब
कर्त्तव्यमिति नियोगः २९ । यथा पथ्यमेव भोक्तव्यमिति ।
इदं वेति विकल्पः ३० । यथा रसौदनः सवृता यवागूर्व्वा
इदञ्चेदञ्चेति समुच्चयः ३१ । यथा मांसवर्गे ऐणहरिण-
लावतित्तिरिशारङ्गाः प्रधानमिति । यदनिर्दिष्टं बुद्धिमता
तदूह्यम् ३२ । यथाभिहितमन्नपानविधौ चतुर्विधञ्चान्नमु-
पदिश्यते । भक्ष्यं भोज्यं लेह्यं पेयमेवञ्चतुर्विधे वक्तव्ये
द्विविधमतिहितमत्रोह्यमिति । अन्नपाने विशिष्य
द्वयोर्ग्रहणे कृते चतुर्णामपि ग्रहणं भवति किञ्चा-
न्यत् । अन्नेन भक्ष्यमवरुद्धं त्वन्नसाधर्म्यात् । पेयेन
लेह्यं द्रवसाधर्म्यात् । चतुर्विधश्चाहारः प्रायेण द्विविधः
प्रसिद्ध इति । द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे ।
गया सम्यग्विनिहिताः शब्दन्यायार्थसंयुताः । योह्येता
विधिवद्वेत्ति दीपोभूतास्तु बुद्धिमान् । स पूजार्हो
भिषक् श्रेष्ठ इति धन्वन्तरेर्मतम् ।”

तन्त्रवाय(प) पु० तन्यते तन--कर्म्मणि ष्ट्रन् तन्त्रं

सूत्रं वयति वपति वा वे--वप--वा अण् उप० स० ।
(ताँति) ख्याते १ सङ्कीर्णजातिभेदे स्त्रियां जातित्वात्
ङीष् योपधस्य तु टाप् इति भेदः । तदुत्पुत्तिः
पराशरपद्धतावुक्ता यथा “ताम्रकुट्टाच्छङ्खकार्य्यां मणिकारश्च
जायते । मणिकारात् ताम्रकुट्ट्यां मणिबन्धोऽत्र जायते
मणिवन्धान्मणिकार्य्यां तन्त्रवायाश्च जज्ञिरे” । मनूक्त-
स्त्वस्माद्भिन्नः । आधारे घञ् ६ त० । २ तन्त्रे (ताँत)
पुंन० शब्दरत्ना० ।

तन्त्रहोम पु० तन्त्रेण होमः । परिसमूहनवर्हिरास्तरण

युक्ते होमे क्षिप्रहोगशब्दे दृश्यम् । तन्त्रमप्यत्र ।
“अङ्गहोमसमित्तन्त्रं शोषन्त्याख्येषु कर्मसु” छन्दोगप०

तन्त्रा स्त्री तत्रि--भावे अ । ईषन्निद्रायां तन्द्रायां द्विरूपको० ।

तन्त्रायिन् पु० तन्त्रे कालचक्रे एतिर्गच्छति णिनि ७ त० ।

कालचक्रगामिनि सूर्य्यादौ । “तन्त्रायिणे नमोद्या-
वापृथिवीभ्याम्” यजु० ३८ । १२ तन्यतेऽनेन तन्त्रं
पटरचनाय शलाकायुक्तं यन्त्रभेदः तद्वत् नभञ्चि
कालचक्रमपि तन्त्रमुच्यते” वेददी० ।
पृष्ठ ३२२९

तन्त्रिका स्त्री तन्त्रयते तत्रि ई ततः स्वार्थे क पूर्वाणो

ह्रस्वः । गुडूच्याम् । अमरः ।

तन्त्रि स्त्री तत्रि--इ । १ तन्त्र्याम् २ तन्द्रायां च “व्यपेततन्त्रि

र्धर्म्मात्मा शक्त्या सत्समयाश्रितः” भा० आनु० १ । ४२ अ० ।

तन्त्रित त्रि० तन्त्रा तन्द्रा जाताऽस्य तार० इतच् ।

आलस्ययुक्ते “धार्मिको नित्यभक्तश्च पितुर्नित्यमतन्त्रितः”
भा० शा० १२७१३ । “गव्यं दीर्वेण कालेन युक्तेनात-
न्त्रितेन च” भा० आनु० १६२ अ० । “अतन्त्रिता सा
स्वयमेव वृक्षकान्” कुमा० ।

तन्त्रिपाल पु० सहदेवे तन्तिपालशब्दे दृश्यम् ।

तन्त्रिपालक पु० जयद्रथराजे शब्दम० ।

तन्त्री स्त्री तत्रि--ई । १ वीणागुणे २ गुडूच्यां ४ देहसिरायां

मेदि० । “स ददर्श श्वमांसस्य कुतन्त्रीं विततां मुनिः”
भा० शा० १४ अ० । ४ नदीभेदे ५ नाड्यां ६ युवतीभेदे शब्दर० ।
अस्य ङीवन्तत्वाभावेन बहुव्रीहौ स्वाङ्गे नाडीतन्त्रयोः
पा० न कप् तदभावेऽपि न ह्रस्वः । बहुतन्त्रीर्ग्रीवा
बहुतन्त्रीर्धमनी” सि० कौ० । स्वाङ्ग इत्युक्तेः बहुतन्त्रीका
वीणेतादो कप् । “सप्ततन्त्री प्रथिता चैव वीणा”
भा० व० १३४ अ० । अस्वाङ्गत्वेऽपि आर्षत्वात् न कप् ।
७ रज्जौ “न लङ्घयेत् वत्सतन्त्रीं” मनुः “यस्य वाचा प्रजाः
सर्वा गावस्तन्त्र्येव यन्त्रिताः” भाग० ३ । १५ । ८ । ८ वीणा-
याञ्च “कण्डूयमानः सततं लोकानटति चञ्चलः । घट्ट-
यानो नरेन्द्राणां तन्त्रीर्वैराणि चैव ह” हरिवं० ५७ अ० ।

तन्त्वग्र न० ६ त० । तन्तूनामग्रे ततोगहा० छ । तन्त्वग्रीय

तद्भवादौ त्रि० ।

तन्थी(स्थी) अव्य० तन--बा थी । उर्म्यादिगणे तस्थीत्यत्र

पाठान्तरम् पृषो० । स्वीकारे अभ्युपगमे । गतिसंज्ञकत्वात्
समासे तन्थी(स्थी)कृत्य ।

तन्द्रा स्त्री तद्रि--भावे अ । १ ईषन्निद्रायाम् २ आलस्ये च

हेमच० “तमोवातकफात्तन्द्रा” इति वैद्यकम् तल्लक्षणञ्च
“इन्द्रियार्थेष्यसंवित्तिर्गौरवं जृम्भणं क्लमः । निद्रार्त्तस्येव
यस्येहा तस्य तन्द्रां विनिर्द्दिशेत्” माधवः
“शुचिर्गुरुवचोदक्षस्तन्द्रानिद्राविवर्जितः”
“विषयेन्द्रियसंमोषस्तन्द्रालस्यविवर्जनम्” याज्ञ० । निद्रायां
प्रबुद्धस्य क्लमाभावः । तन्द्रायां तु प्रबुद्धस्यापि क्लम इत्य-
नयोर्भेदः । तन्द्रा च सुखस्य मार्य्या निद्रायाः कन्या
प्रीतेर्भगिनी यथाह “निद्राकन्या च तन्द्रा सा प्रीति-
रन्या सुखप्रिये । याभ्यां व्याप्तं जगत्सर्वम्” शब्दार्थचि०
धृतवाक्यम् ३ पङ्क्क्तिछन्दसि न० । “तन्द्रं छन्दः”
यजु० १५ । ५ । तद्रि सादे मोहे च तन्द्रति सीदति
स्थानसंकोचेनेति तन्द्रं श्रेणी “पङ्क्तिर्वै तन्द्रं
छन्दः” इति श्रुतेः” वेददी०

तन्द्रयु त्रि० तन्द्रामालस्यं याति या--कु पृषो० । आलस्ययुक्ते

“मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानाम्” ऋ० ८ । ९२ । ३०
“तन्द्रयुरालस्ययुक्तः” भा०

तन्द्रवाप पु० तन्त्रवाप + पृषो० । तन्द्रवाये शब्दार्थचि० ।

तन्द्रालु त्रि० सौ० तद्रि--आलुच् । १ ईषन्निद्रायुक्ते २ आलस्य-

युक्ते च जटाधरः ।

तन्द्रि स्त्री सौ० तदि--क्रिन् । १ ईषन्निद्रायाम् २ आलस्ये च

उणादिको० “विभक्तनक्तन्दिवमस्ततन्द्रिणा” किरा० । तद्रि--ई
तन्द्रीत्यपि तत्रार्थे अयं न ङीबन्तस्तेन न सुलोपः । तन्द्रीश्च
अत्यन्तश्रमादिना सर्वाङ्गेन्द्रियाप्रभुत्वम् । सर्वाङ्गेन्द्रिय-
निमीलनापादकत्वात् तथात्वम् । “क्षुघा च तन्द्र्या च
विपन्नतां गतः” रामा० अयो० ८० अ० । “गततन्द्री-
क्लमौ वापि क्षणेनैतौ महारथौ” २८८ अ० । जिततन्द्रीः
गततन्द्रीः इत्थादौ ङीबन्तत्वाभावान्न ह्रस्वः न वा कप् ।

तन्द्रिज पु० यदुवंश्ये कनवकनृपपुत्रभेदे “तन्द्रिजस्तन्द्रिपालश्च

सुतौ कनवकस्य तु” हरिवं ३५ अ० ।

तन्द्रित त्रि० तन्द्रा जाताऽस्य तार० इतच् । जातालस्ये “य

इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः” “अतन्द्रिता सा
स्वयमेव वृक्षकान्” कुमा० । अतन्त्रितेति पाठान्तरम् ।

तन्द्रिपाल पु० यदुवंश्ये कनवकनृपपुत्रभेदे तन्द्रिजशब्दे दृश्यम्

तन्नि स्त्री तन्नयति नी--बा० डि । (चाकुल्या) चक्रकुल्यायां

रत्नमाला । तन्विरित्यपि पाठः । पृषो० ।

तन्वी स्त्री तनुः कृशा स्त्री गुणवचनोदन्तत्वात् वा ङीष् ।

१ कृशाङ्ग्यां स्त्रियां तनुशब्दे उदा० “अप्रभूतमतनीयसि
तन्वी” माघः । २ शालपर्ण्यां (शालपान) राजनि०

तन्मय त्रि० तदात्मकम् तद् + मयट् । तदात्मके “तन्मयं विद्धि

मां विप्र! धृतोऽहं यैर्मया च ते” हरिवं १६९ अ० ।

तन्मात्र न० तदेव एवार्थे मात्रच् सा मात्रा यस्य वा । सांख्या-

दिसिद्धेषु शब्दादिषु नत्वेषां शान्तादिर्विशेषोऽस्ति । यथोक्तं
विष्णुपुराणे “तस्मिं तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता
स्मृता । तन्मात्राण्यविशेषाणि अविशेषास्ततो हि ते । न
शान्ता नापि घोरास्ते न मूढ़ाश्चाबिशेषिणः” इति ।
“तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते
स्मृता विशेषाः शान्ता घोराश्च मूढ़ाश्च” सा० का० ।
पृष्ठ ३२३०

तन्यतु पु० तनोति शब्दं तमो वा तन--यतुच् । १ वायौ

२ रात्रौ च उज्वल० । स्तन--शब्दे बा० यतुच् सलोपश्च ।
३ गर्जिते ४ अशनौ च माधवः । “न वेपसा न तन्यतेन्द्रम्”
ऋ० १ । ८० । १२ भाष्ये उक्तैव व्युत्पत्तिः । तन्यता गर्जितेन
छान्दस उत आच् । “आविष्कृणोमि तन्यतुर्वृष्टिम्”
वृ० उ० । “तन्यतुः पर्जन्यः” भा० ।

तन्यु त्रि० तन + बा० ल्यु न अनादेशः । विस्तृते “रजांसि

चित्रा वि चरन्ति तन्यवः” ऋ० ५ । ६३ । ५ ।

तन्विन् पु० तामसमनोरपत्यभेदे । “तपोरतिरकल्माषस्तन्वी

धन्वी परन्तपः” हरिवं० ७ अ० ।

तप उपतापे सक० ऐश्वर्य्ये अक० दि० आ० अनिट् । तप्यते अतप्त ।

तेपे तप्ता तप्स्यते तप्तः तप्तिः ।
  • अव--अधस्तासे । अवतप्तेनकुलस्थितम्” सि० कौ० ।
  • आ + सम्यक्तापे । आतप्तजाम्बूनदभूषिताङ्गः” हरिवं ९ अ०
  • अनु + सन्तततापे अनुशोचने च । “अनुतप्ये भृशं तात! तव
घोरेण कर्मणा” भा० व० १३७२० श्लो० । “अन्वतप्यत
धर्मात्मा पुत्रं संचिन्त्य तापसम्” रामा० अयो० ४ अ० ।
“वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः” भा० व० २७ अ०

तप दाहे चु० उभ० सक० सेट् । तपयति-ते अतीतपत्-त ।

“संप्रत्ययोग्यस्थितिरेष देशः करा हिमांशोरपि तापयन्ति”
उद्भटः । “न हि तापयितुं शक्यं सागराम्भस्तृणोल्कया”
हितो० “कोऽत्र भूमिवलये जनान् मुधा तापयन् सुचि-
रमेति सम्पदम्” माघः ।
  • अव + अधोभागे तापने “अथावताप्य पृथिवीं पूषा दिवससं-
क्षये । जगामास्तं सहस्रांशुः” भा० उ० १८० अ० ।

तप दाहे भ्वा० उभ० सक० सेट् । ज्वलने निरु० तपति--ते

अतापीत्--अतपीत् अतपिष्ट । तताप तेपे तपिष्यति ते
“वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः” भा० अनु०
१४ अ० । “त्वमेकैकस्तपसे जातवेदाः” भा० आ० २३२ अ०
“तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च” गीता
“तमस्तपति घर्मांशौ” शकु० । तपःकर्म्मकत्वेऽस्य
कर्त्तर्य्यपि यक् तङ च तप्यते तपस्तापसः ।
  • अभि + पर्य्यालोचने “पृथिवीमन्तरिक्षं दिवं ताल्ल्ॐका-
नभ्यतपत्” ऐत० व्रा० अभ्यतपत् पर्य्यालोचितवान् ।
  • उद् + दीप्तौ अक० आत्म० स्वाङ्गकर्मकत्वे सक० आत्म० “उत्त
पते दीप्यते इत्यर्थः” सि० कौ० । पाणिमुत्तपते ।
स्वाङ्गेत्युक्तेः प० मैत्रस्य पाणिमुत्तपति” अन्यकर्मणि तु
प० । उत्तपति सुवर्णं विलापयतीत्यर्थः” सि० कौ० ।
“तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः” भट्टिः ।
“करणं कुसुमेषुरुत्तपति यद्विशिखः” माघः ।
  • उप + पीडाजन्यतापे “आहिताग्निश्चेदुपतपेत्” आश्व० गृ०
४ । १ । १ । उपतपेत् व्याधिभिरुत्पीड्येतेत्यर्थः ।
  • नि + नितरां तापे । “तदाहुर्निशोचति नितपति वर्षिष्यति
वा” छा० उ० ।
  • निस् + निःशेषेण तापे पौनः पुन्य न तापे षत्वम् । “दग्धै-
कदेशा बहवो निष्टप्ताश्च तथापरे” भा० आ० २२६ अ० ।
निष्टपति सुवर्णम् आसेवने तु नष त्वं निस्तपति सुवर्णं
सुवर्णकारः । “यस्तु सूर्य्येण निष्टप्तं गाङ्गेयं पिबते
जलम्” भा० आनु० २२६ अ० । षत्वे उभयतका ग्रहणम् ।
  • प्र + प्रकर्षेण तापे विक्रमहेतुके तापे च “भासस्तवोग्राः
प्रतपन्ति विष्णो!” गीता “सूर्य्यः प्रतपतां श्रेष्ठः”
भा० वि० ४२ श्लो० “भास्करात प्रतपिष्यतः” भा० व०
१९० अ० “द्वितीयस्येव सूर्य्यस्य युगान्ते प्रतपिष्यतः” भा०
व० २२ अ० ।
  • वि + उत्तापवत् सर्वम् । “रविर्वितपतेऽत्यर्थम्” भट्टिः दीप्यते
इत्यर्थः पाणिं वितपते मैत्रस्य पाणिं वितपति सुवर्णं
वितपतीत्यादि । “वितपन्नरातिम्” अथ० १२ । २ । ४५
  • सम् + सम्यक्तापे । “दत्त्वापि च धनं काले सन्तपत्युः-
कारिणे” भा० शा० १६४ अ० ।

तप पु० तप--अच् । १ ग्रीष्मे ज्यैष्ठाषाढ़ात्मके ऋतौ अमरः ।

“तपेन वर्षाः शरदा हिमागमः” माघः । “तपर्त्तुपूर्त्ता-
वपिमेदसाम्भराः” नैष० “तपात्यये वारिभिरुक्षिता-
नवैः” कुमा० । किञ्चित् कर्म्मोपपदे तापेः खच् ह्रस्वश्च
२ तत्तापके परन्तपः भावे अप् । ३ तपसि च “अश्म-
कुट्टा निरशना दशपञ्चतपा इमे” हरिवं ४६ अ० ।

तपः(स्क)कर त्रि० तपः करोति अच् वा विसर्गस्य सः ।

१ तपःकारके (तपसी) २ मत्स्यभेदे पुंस्त्री शब्दरत्ना० ।
स्त्रियां जातित्वात् ङीष् ।

तपःक्लेशसह त्रि० तपसः क्लेशं सहते सह--अच् । इन्द्रि-

यसंयमादिकारके तपस्विनि अमरः ।

तपःस्थली स्त्री ६ त० । १ काश्यां त्रिका० । २ तपस्यास्थलमात्रे च

तपती स्त्री । सूर्य्यस्य कन्यायां संवरणनृपस्य भार्य्यायां कुरुरा-

जमातरि । “ततः संवरणात् सौरी तपती सुषुवे कुरुम्”
मा० आ० ९४ अ० । “संवरणः खलु वैवस्वतीं तपतीं
नामोपयेमे तस्यामस्य जज्ञे कुरुः” ९५ अ० । १७१ अ० ।
तत्कथा “अर्जुन उवाच तापत्य इति यद्वाक्यमुक्तवा-
पृष्ठ ३२३१
नसि मामिह । तदहं ज्ञातुमिच्छामि तापत्यार्थविनि-
श्चयम् । तपतोनाम का चैषा तापत्या यत्कृते वयम् ।
कौन्तेया हि वयं साधो! तत्त्वमिच्छामि वेदितुम् ।
वैशम्पायन उवाच । एवमुक्तः स गन्धर्वः कुन्तीपुत्रं
धनञ्जयम् । विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ।
गन्धर्व उवाच । हन्त ते कथयिष्यामि कथामेतां
मनोरमाम् । यथावदखिलां पार्थ! सर्वबुद्धिमतांवर! ।
उक्तवानस्मि येन त्वां तापत्या इति यद्वचः” ।
“य एष दिवि घिष्ण्येन नाकं व्याप्नोति तेजसा । एतस्य
तपती नाम बभूव सदृशी सुता । विवस्वतो वैदेवस्य सावित्र्य-
वरजा विभोः । विश्रुता त्रिषु लोकेषु तपती तपसा युता ।
न देवी नासुरी चैव न यक्षी न च राक्षसी । नाप्सरा
न च गन्धर्वी तथा रूपेण काचन । सुविभक्ताऽन-
वद्याङ्गी स्वसितायतलोचना । स्वाचारा चैव साध्वी च
सुवेशा चैव भामिनी । न तस्याः सदृशं किञ्चित् त्रिषु
लोकेषु भारत! । भर्त्तारं सविता मेने रूपशीलगुण-
श्रुतैः । सम्प्राप्तयौवनां पश्यन् देयां दुहितरन्तु ताम् ।
नोपलेभे ततः शान्तिं सम्प्रदानं विचिन्तयन् । अथर्क्षपुत्रः
कौन्तेय! कुरूणामृषभो बली । सूर्य्यमाराधयामास
नृपः संवरणस्तदा । अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च
नियतः शुचिः । नियमैरुपवासैश्च तपोभिर्विविधैरपि ।
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः । अंशुमन्तं
समुद्यन्तं पूजयामास भक्तिमान् । ततः कृतज्ञं धर्मज्ञं
रूपेण सदृशं भुवि । तपत्याः सदृशं मेने सूर्य्यः
संवरणं पतिम् । दातुमेच्छत्ततः कन्यां तस्मै संवरणाय
ताम् । नृपोत्तमाय कौरव्य! विश्रुताभिजनाय च” ।
भा० आ० १७१ अ० ।

तपन पु० तप--ल्यु । १ सूर्त्ये २ भल्लातकवृक्षे । ३ अग्न्यादौदाह

युक्ते नरकभेदे ४ ग्रीष्मे च हेम० । ५ अर्कवृक्षे
६ क्षुद्राग्निमन्थवृक्षे ७ सूर्य्यकान्तामणौ च राजनि० ।
“पञ्चमः पञ्चतपसां तपनो जातवेदसाम्” माघः ।
स्त्रीणां यौवने ८ सत्वजातावङ्कारभेदे न० सा० द० ।
“यौवने सत्वजास्तासामष्टाविंशन्तिसख्यकाः ।
अलङ्काराः इत्युपक्रमे “विकृतं तपनं मौग्ध्यम्”
इत्यादिना विभज्य “तपनं प्रियविच्छेदे स्मरावे
शोऽथ चेष्टितमिति” लक्षितम् । ९ अग्निभेदे पु०
“ते जातवेदसः सर्वे कल्माषः कुसुमस्तथा । दहनः
शोषणश्चैव तपनश्च महाबलौ । स्वाहाकारस्य विषये
विख्याताः पञ्च वह्नयः” हरिवं १८० अ० । १० शिवे पु० ।
“यज्ञवाहाय दान्ताय तप्याय तपनाय च” भा० शा०
२८६ अ० शिवस्तुतिः भावे ल्युट् । ११ तापेन० धरणिः ।

तपनच्छद पु० तपनप्रियः छदोऽस्य । दमनकवृक्षे राजनि०

तपनतनय पु० ६ त० । १ यमे २ यमुनायां, ३ शमीवृक्षे च

स्त्री राजनि० । ४ कर्णे ५ सुग्रीवे च पु० तपनसुतादयोऽप्यत्र ।

तपनमणि पु० तपनतेजस्को मणिः । सूर्य्यकान्तमणौ राजनि०

तपनात्मजा स्त्री ६ त० । १ गीदावरीनद्यां हेम० । २ यमुनायां

च । ३ यमे ४ कर्णे ५ सुग्रीवे च पु० ।

तपनी स्त्री तप्यते पापमनया तप--ल्युट् ङीप् । गोदावर्य्यां नद्यां हेमच० ।

तपनीय न० तप--अनीयर् । १ स्वर्णे कनकधुस्तूरे च अमरः ।

“भव्यानि तु तपनीयसंक्रमस्य” माघः । “असंस्पृशन्तौ
तप्रनीयपीठम्” रघुः । स्वार्थे क । तपनीयक सुवर्णे राजनि० ।

तपनेष्ट न० ६ त० । ताम्रे धातौ राजनि० । तद्धातोः

सूर्य्यप्रियत्वात् तथात्वम् ।

तपस् न० तप--असुन् । आलोचनात्मके ईश्वरज्ञानभेदे अन्त-

र्य्यामिब्राह्मणभाष्ये दृश्यम् । २ लग्नावधिक-
नवमस्थाने ज्यो० ३ स्वाश्रमविहितकर्मणि ४ वैधक्लेशजनके
कर्मणि । “तपोतानशनात्परम्” । ५ क्षुत्पिपा-
साशीतोष्णादिद्वन्द्वसहने । ६ चित्तप्रसादहेतुभूते व्रतनिय-
मोपासनादिकर्मणि । ७ मौनादिव्रते” ८ कायेन्द्रियमनसां
समाधाने ९ शास्त्रीयमार्गेण कायेन्द्रियमनसां शोषणे ।
१० कृच्छ्रचान्द्रायणप्रजापत्यादिरूपे प्रायश्चित्ते । ११ शास्त्र-
विहिततप्तशिलारोहणादौ । १२ वानप्रस्थस्यासाधरणधर्मे ।
तपश्च शारीरादिभेदात् त्रिविधम् यथाह “देवद्विजगुरु-
प्राज्ञपूजनं शौचमार्जवम् । व्रह्मचर्य्यमहिंसा च
शारीरं तप उच्यते । अनुद्वेगकरं वाक्यं सत्यं
प्रियहितञ्च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप
उच्यते । मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत् तपोमानसमुच्यते” गीता । तदपि
सात्त्विकादि भेदात् त्रिविधम् यथाह “श्रद्धया परया तप्तं
तपस्तत् त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तं सात्विकं
परिचक्षते । सत्कारमानपूजार्थं तपोदम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् । मूढ़ग्राहेणा-
त्मनो यत् पीड़या क्रियते तपः । परस्योत्सादनार्थं वा
तत् तामसमुदाहृतमिति” गीता । १३ मनैन्द्रियाणामै-
काग्र्ये “मनसश्चेन्द्रियाणाञ्च ह्यैकाग्र्यं परमन्तपः”
इत्युक्तेः १४ जनोलोकादुर्द्धस्थे लोकभेदे । “तस्योपरि तपो-
पृष्ठ ३२३२
लोकस्तेजोमय उदाह्वतः । वैराजा यत्र ते देवा वसेयुर्द्देव
पूजिताः । वासुदेवे मनो येषां वासुदेवाऽर्पितक्रियाः ।
तपसातोष्य गोविन्दमभिलाषविवर्जिताः । ते
तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः । शिलोञ्छवृत्तयो
ये वै दन्तोलूखलिकाश्च ये । येऽश्मकुट्टाश्च मुनयः शीर्ण-
पर्णाशिनश्च ये । ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डि-
लेशयाः । हेमन्ते शिशिरे वा ये क्षपन्ति सलिले क्षपाः ।
कुशाग्रनीरविन्दूंश्च तृषिता यतयोऽपिबन् । वाताशि-
नोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः । ऊर्द्ध्वहस्ता
रविदृशस्त्वेकाक्षिस्थाननिश्चलाः । ये वै दिवा
निरुच्छ्वासा मासोच्छ्वासाश्च ये परे । मासोपवासं कुर्वन्ति
चातुर्म्मास्यव्रताश्च ये । ऋत्वन्ते तोयपाना ये ये षण्मा-
सोपवासकाः । ये च वर्षानिमेषा वै वर्षधाराम्बुत-
र्षकाः । स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः ।
जटाटवीकोटरान्तःकृतनीड़ाण्डजाश्च ये । प्ररूढ़
बल्मीकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः । लताप्रतानैः
परितो वेष्टितावयवाश्च ये । शस्यानि च प्ररूढ़ानि
यदङ्गेषु महीपते । इत्येतैर्नियमैर्ये तु क्लिष्टात्मानस्तपो-
धनाः । ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः” । १५ माघे
मासि “तपाश्च तपस्यश्च शैशिरावृतू” यजु० २७ । २४
“तपसे त्वा” यजुः ७ । ३० । तपसे माघाय । तपति सूर्यो
यत्र अमुन् तपाः” वेददी० । तत्र हि उत्तरायणप्रवृत्तौ रवेः
प्रखरकरता अतएवाह “मकरे प्रखरो रविः” । १६ धर्मे
“विनाप्यस्मदलं भूष्णुरिज्यायैतपसः सुतः” माघः १७
नियमे “समाधिमास्थाय तपोभिरात्मनः” निशम्य चैनां तपसे
कृतोद्यमाम्” “तपः क्व वत्से क्व च तावकं वपुः” कुमा०
“तपसा किल्विषं हन्ति विद्ययाऽमृतमश्नुते” वेदान्तप० ।
“तमेतं ब्राह्मणा विविदिषन्ति वेदानुवचनेन यज्ञेन तपसा
नाशकेन” श्रुतिः । “ब्राह्मणस्य तपो ज्ञानं तपःक्षत्रस्य
रक्षणम् । वैश्यस्य तु तपोवार्त्ता तपः शूद्रस्य सेवनम्” मनुः
तपश्च योगसाधनं क्रियायोगभेदः यथोक्तं पात० सू० भाष्य-
विवरणेषु “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः”
सू० । “नातपस्विनो योगः सिद्ध्यति अनादिकर्मक्लेशवा-
सनाचिता प्रत्युपस्थितविषयजाला चाशुद्धिः नान्तरेण
तपःमम्भेदमापद्यते इति तपस उपादानं तच्चित्तप्रसादन-
मबाधमानमनेनासेव्यमिति मन्यते” भा० । “व्यतिरेक-
मुखेन तपस उपायत्वमाह नातपस्विन इति तपसो-
ऽवान्तरव्यापारमुपायोपयोगिनं दर्शयति अनादि
कर्म्मेति । अनादिभ्यां कर्मक्लेशवासनाभ्यां चिता अतएव
प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा तथोक्ता ।
अशुद्धीरजस्तमःसमुद्रेको नान्तरेण तपःसम्भेदमापद्यते
सान्द्रस्य नितान्तविरलता सम्भेदः ननूपादीयमानमपि
तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं
तदुपाय इति । अत आह । तच्चेति तावन्मात्रमेव
तपश्चरणीयं न यावता धातुवैषम्यमापद्यतैत्यर्थः”
विवरणम् । १८ अग्नौ तपोजाः ।

तपस पु० तप--असच् । १ सूर्य्ये २ चन्द्रे त्रिका० । ३ खगे सि० कौ०

तपसोमूर्त्ति पु० चतुर्थमन्वन्तरे आङ्गिरसे सप्तर्षिभेदे तपोधृति

शब्दे दृश्यम् ।

तपस्तक्ष पु० तपस्तक्षति तक्ष--अण् उप० स० ।

इन्द्रे हेमच० । तस्य इतरतपस्याद्वेषित्वात् तथात्वम् ।

तपस्य तपः करोति तपस् + कृतौ क्यच् अक० सेट् ।

तपस्यति अतपस्यीत् अतपसीत् तपस्या । “स्थाणुं
तपस्यन्तमधित्यकायाम्” कुमा० ।

तपस्य पु० तपसि साधु यत् । १ फाल्गुनें मासि अमरः ।

“तपाश्च तपस्यश्च शैशिरावृतूः यजु० १५ । ५७ “तपस्याय त्वा”
७ । ३० । २ अर्जूने तस्य फाल्गुननामकत्वात् तथात्वम् । भावे अ ।
तपस्या । ३ तपश्चर्य्यायां स्त्री । तपसि भवः यत् । ४ तपोभवे
त्रि० “स्विद्याच्चेत् तपस्याभ्योऽद्भ्यः स्वाहा” कात्या०
श्रौ० २५ । ११ । २८ । तपस्य--भावे घञ् । ५ तपश्चरणे पु० ।
“अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ”! भा० आनु० ९ अ० ।
तामसस्य मनोः ६ पुत्रभेदे पु० “पुत्रांश्चैव प्रवक्ष्यामि तामसस्य
मनोर्नृप! छत्रिस्तपस्यः सुतपास्तपोमुलस्तपोऽशनः ।
तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः” हरिवं० ७ अ०

तपस्यामत्स्य पु० स्त्री (तपसी) । मत्स्यभेदे शब्दर० ।

तपस्विन् त्रि० तपस् + अस्त्यर्थे विनि । १ तापसे, २ चान्द्रायणा-

दिव्रतधारिणि, ३ अनुकम्प्ये, ४ दीने ५ प्रशस्ततपोयुक्ते च ।
स्त्रियां ङीप् “किं किं व्यवस्यति न वेद्मि तपस्विनी
सा” सा० द० । “नवप्रसूतिर्वरटा तपस्विनी”
नैष० । “कस्तपस्विविशिखेषु चादरः” किरा० ।
“पूर्य्यमाणमदृश्याग्निप्रत्युद्यातैस्तपस्विभिः” रघुः
तपस्विभ्योऽधिको योगी” गीता ६ नारदे पु० शब्दरत्ना०
७ तपस्यामत्स्यभेदे शब्दर० । ८ घृतकरञ्जवृक्षे पु० ९ चटके
पुंस्त्री राजनि० स्त्रियां जातित्वात् ङीष् । १०
जटामास्यां ११ कटुरोहिण्यां स्त्री हेमच० गौ० ङीष् । १२
महाश्रावणिकायाः स्त्री भावप्र० हरिवंशोक्ते चतुर्थमन्व-
न्तरे काश्यपे १३ ऋषिभेदे तपोधृतिशब्दे प्रमाणं दृश्यम् ।
भागवतोक्ते द्वादशमन्वन्तरे १४ सप्तर्षिभेदे तपोमूर्त्तिशब्दे
प्रमाणं दृश्यम् ।
पृष्ठ ३२३३

तपस्विपत्र पु० तपस्विप्रियं पत्रमस्य । दमनकवृक्षे राजनि० ।

तपात्यय पु० तपस्य ग्रीष्मस्यात्ययोऽवसानं यत्र काले ।

१ वर्षाकाले “तपात्यये वारिभिरुक्षिता नवैः” । कुमा० ।
“तपात्यये पुष्पफलैरुपेतं महावनं राष्ट्रपतिर्ददर्श” भा०
व० २४ अ० । ६ त० । २ ग्रीष्मस्यावसाने च ।

तपान्त पु० तपस्यान्तो यत्र । १ वर्षाकाले “ववर्ष शरवर्षेण

तपान्ते जलदो यथा” भा० भी० ५४ अ० । ६ त० ।
२ ग्रीष्मस्यावसाने च ।

तपित त्रि० भ्वा० तप--दाहे क्त । तप्ते द्विरूपकोषः ।

तपिनी स्त्री नदीभेदे शब्दार्थचि० ।

तपिष्ठ त्रि० अतिशयेन तप्ता तप्तृ + इष्ठन् तृणोलोपः ।

अतिशयेन तापके । “तपिष्ठेन शोचिषा यः सुराधाः”
ऋ० ४ । ५ । ४ ।

तपिष्णु त्रि० तप--बा० इष्णुच् । तापकर्त्तरि तपने ।

“महता तपसा देवस्तपिष्णुः सेवितो मया । प्रीतेन चाहं
विभुना सूर्य्येणोक्तस्तथाऽनघ!” भा० शा० ३२० अ० ।

तपीयस् त्रि० अतिशयेन तप्ता तप्तृ + ईयसुन् तृणोलोपः ।

१ भृशं तप्तरि २ तपस्याकारके “अतप्यतास्मिन् किल
लोकतापनं तपस्तपीयांस्तपतां समाहितः” भाग० २ । ९ । ९ ।

तपु त्रि० तप--उन् । १ तापके “तपोष्पवित्रं विततं दिवस्पदे”

ऋ० ९ । ८३ । २ “तपोः शत्रूणां तापकस्य” भा० । २
तापयुक्ते ३ तप्ते च । “तपुर्ययुस्तु चरुरग्नि वाँ इव” ऋ०
७ । १०४ । २ तपुस्तप्तः” भा०

तपुषि त्रि० तप--उसिन् वेदे नेकारस्य इत् । तापके ।

“व्रह्मद्विषे तपुषिं हेतिमस्य” ऋ० ३ । ३० । १७;६ । ५२ । ३ ।
“तपुषिस्तपतेर्हेतिर्हन्तेः” निरु० ६ । २ स्त्रियां कृदि-
कान्तत्वात् वा ङीप् । २ क्रोधे स्त्री निघण्टुः । क्रोधस्य
चित्ततापकत्वात् तथात्वम् ।

तपुस् पु० तप--उसि । १ सूर्य्ये २ अग्नौ च उणा० । ३ तापयुक्ते

४ तापये च त्रि० । “तपुर्जम्भ! यो अस्मध्रुक्” ऋ० १ ।
३६ । १६ हे तपुर्जम्भ! तप्यमानरश्मियुक्त! अग्ने!” भा०
“तपुरग्राभिरृष्टिभिः । १० । ८७ । २३ । “तपुरग्राभिस्तप-
नशीलाग्राभिः” भा० “तपूंषि तस्मै वृजिनानि सन्तु”
ऋ० ६ । ५२ । २

तपोज त्रि० तपसः तपस्यातः अग्नेर्वा जायते जन--ड । १

तपस्याजाते २ अग्निजाते अस्वप्सु स्त्री । “ऋषींस्तपस्वतो मम
तपोजा अपि गच्छतात्” ऋ० १० । १५४ । ५ “वाचो
बन्धुस्तपोजाः” यजु० १० । ६ “वाचो बन्धुः वाण्या
बन्धुभूताः “यावद्वै प्राणेष्वापो भवन्ति तावद्वाचा वदतीति”
श्रुतेः “आपोमयी वागिति” सामश्रुतेश्च । तथा तपोजा
तपःशब्देनात्राग्निरुच्यते तपसोऽग्नेर्जातास्तपोजाः
अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिरग्नेर्वा एता
जायन्ते तस्मादाह तपोजाः” इति श्रुतेः “वायोरग्निरग्ने-
राप” इति शत० ब्रा० ५ । ३ । ५ । १७ । श्रुत्यन्तरात्” वेददी०

तपोदान न० तप इव दानमत्र । तीर्थभेदे । “पुण्यतीर्थेषु

कलिलं कुरुक्षेत्रं प्रकीर्त्तितम् । सिन्धूत्तमस्तपोदानं
जम्बुमार्गमथापि च” भा० आनु० १६५ अ० ।

तपोधन त्रि० तपोधनं यस्य । तपोमात्रकारके १ तपस्विनि ।

“तपोधनाभ्यागमसम्भवामुदः” माघः तत्प्रियत्वात् २
दमनकवृक्षे पु० राजनि० । ३ मुण्डीरीवृक्षे स्त्री मेदि० । तप
एव धनम् । ४ तपोरूपधने न० । “यत्तु तावदतिक्रान्तं
धर्मद्वारं तपोधनम्” । भा० आनु० ५२ अ० । तपोधनं मूल्यं
यस्य । ५ तपसा लभ्ये स्वर्गादौ त्रि० “सर्वरत्नवरः स्वर्गे
पारिजातस्तपीधनः” हरिवं० १२८ अ० ।

तपोधृति पु० तपसि धृतिःसन्तोषो यस्य । १ तपोरते तपस्विनि

चतुर्थमन्वन्तरे २ भार्गवे सप्तर्षिभेदे “चतुर्थे चैव सावर्ण
ऋषीन् सप्त निबोध मे” इत्युपक्रमे “द्युतिर्वसिष्ठपुत्रश्च
आत्रेयः सुतपास्तथा । आङ्गिरास्तपसोमूर्त्तिस्तपस्वी
काश्यपस्तथा । तपोऽशनश्च पौलस्त्यः पौलहश्च
तपोरविः । भार्गवः सप्तमस्तेषां विक्षेपस्तु तपोधृतिः”
हरिवं० ७ अ० ।

तपोनिधि पु० तपो निधीयतेऽस्मिन् नि + धा--आधारे

कि उप० स० तपोनिधिरिव यस्य वा । तपोधने
तपस्विनि “विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम्”
रघुः । “पतत्पतङ्गप्रतिमस्तपोनिधिः” माघः ।

तपोभृत् त्रि० तपो बिभर्त्ति भृ--क्विप् तुक् च ६ त० । तपोधा-

रके “स्वर्गे तपोभृतां राजन्! फलं पुण्यस्य कर्मणः”
हरिवं० ८ अ० ।

तपोमय त्रि० तपःप्रचुरः तपःस्रष्टव्यपदार्थालोचनं

तदात्मको वा तपम् + मयट् । १ तपःप्रचुरे २ स्रष्टव्यपदार्था-
लोचनात्मके परमेश्वरे पु० । “त्रयीत्रयीधर्ममय-
स्तपोमयः” भाग० २ । ४ । १९ । स्त्रियां ङीप् । “प्रविश्य
वदरीं पुण्यां मुनिजुष्टां तपोमयीम्” हरिवं० २६४ अ० ।
“उपर्य्युपरि तत्रापि गतिस्तव तपोमयी” ७६ अ० ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/त&oldid=85307" इत्यस्माद् प्रतिप्राप्तम्