सामग्री पर जाएँ

वाचस्पत्यम्/झ-ण

विकिस्रोतः तः
← वाचस्पत्यम्/ज वाचस्पत्यम्/झ-ण
तारानाथ भट्टाचार्य
वाचस्पत्यम्/त →
पृष्ठ ३१८३

झकारो व्यञ्जनवर्णभेदोऽर्द्धमात्राकालोचार्य्यस्तस्यो-

च्चारणस्थानं तालु आभ्यन्तरप्रयत्नः जिह्वामध्येन
तालुनः स्पर्शः । बाह्यप्रयत्नाः संवारनादथोषामहाप्रा-
णश्च । मातृकान्यासेऽस्य वामकराङ्गलीमूले न्यस्यता ।
अस्य ध्येयरूपं कामधेनुतन्त्रे उक्तं यथा “झकारं
परमेशानि! कुण्डलीं मोक्षरूपिणीम् । रक्तविद्यु-
ल्लताकारं सदा त्रिगुणसंयुतम् । पञ्चदेवमयं वर्णं
पञ्चप्राणात्मकं सदा । त्रिविन्दुसहितं वर्णं त्रिशक्ति-
सहितं तथा” वर्णोद्धारतन्त्रे तदधिष्ठातृदेवतारूपं
यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने! ।
सन्तप्तहेमवर्णाभां रक्ताम्बरविभूषिताम् । रक्तचन्दन-
लिप्ताङ्गीं रक्तमाल्यविभूषिताम् । चतुर्द्दशभुजां देवीं
रत्नहारोज्ज्वलां पराम् । ध्यात्वा ब्रह्मस्वरूपां तां
तन्मन्त्रं दशधा जपेत्” । तस्य वाचकशब्दाः वर्णाभि-
धानतन्त्रे उक्ता यथा “झोझङ्कारी गुहो मार्गीझर्झरो
वायुः सस्वनः । अजेशो द्राविणी नादः पाशी जिह्वा
जलं स्थितिः । विराजेन्द्रो धनुर्हस्तः कर्कशः
नादजः कुहूः (कुजः) । दीर्थबाहूरसोरूपं ह्याकम्पितसुच-
ञ्चलम् । दुर्मुखो नष्ट आत्मवान् विकटा
कुचमण्ड(ङ्ग)लः । कलहंसप्रिया वामा वामाङुलसु-
पर्वकः । दक्षहासोऽट्टहासश्च पाण्यात्मा व्यञ्जनस्वरः”
मात्रावृत्ते तस्य प्रथमविन्यासे फलमुक्तं वृ० र० टो० “प्रीतिं
जो मित्रलाभं भयमरणकरौ झ्ञौ ठठौ खेददुःखे” ।

पु० झट--संहतौ ड । १ झञ्झावाते २ नष्टे ३ जलवर्षणे

शब्दर० ४ झिण्टीशे ५ देवगुरौ ६ दैत्यराजे ७ ध्वनिभेदे
८ उच्चवाते च मेदि० ।

झकार पु० झ + स्वार्थे कारप्रत्ययः । झस्वरूपे वर्णे “झकारं परमेशानि!” कामधेनुत० ।

झगझगायमान त्रि० झगझग + अभूततद्भावे भृशा० क्यङ्

शानच् । देवीप्यमाने । “मयूरवरगामिनीं सुरदशुद्धव-
र्णोत्कटां रणत्क्वणितघण्टिकां निशितशक्तिहस्तोद्य-
ताम् । प्रभानिकररश्मिभिर्झगखगायमानांशुकां नमामि
गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम्” देवी० पु० ।

झगति अव्य० झटिति + पृषो० । शीघ्रार्थे शब्दार्थचि० ।

झङ्कार पु० झमित्यव्यक्तशब्दस्य कारः कृ--थञ् । १ भ्रमरादि-

शब्दे । “मन्दं मुद्रितपांशुलः परिपतन् झङ्कार-
झञ्जामरुत्” अमरुश० । ततः तार० इतच् । झङ्कारित
तच्छब्दयुक्ते त्रि० । २ जलकणवर्षणे च शब्दर० ।

झङ्कारिणी स्त्री ६ त० । गङ्गायां झिण्टीशशब्दे उदा० ।

झङ्कृता स्त्री तारादेवतायां “झङ्कृता झिल्ली झरी

झर्झरिका तथा” तारासहस्रनाम ।

झङ्कृति स्त्री झम् इत्यव्यक्तशब्दस्य कृतिः कृ--क्तिन् ।

कांस्यादेर्ध्वनौ शब्दार्थचि० ।

झञ्झा स्त्री झमिति कृत्वा झटति झट--ड । १ ध्वनिभेदे,

तथाध्वनियुक्ते २ प्रचण्डानिले च शब्दर०!

झञ्झानिल पु० झञ्झायुक्तोऽनिलः । प्रावृषिजातवाते

त्रिका० झञ्झामरुदादयोऽप्यत्र झङ्कारशब्दे उदा० ।

झट संहतौ भ्वा० पर० अक० सेट् । झटति अझाटीत्--अझ-

टीत् । जझाट ।

झटा स्त्री झट--अच् । १ शूघ्रे । २ भूभ्याम्जलक्यां शब्दार्थचि०

झटि पु० झट--इन् । क्षुद्रतृणभेदे । (झाँटि) शब्दार्थर० ।

झटिति अव्य० झट क्विप् झट् इण--क्तिन् ६ त० स्वरादि ।

१ शीघ्रे अमरः । “त्यक्त्वा गेहं झटिति यमुनामञ्जु-
कुञ्जं जगाम” पदाङ्कदूतम् ।
“झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते” “मनः
सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम्” सा० द० ।

झढक पुंस्त्री अन्त्यजवर्णभेदे “प्रपास्वरण्ये झढ़कस्य कूपे

द्रोण्यां जलं कोशविनिर्गतञ्च” अत्रिसं० ।

झणझणा अव्य० झणत् डाच् द्विश्च पूर्वपदटिलोपः ।

१ अव्यक्तशब्दभेदे २ तच्छब्दयुक्ते “सर्वं झणझणामूतमा-
सीत्तालवनेष्विव” भा० भी० १९ अ० । ३ झणत्कारशब्दभेदे च ।

झण(न)त्कर पु० झन(ण)दित्यव्यक्तशब्दस्य कारः कृ--घञ् ।

कङ्कणादिध्वनौ । “उद्वेल्लदुभुजवल्लिकङ्कणझण(न)-
त्कारः क्षणं वार्य्यताम्” कालिदासः । “उद्वेजयति
दरिद्रं परमुद्रागणनझणत्कारः” उद्भटः ।

झम भक्षे भ्वा० पर० सक० सेट् । झमति अझमीत् ।

जझाम । उदित् झमित्वा--झान्त्वा । झान्तः ।

झम्प पु० लम्फ + पृषो० । (झाँपदिया पड़ा) लम्फे स्वेच्छाधीने

संपातपतने जटाधरः । भावे अ । तत्रार्थे स्त्री “पुच्छा-
स्फोटदलत्समुद्रविवरैः पातालझस्फाश्च ताः” महावीर०

झम्पाक पुंस्त्री झम्पेन आकायति आ + कै + क । १ वानरे

शब्दच० । स्त्रियां जातित्वात् ङीष् ।

झम्पाशिन् पु० झम्पेन जले स्वेच्छया पतनेनाश्नाति

अशणिनि । मत्स्यरङ्गपक्षिणि जटाधरः स्त्रियां ङीप् ।
पृष्ठ ३१८४

झम्पिन् पु० झम्प + अस्त्यर्थे इनि । वानरे शब्दर० ।

झर पु० झृ--अच । निर्झरे उत्सान्निर्गते जलप्रवाहे ।

“स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रमिमातनोति यत्”
नैष० । तस्य स्त्रीत्वम् भरत आह ततः टाप् गौरा०
ङीष् वा । “विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्-
झरामसृणितशिलाः शैलाः सान्द्रद्रुमा वनराजयः”
प्रबोधच० । २ तारिण्यां स्त्री ङीष् झङ्कृताशब्दे उदा० ।

झर्च उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्चति

अझर्चीत् । जझर्च ।

झर्च्छ उक्तौ भर्त्सनेच तुदा० प्रर० सक० सेट् । झर्छति

अझर्छीत् । जझर्छ ।

झर्झ उक्तौ भर्त्सने च तुदा० पर० सक० सेट् । झर्झति अझर्झोत् । जझर्झ ।

झर्झर पु० झर्झ--करच् । (झाँज) इति ख्याते १ वाद्यभेदे

२ पटहे, ३ कलियुगे, ४ नदभेदे च । ३ वाद्यभेदे स्त्री
ङीप् मेदि० । ६ वेत्रनिर्मितदण्डभेदे पु० “काञ्चनोष्णीषि-
णस्तत्र वेत्रझर्झरपाणयः” भा० भी० ९८ अ० । ७ वेश्यायां
स्त्री त्रिका० टाप् । ८ तारादेव्यां स्त्री झङ्कृताशब्दे उदा० ।
९ वाद्यभेदे स्त्रीशब्दर० गौरा० ङीष् । १० पाकसाधने
लौहमये (झाझरा) इति ख्याते पदार्थे पु० रत्नमा० । झर्झरः
तद्वाद्यं शिल्पमस्य वा ठक् । झार्झारिकत्द्वादनशीले त्रि०
पक्षे अण् । झर्झर तत्रार्थे त्रि० स्वार्थे क । झर्झरिका
तारिण्यां झङ्कृताशब्दे उदा० ।

झर्झरक पु० झर्झर + संज्ञायां कन् । कलियुगे त्रिका० ।

झर्झरावती स्त्री झर्झरः शब्दभेदोऽस्त्यस्य मतुप् मस्य वः

संज्ञायां पूर्वपददीर्घः । गङ्गायां झिण्टीशशब्दे उदा० ।

झर्झरिन् पु० झर्झरोऽस्त्यस्य इनि । शिवे “त्वं गदी त्वं

शरी चापी खद्वाङ्गी झर्झरी तथा” भा० शा० ३८६ अ० ।

झर्झरीक पु० झर्झ--ईकन् फर्फरीका० नि० । शरीरे

उज्ज्वलद० ।

झलञ्झला स्त्री ज्वलन्तं ज्वलति अच् पृषो० । हस्तिकर्णास्फालने शब्दार्थचि०

झला स्त्री झरा--पृषो० । १ कन्यायाम् २ आतपोर्म्मौ च मेदि०

झल्ल पुंस्त्री झर्छ क्विप् तं लाति ला--क रस्थ लः । “झल्लो-

मल्लश्च राजन्यादु व्रात्यान्निच्छिविरेव च” मनूक्ते
सवर्णायां ब्रात्यक्षत्रियाज्जाते जातिभेदे । “झल्लामल्लानटा-
श्चैव पुरुषा शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या
राजसी गतिः” । मनुना तस्य शस्त्रवृत्तित्व (नेटाली)
मुक्तम् “तत्र झल्ला यष्टिप्रहरणाः” कुल्लूक० । “तत्र
मल्लानटा झल्लाः सूता यैतालिकास्तथा” भा० स० ४ अ० ।

झल्लक न० झर्छ--क्विष् तं लाति ला--क संज्ञायां रस्य लः ।

वाद्यभेदे कांस्यनिर्मितकरताले “शिवागारे झल्लकञ्च
सूर्य्यागारे च शङ्खकम् । दुर्गागारे वंशिवाद्यं मधुरीं च
न वादयेत्” ति० त० । तत्रार्थे स्त्री शब्दार्थचि० ।
गौरा० ङीष् ।

झल्लकण्ठ पु० स्त्री झल्लस्तत्स्वरः इव कण्ठः कण्ठस्वरोऽस्य ।

पारावते हारा० स्त्रियां जातित्वात् ङीष् ।

झल्लरा स्त्री झर्झति झर्ज--अरन् पृषो० । १ झर्झरवाद्ये

वाद्यभेदे २ हुड्डुक्के ३ बालककेशे मेदि० ४ शुद्धे, ५ क्लेदे च
अजयपालः । गौरा० ङीष् । झल्लरीत्यप्यत्रार्थे ।

झल्लिका स्त्री झर्झ--ण्वुल् पृषो० १ उद्वर्त्तनमले २ द्योते ३ दीप्तौ

च शब्दार्थचि० ।

झल्लीषक न० हल्लीषक + पृषो० । नृत्यभेदे “झल्लीषकन्तु स्वय-

मेव कृष्णः सुवंशधोषं नरदेव! पार्थ!” हरिवं० १४८ अ० ।

झल्लोल पु० झर्छ--क्विप् तथा सन् लोलः पृषो० । तर्कुलासके

(टेकुयार वाँटुल) हारा० ।

झष बधे भ्वा० पर० सक० सेट् । झषति अझाषीत् अझषीत् । जझाष झषः ।

झष ग्रहणे पिधाने च भ्वा० उभ० सक० सेट् । झषति-

ते अझाषीत् अझषीत् अझषिष्ट । जझाष जझषे ।

झष पु० स्त्री झष--कमणि ध । मत्स्ये, अमरः स्त्रियां जाति-

त्वात् ङीष् “वंशीकलेन वडिशेन झषीरिवास्मान्”
आनन्दवृन्दावनचम्पूः २ मकरे जलजन्तुभेदे “झषानां
मकरश्चास्मि” गीता ३ मीनराशौ च “कार्मुकतौलिककन्या
युग्मलवे झषगे वा” मु० चि० । ४ मकरराशौ “कार्मुकं तु
परित्यज्य झषं संक्रमते रविः” मल० त० । भावे क्त । ५ तापे ।
कर्त्तरि अच् । ६ खिले, ७ वने च न० । ८ नागवलायां
स्त्री शब्दर्थचि० ।

झषकेतु पु० झषो मीनो मकरो वा केतुर्यस्य । मदने शब्दार्थचि० झषकेतनादयोऽप्यत्र ।

झषाङ्क पु० झषोऽङ्कोऽस्य । १ कन्दर्पे उपचारात् २

तत्पुत्रे अनिरुद्धे च हेम० ।

झषाशन पुंस्त्री० झषमश्नाति अश--ल्यु । शिशुमारे त्रिका० स्त्रियां जातित्वात् ङीष् ।

झषोदरी स्त्री झषस्योदरं जन्मस्थानतयास्त्यस्था अच् गौरा०

ङीष् । मत्स्यगन्धायां व्यासमातरि सत्यवत्याम् त्रि-
काण्डशेषः । सा च उपरिचरनृपस्य शुक्रेण ब्रह्मणः
शापेन मत्स्ययोनिमाप्तायामद्रिकायाष्सरोभेदस्य गर्भा-
ज्जाता तत्कथा भा० आ० ६३ अ० ।
“मत्प्रियार्थमिदं सौम्य! शुक्रं मष गृहं नय । गिरि-
कायाः प्रयच्छाशु तस्या ह्यार्त्तवमद्य वै” । “गृहीत्वा तु
पृष्ठ ३१८५
तदा श्येनस्तूर्णमुत्पत्य वेगवान् । जवं परममास्थायं
प्रदद्राव विहङ्कमः । तमपश्यदथायान्तं श्येनं श्येनस्त-
थापरः । अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया । तुण्ड-
थुद्धमथाकाशे तावुभौ संप्रचक्रतुः । युध्यतोरपतद्रेतस्त
च्चापि यमुनाम्भसि । तत्राद्रिकेति विख्याता ब्रह्मशापा-
द्वराप्सराः । मीनभावमनुप्राप्ता बभूब यमुनाचरी ।
श्येनपादपरिभ्वष्टं तद्वीर्य्यमथ वासवम् । जग्राह
तरसोत्पत्य साद्रिका मत्स्यरूपिणी । कदाचिदथ मत्सीं तां
बबन्धुर्म्मत्स्यजीविनः । मासे च दशमे प्राप्ते तदा
भरतसत्तम! । उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसञ्च
मानुषौ । आश्चर्य्यभूतं तज्ज्ञात्वा राज्ञेऽथ प्रत्यवेदयन् ।
काये मत्स्या इमौ राजन्! संभूतौ मानुषाविति । तयोः
पुमांसं जग्राह राजोपरिचरस्तदा । स मत्स्यो नाम
राजासीद्धार्म्मिकः सत्यसङ्गरः । साष्सरा मुक्तशापा च
क्षणेन समपद्यत । पुरोक्ता सा भगवता तिर्यग्योनिगता
शुभे! । मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना । सन्त्यज्य
मत्स्यरूपं तत् दिव्यरूपमवाप्य च । सिद्धर्षिचारणपथं
जगामाथ वराप्सराः । या कन्या दुहिता तस्या
मत्स्या मत्स्यसगन्धिनी । राज्ञा दत्ता च दाशाय कन्ये-
यन्ते भवत्विति । रूपसत्त्वसमायुक्ता सर्वैः समुदिता
गुणैः । सा तु सत्यवतो नाम मत्स्यधात्यभिसंश्रयात् ।
आसीत् सा मत्स्यगन्धिव किञ्चित्कालं शुचिस्मिता” ।

झाङ्कृत पु० झामित्यव्यक्तशब्दः कृतो येन । क्षारभेदे

धरणिः । तत्रार्थे झाङ्कित इति पाठः प्रामादिकः ।

झाट पु० झट--णिच्--अच् । १ निकुञ्जे, २ कान्तारे, ३ व्रणा-

दीनां मार्जने च मेदि० ३ भूम्यामलक्याम् स्त्री अमरः
४ यूथिकायाञ्च शब्दच० ।

झाटल पु० झट--णिच् अलच् । घण्टापारुलौ अमरः ।

झाटामला स्त्री झट--अच् न मला अमला कर्म० ।

भूम्यामलक्याम् “झ(झा)टामला झटा ताली” इत्यत्र झाटा-
मलेत्येकपदमिति केचित् अतएव “झाटामला ज्योत्स्निका
च सतिक्ता तु सुदर्शना” भैषज्यर० उक्तम् ।

झाटिका स्त्री झाटा स्वार्थे क । भूम्यामलक्याम् शब्दच० ।

झामक न० झम--कर्मणि ण्वुल् । (झामा) अतिशयपक्वे-

ष्टकायाम् शब्दार्थचि ।

झामर पु० झम--भावे घञ् तं राति रा--क । तर्कुशाणे । शब्दर० ।

झालि पु० “आम्रमामल्फलं पिष्टं राजिकालवणान्वितम् ।

भृष्टं हिङ्गुयुतं पूतं घोलितं झालिरुच्यते । झालिर्ह-
रति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी । मन्दं मन्दं
निपीता सा रोचनी वह्निरोधिनी” भावप्र० उक्ते पदार्थे

झावु पु० झा--इति वाति गच्छति बा--ड़ु । (झाउ)

वृक्षभेदे अमरः स्वार्थे क । तत्रार्थे शब्दर० ।

झिङ्गाक न० लिगि--आकन् पृषो० । (झिज्ङ्गा) फलभेदे । शब्दार्थचि०

झिङ्गिनी स्त्री लिगि--णीनि पृषो० । १ जिङ्गिनीवृक्षे भावप्र०

२ उल्कायाञ्च शब्दर० ।

झिङ्गी स्त्री लिगि--अच् गौरा० ङीष् । जिङ्गिनीवृक्षे (झिङ्गा) भावप्र०

झिञ्झी स्त्री० झिञ्झा अस्त्यस्याः अच् गौरा० ङीष् ।

झिल्ल्याम् (झिँजिप्ॐका) शब्दार्थचि० ।

झिण्टी स्त्री झिमिति रटति अच् पृषो० गौ० ङीष् ।

(झाँटि) पुष्पप्रधानवृक्षे अमरः ।

झिण्टीश पु० शिवे “झिण्टीशवन्द्या झङ्कारकारिणी

झर्झरावती” काशीपु० गङ्गास्तवः ।

झिरि स्त्री झिरित्यव्यक्तशब्दोऽस्त्यस्याः बा० इन् । चिल्ल्यां

वा ङीप् । तत्रार्थे शब्दर० ।

झिरिका स्त्री० झिरीति कायति शब्दायते कै--क । झिल्ल्याम् शब्दर० ।

झिल्लि पु० झिरितिशब्दं लिशति वा० डि । वाद्यभेदे “घण्टा-

शब्दस्तथा भेरी मृदङ्गो झिल्लिरेव च । पञ्चानां पूज्यते
वाद्यं देवताराधनेषुं च” शब्दार्थचि० धृतवाक्यम् ।

झिल्ली स्त्री० चिल्लति चिल--अच् पृषो० गौरा० ङीष् ।

(झिँझिप्ॐका) कीटभेदे । संज्ञायां क । आतपरुचौ
३ वर्त्त्याञ्च मेदि० । ४ तारिण्यां च झङ्कृताशब्दे उदा० ।

झिल्लीकण्ठ पु० स्त्री झिल्ली तद्रव इव कण्ठः कण्ठस्वरोऽस्य ।

गृहकपोते त्रिका० स्त्रियां जातित्वात् ङीष् ।

झीरुका स्त्री झिरित्यव्यक्तं रौति बा० रु--कक् । झिल्ल्याम्

शब्दरत्ना० ।

झुण्ट पु० लुण्ट--अच्--पृषो० । अकाण्डे १ द्रुमे, २ स्तम्बे, ३ गुल्मे च शब्दक० ।

झुमरि स्त्री रागिणीभेदे प्रायः शृङ्गारबहुला माध्वीक

मधुरा मृदुः । एकैव झुमरिर्लोके वर्णादिनियमो-
ज्झिता । अतो लक्षणमेतस्या नोदाहारि विशेषतः ।
इदं हि शालिगं सूत्रं प्रसिद्धं नृपरञ्जनम्” सङ्गीत० दा०

झूलि पु० १ क्रमुकभेदे २ दुष्टदैवश्रुतौ च मेदि० ।

झृ वयोहानौ दिवा० पर० अक० सेट् । झीर्य्यति अझारीत् जझार झरः ।

झोड पु० गुवाकभेदे भूरिप्र० ।

झ्यु गतौ भ्वा० आत्म० सक० अनिट् । झ्यवते अझ्योष्ट । जुझ्युवे ।

इति वाचस्पत्ये झकारादिशब्दार्थसङ्कलनम् ।
पृष्ठ ३१८६
“ञकारोव्यञ्जनवर्ण्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः तस्यो-
त्पत्तिस्थानं नासिकानुगततालुस्थानम् तस्योच्चारणे
जिह्वामध्येन तालुमध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः ।
संवारनादघोषा अल्पप्राणश्च बाह्यप्रयत्नाः । मातृका-
न्यासेऽस्य वामहस्ताङ्गुल्यग्रे न्यास्यता । वर्णाभिधानेऽस्य
वाचकशब्दा उक्ता यथा
“ञकारो बोधनी विश्वाकुण्डली मखदोवियत् । कौमारी
नागविज्ञानी सव्याङ्गलनखो वकः । सर्वेशश्चूर्णितो-
बुद्धिः स्वर्गात्मा घर्षरध्वनिः । धर्मैकपादः सुमुखो
विरजा चन्दनेश्वरी । गायनः पुष्पधन्वा च वागात्मा
च विरक्षिणी” । एतदधिष्ठातृदेवीध्येयरूपं यथा “चतु-
र्भुजां धूम्रवर्णां कृष्णाम्बरविभूषिताम् । नानालङ्कार-
संयुक्तां जटामुकुटराजिताम् । ईषद्धास्यमुखीं नित्यां वरदां
भक्तवत्सलाम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा
जपेत्” वर्णोद्धारतन्त्रम् । अस्यस्वरूपं यथा “सदा ईश्वर
संयुक्तं ञकारं शृणु सुन्दरि! रक्तविद्युल्लताकारं या
स्वयं परकुण्डली । पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा” कामधेनु-
तन्त्रम् । तस्य मात्रावृत्ते प्रथमोपन्यासे मरणं फलम्
झशब्दे प्रमाणं दृश्यम् ।

पु० १ गायने २ धर्धरध्वनौ एकाक्षरको० । ३ वृषे ४ शुक्रे ५ वाममतौ च मेदि० ।

ञकार पु० ञ + स्वरूपे कारप्रत्ययः । ञस्वरूपे वर्णे

“ञकारो बोधनी विश्वा” वर्णाभिधानम् ।
इति वाचस्पत्ये ञकारादिशब्दार्थसङ्कलनम् ।
  • इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते
वाचस्पत्ये चवर्गादिशब्दार्थ-
सङ्कलनं समाप्तम् ।

टकारोव्यञ्जनवर्णभेदः अर्द्धमात्राकालेनोच्चार्य्यः अस्यो-

च्चारणस्थानं मूर्द्धा । अस्योच्चारणे मूर्द्धस्थानेन जिह्वा
मध्यस्य स्पर्शः आभ्यन्तरप्रयत्नः । विवारश्वासधोषा बाह्य-
प्रयत्नाः । मातृकान्यासेऽस्य दक्षिणस्फिचि न्यास्यता वर्णा-
भिधाने अस्य वाचकशब्दा उक्ता यथा “टकारश्च कपाली
च सोमेशः खेचरी ध्वनिः । मुकुन्दो विनदा पृथ्वी
वैष्णवी वारुणी नरः । दक्षस्फिगर्द्धचन्द्रश्च जवा भूतिः
पुनर्भवः । वृहस्पतिर्धनुर्हस्तः प्रमोदा विमला कटिः ।
राजगिरिर्महाधनुर्ध्राणात्मा सुमुखी मरुत्” । अस्य स्वरूपं यथा
“टकारं चञ्चलापाङ्गि! स्वयं प रमकुण्डली । कोटिवि
द्युल्लताकारं पञ्चदेवमयं सदा । पञ्चप्राणयुतं वर्णं गुणत्रय
समन्वितम् । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं वरं
सदा” कामधेनुतन्त्रम् । एतदधिष्ठातृदेवतारूपं यथा
“ध्यानमस्य प्रवक्ष्यामि शृणुष्व वरवर्णिनि! । मालती-
पुष्पवर्णाभां पूर्णचन्द्रनिभेक्षणाम् । दशबाहुसमायुक्तां
सर्वालङ्कारसंयुताम् । परमोक्षप्रदां नित्यं सदा स्मेरमुखीं
पराम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्”
वर्णोद्धारतन्त्रम् । मात्रावृत्तेऽस्य प्रथमोपन्यासे खेदः-
फलम् । झशब्दे प्रमाणं दृश्यम् ।

पु० टल--ड । १ वामने २ पादे ३ निःस्वने च मेदि० ।

टक बन्धे चु० उभ० सक० सेट् इदित् । टङ्कयति--ते

अटटङ्कत्--त । “टङ्कितेनोऽतिपाटने” काशी० गङ्गास्तवः ।
“नाकृष्टं न च टङ्कितम् न नमितम् नोत्थापितम्
स्थानतः” महाना० । उदु + उल्लेखे । उट्टङ्कितम् ।

टकार पु० ट + स्वरूपे कारप्रत्ययः । टस्वरूपे वर्णे टकारश्च

कपाली च” वर्णाभिधानम् ।

टक्क पु० टकि--बा० कक् पृषो० उपधालोपश । देशभेदे ।

टक्कदेशीय पु० टक्कदेशे भवः छ । १ वास्तूकशाके त्रिका० ।

२ तद्दे शभवमात्रे त्रि० ।

टगण पु० मात्रावृत्ते षाण्मात्रिकप्रस्तावे त्रयोदशभेदात्मके

गणभेदे तेषामाकाराधिदेवाश्च छन्दोग्रन्थोक्ता यथा
“(ऽऽऽ) १ शिवः ॥ऽऽ शशी २ (।ऽ।ऽ दिनपतिः) ३
(ऽ॥ऽ सुरपतिः) ४ (॥॥ऽ शेषः) ५ (।ऽऽ। अहिः) ६
(ऽ।ऽ। सरोजम्) ७ (॥।ऽ। धाता) ८ (ऽऽ॥कलिः) ९
(॥ऽ॥ चन्द्रः) १० (।ऽ॥। ध्रुवः) ११ (ऽ॥ ॥ धर्मः) १२
(॥॥॥ शालिकरः) १३ ।
पृष्ठ ३१८७

टगर पु० टः टङ्कनो गर इव । टङ्कनक्षारे (सोहागा)

२ हेलाविलासविषये ३ केकराक्षे च त्रि० मेदि० ।

टङ्क पु० टकि--थञ्--अच् वा । १ कोक्पे, २ कोषे, ३ खड़्गे

४ पाषाणभेदनेऽस्त्रे च । ५ जङ्घायां मेदि० । ६ चतुर्माषक-
रूपे परिमाणे वैद्य० ७ नीलकपित्थे, ८ खनित्रे, ९ दर्पे च
पु० न० देमच० १० परशौ ११ राजाम्रे च शब्दार्थचि०
“दार्य्यतां चैव टङ्कौथैः खनित्रैश्च पुरी द्रुतम्” हरिवं०
९० अ० । “टङ्कैर्मनःशिलगुहेव विदार्य्यमाणा” मृच्छ० ।
“हिमाद्रिटङ्कादिव भान्ति यस्याम्” भट्टिः । “रुरोध रामं
शृङ्गीव टङ्कच्छिन्नमनःशिलः” रघुः ।

टङ्कक पु० टङ्क्यते घञ् सज्ञायां क । (तङ्का) रजतमुद्रायाम् सारमुन्दरी ।

टङ्ककपति पु० ६ त० । रूपकाध्यक्षे (टाँकशालेर अध्यक्ष)

सारसुन्दरी ।

टङ्ककशाला स्त्री ६ त० । (टाँकशाल) ख्याते रूप्यकनिर्माण गृहे सारसुन्दरी ।

टङ्कटीक पु० टङ्क इव टीकते टीक--क । शिवे त्रिका० ।

टङ्कण(न) न० टकि--ल्यु पृषो वा णत्वम् । (सोहोगा)

ख्याते स्वर्णद्रावके १ उपरसभेदे । उपरसभेदाश्च भाव० प्र०
उक्ता यथा “गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनं
टङ्क(न)णम् । राजावर्त्तकचुम्बकौ स्फटिकया शङ्खः
खटी गैरिकम् । कासीसं रसकं कपर्दसिकतावोलाश्च
कङ्कुष्ठकम् सौराष्ट्री च मता अमी उपरसाः सूतस्य
किञ्चिद्गुणैः” । “तद्यथा लवणेन सुवर्णम्” छा०
उ० भाष्ये “लवणेन क्षारेण टङ्कनादिना, स्वरेषु मृदुत्व-
करं हि तत्” भा० । “टङ्कणं वह्निकृद्रक्षं
कफवातिकपित्तहृत्” भावप्र० । भावेल्युट् । (टाँकादेअओया
पानिदिया झाला) २ धातूनां योजनभेदे । दन्त्यान्तः ३ अश्व-
भेदे पु० स्त्री “तङ्कनखरनखरखण्डितहरितालपांशुलेन”
काद० मूर्द्धन्यान्तः ४ देशभेदे स च देशः वृ० स० १४ अ० ।
कूर्मविभागे दक्षिणस्यामुक्तः । “अथ दक्षिणेन लङ्का” इत्यु-
पक्रमे “कङ्कटटङ्कनंवनवासिशिविकफणिकारकोङ्कणा-
भीराः” इत्युक्तेः ।

टङ्कवत् पु० टङ्क + अस्त्यर्थे मतुप् मस्य वः । १ पर्वतभेदे “तङ्क-

वन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्” रामा० ३ । ५५ अ०

टङ्का स्त्री टकि--अच् । १ जङ्घायां मेदि०१ । २ तारादेव्यां

टङ्कारकारिणीशब्दे दृश्यम् ।

टङ्कानक पु० टङ्कं कोपमानयति उद्दीपयति अन--णिच्

ण्वुल् । १ ब्रह्मदारुवृक्षे (वामनगाछा) शब्दच० ।

टङ्कार पु० टमित्यव्यक्तशब्दस्य कारः कृ--घञ् । १ ध्वनिभेदे

धनुर्ज्याकर्षणजे शब्दे २ विस्मयहेतुके शब्दे च । ३ शिञ्जिनी-
ध्वनौ प्रसिद्धे च मेदि० । कृ--णिनि । टङ्कारिन्
१ टङ्कारयुक्ते त्रि० स्त्रियां ङीप् सा च २ तारादेव्यम्
टङ्कारकारिणीशब्द दृश्यम् ।

टङ्कारकारिणी स्त्री० कृ--णिनि ङीप् ६ त० । तारादेव्याम्

“टङ्कारकारिणी टीका टङ्का टङ्कारिणी तथा तारासहस्रनाम् ।

टङ्कारी दु० स्त्री टङ्कमृच्छति ऋ--अण् गौरा० । (टेकारी)

वृक्षभेदे “टङ्कारी वातश्लेष्मध्नी शोफोदररुजापहा । तिक्ता
च दीपनी लघ्वी भिषग्भिः परिकीर्त्तिता” राजनि० ।

टङ्ग पु० न० टङ्क + पृषा० । १ खानत्र (टाँगि) परशुभेदे च

३ जङ्घायां मेदि० । (सोहागा) ४टङ्गने शब्दच० । ५
चतुर्माषकमाने वैद्य० ।

टङ्गण पु० न० टङ्कण + पृषो० (सोहागा) टङ्कणे ।

टङ्गिनी स्त्री टकि--णिनि पृषो० । (आकनादी) पाठायाम् ।

शब्दच० ।

टट्टनी स्त्री टट्टेति शब्दं नयति नी--ड गौरा० ङीष् । ज्येष्ठ्याम् त्रिका० ।

टट्टरी स्त्री टटेति शब्दं राति रा--क गौरा० ङीष् ०

पटहवाद्ये २ लम्पावाद्ये ३ मृषावाद च मेदि० ।

टट्टुर पु० भेरीशब्दे हेमच० ।

टल विप्लवे (टला) भ्वा०--पर० अक० सेट् । टलति

अटालीत टटाल टेलतुः । ज्वला० टलः टालः ।

टवर्ग पु० ट + प्तातिशाख्योक्तः वर्गप्रत्ययः । ट ठ ड ढ ण

रूपनु वणषु । तता भावथि छ । टवगोय ष्ठादौ वर्णे ।

टा स्त्री टल--ड । पृथिव्याम् एकाक्षरकोषः ।

टाङ्क न० टङ्केन तद्रसेन निर्वृत्तम् । टङ्करूपनीलकपित्थ-

रसेन निर्वृत्ते मद्यभेदे । “पानसं द्राक्षमाधूकं खार्जुरं
तालमैक्षवम् । माध्वीकं टाङं मार्द्वीकमैरेयं नारिके-
लजम् । सामान्यानि द्विजानीना मद्यान्य कादशैव च ।
द्वादशन्तु सुरा मद्यं सर्वेषामधमं षृतम्” । पुलस्त्वेन
तत्पानं निषिडम् । असूयत इति आसवो मद्यानाम-
वस्थाविशषः सदाःकृतसन्धानेन सञ्जातमद्यभावः
यमधिकृत्य इदं पुलस्त्योक्त प्रायश्चित्तम् । द्राक्षेक्षुटङ्क-
खर्जूरपनसादेश्च यो रसः । सद्योजातन्तु पीत्वा तं
त्र्यहाच्छुध्येद् द्विजोत्तमः”

टाङ्कर प० टाङ्कं तत्तल्यरसं राति रा--कटाङ्क + कुञ्जा० र वा । नागवीटे वृक्षभेदे त्रिका० ।

टार पुंस्त्री० टां पृथवीमृच्छति ऋ--अण् उप० स० । घोटके

स्त्रियां जातित्वात् ङीष् । २ रङ्गे ३ लङ्गे च हेमच० ।
पृष्ठ ३१८८

टिक गतौ भ्वा० आ० सक० सेट् । टेकते अटेकिष्ट टिटिके ।

ऋदित् अटिटेकत् त ।

टिटिभ पुंस्त्री० टिटीति अव्यक्तशब्दं भणति भण--ड । को

यष्टिके (टिटिरि) स्त्रियां ङीष् स्वार्थे क तत्रार्थे अमरः ।

टिट्टिभ पुंस्त्री० टिट्टीत्यव्यक्तं शब्दं भणति भण--ड । (टिटिरि)

कोयष्टिके खगे अमरः स्त्रियां ङीष् । “अनिर्द्दिष्टां-
श्चैकशफांष्टिट्टिभांश्च विवर्जयेत्” मनुना तन्मांसभक्षणं
निषिद्धम् । “टिट्टिभं तदुपे ते राज्यध्यानमिवातुरः”
भा० शा० १११ अ० । कोयष्टिकशब्दे २२६६ पृ० तन्मांस-
गुणा उक्ताः । टिट्टिभक स्वार्थे क । तत्रार्थे पुंस्त्री० ।

टिण्टिनिका स्त्री अम्बुशिरीषिकायां (ज्ॐक) भावप्र० ।

टिण्डिश पु० रोमशफले (ढाँडश) ख्याते वृक्षभेदे राजनि० ।

“टिण्डिशो रुचिकृत् भेदी पित्तश्लेष्माश्मरीप्रणुत् ।
सुशीता वातला रूक्षा मूत्रला च प्रकीर्त्तिता” भावप्र० ।

टिप नोदने चुरा० उभ० सक० सेट् । टेपयति--ते अटीटिपत्--त ।

टिप्पनी स्त्री टिप--क्विप् टिपा पन्यते स्तूयते पन--धञर्थे क

गौरा० ङीष् । टीकायाम् । सा च टीकाव्याख्यारूप-
तयैव व्यवह्रियते यथा चिन्तामणिटीकाया दीधितिव्या-
ख्यायाः टीका जगदीशकृता गदाधरकृता च । यथा
शारीरिकसूत्रभाव्यव्याख्या पञ्चपादिका भामती च ।
महाभाष्यव्याख्या कैयटकृता इत्यादि । प्रथमव्याख्याया-
मपि क्वचित् प्रयुज्यते यथा “श्रीमतङ्गाननं नत्वा-
लीलावत्याः सुटिप्पनी । भवेशेन सुबोधार्थं क्रियते
यद्गुरोः श्रुतम्” “टिप्पनी दायझागस्य श्रीनाथेन
विधीयते” ।

टीक गतौ भ्वा० आत्म० सक० सेट् । टीकते अटीकिष्ट । ऋदित् । अटिटीकत् त ।

टीका स्त्री टीक्यते गम्यते ग्रन्थार्थोऽनया । टीक--करणे

घञ् घञर्थे क वा । विषमपदव्याख्यारूपे ग्रन्थभेदे ।
“अपटीको जडो माघे भृशं जाद्येन ताड्यते । स च
किञ्चित्तरत्येव कण्ठसंलग्नबल्लभः” उद्भटः ।
“नत्वा भगवतीं दुर्गा टीकां दुर्गार्थबुद्धये । कुरुते
दायभागस्य भट्टाचार्य्यमहेश्वरः” “करोति टीकामिह
दायभागग्रन्थावबोधाय सदेकरम्याम्” श्रीकृष्णतर्का० ।

टुण्टुक पु० स्त्री टुण्टु इत्यव्यक्तं कायति कै--क । (टुण्टुनि)

१ पक्षिभेदे शब्दर० । स्त्रियां जातित्वात् ङीष् । २ शोणा-
कवृक्षे अमरः । ३ कृष्णस्तदिरे शब्दच० । तयोः तत्खग-
प्रियत्वात् तथात्वम् । ४ अल्पे त्रि० मेदि० । ५ क्रूरे
त्रि० विश्वः । ६टङ्किनीवृक्षे स्त्री शब्दच० ।

टुनाका स्त्री तालमूलीवृक्षे शब्दच० ।

टेरक त्रि० केकर + पृषो० । (टेरा) केकरनेत्रे । शब्दार्थचि० ।

टोट त्रि० त्रोट + पृषो० । १ अल्पे २ हीने च । स्त्रियां

गौरादिपाठात् ङीष् ।

टोड़लतन्त्र न० तन्त्रभेदे ।

ट्वल विप्लवे भ्वा० पर० अक० सेट् । ट्वलति अट्वालीत् ज्वला० ट्वलः ट्वालः ।

इति वाचस्पत्ये टकारादिशब्दार्थसङ्कलनम् ।

ठकारो व्यञ्जनवर्णभेदः । टवर्गीयः मूर्द्धन्यः अर्द्धमात्रा-

कालोच्चार्य्यः । तस्योच्चारणे जिह्वामध्येन मूर्द्धस्थानस्य
स्पर्शः आभ्यन्तरप्रयत्नः । विवारश्वासाधोषा महाप्राणश्च
बाह्यप्रयत्नाः । मातृन्यासेऽस्य दक्षजानुनि न्यस्यता वर्णा-
भिधानेऽस्य वाचकशब्दा उक्ता यथा “ठः शून्यो मञ्जरी
जीवः पाशिनी लाङ्गलं क्षमा । वनजो नन्दनो जिह्वा
सुनन्दाथूर्णकः सदा । वर्त्तुलः कुण्डलो वह्निरमृतं चन्द्र-
मण्डलः । दक्षजानूरूभावश्च देवभक्षो वृहद्ध्वनिः ।
एकपादो विभूतिश्च ललाटं सर्वमित्रकः । वृषघ्नो नलिनी
विष्णुर्महेशो ग्रामणीः शशी” । एतदधिष्ठातृदेवतारूपं
यथा “ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने! ।
पूर्णचन्द्रप्रभां देवीं विकसत्पङ्कजेक्षणाम् । सुन्दरीं
षोड़शभुजां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा
ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम् ।
अस्य ध्येयरूपं यथा “ठकारं चञ्चलापाङ्गि, कुण्डली
मोक्षरूपीणी । पीतविद्युल्लताकारं सदा त्रिगुण-
संयुतम् । पञ्च्देवात्मकं वर्णं पञ्चप्राणमयं सदा ।
त्रिविन्दुसहितं वर्णं त्रिशक्तिसहितं सदा” इति
कामधेनुतन्त्रम् । मात्रावृत्तेऽस्य प्रथमोपन्यासे दुःखं फलम्
झशब्दे प्रमाणं दृश्यम् ।
पृष्ठ ३१८९

पु० ट + पृषो० । शिवे २ महाध्वनौ ३ चन्द्रमण्डले

एकाक्षरकोषः । ४ मण्डले ५ शून्ये ६ लोकगोचरे च मेदि० ।
शून्यञ्चात्र विन्दुरूपवर्णभेदः । “स्मितमुखि! तदधष्ठद्वयम्
योजयित्वा” कर्पूरस्तवः (ठद्वयं स्वाहा) । “द्विठमेव चेत्यस्य
व्याख्यायां द्विठं विसर्गस्तस्य विन्दुद्वयात्मक्त्वात् विसर्ग-
शब्देन च लक्षितलक्षणया स्वाहाकारी लक्ष्यते स्वा-
हाशब्देनैव वह्नौ त्यागात् त्यागस्य च विसर्गपर्य्याय-
त्वात्” इत्येवं रघुनन्दनादिसम्प्रदायविदः ।

ठकार पु० ठ + कार । ठस्वरूपे वर्णे “ठकारं चञ्चलापाङ्गि!” कामधेनुत० ।

ठक्कुर पु० १ देवपतिमायां, २ द्विजोपाधिभेदे च । यथा गोविन्द-

ठक्कुरः काव्यप्रदीपकर्त्ता । ३ देवतायाञ्च । “सुदामा नाम
गोपालः श्रीमान् सुन्दरठक्वुरः” अनन्तसंहिता ।
इति वाचस्पत्ये ठकारादिशब्दार्थसङ्कलनम् ।

डकारो व्यञ्जनवर्णभेदः मूर्द्धन्यः अर्द्धमात्राकालोच्चार्य्यः

टवगीर्यः । तस्योच्चारणे जिह्वामध्येन मुर्द्धस्थानस्य स्पर्श-
आभ्यन्तरयत्नः । संवारनादघीषा अल्पप्राणश्च बाह्यप्र-
यत्नाः । मातृकान्यासेऽस्य दक्षपादगुल्फे न्यस्यता ।
अस्य वाचकशब्दा यथा “डः स्मृतिर्दारुका नन्दि-
रूपिणी योगितीप्रियः । कौमारी शङ्करस्त्रासस्त्रिवक्त्रो
व्यापकोध्वनिः । दुरूहो जटिली भीमा द्विजिह्वः
पृथिवी सती । कोल्लगिरिः क्षमा शान्तिर्नाभिः
स्वाती च लोचनम्” वर्णाभधानम् । तदधिष्ठा-
तृदेवतारूपं यथा “व्यानमस्य प्रवक्ष्यामि शृणु-
ष्वावहिता मम । जवासिन्दूरसङ्काशां वराभयकराप-
राम् । त्रिनेत्रां वरदां नित्यां परमोक्षप्रदायिनीम् ।
एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” इति वर्णो-
द्धारतन्त्रम् । अस्य ध्येयरूपं यथा । “डकारं चञ्चला-
पाङ्गि! सदा त्रिगुणसंयुतम् । पञ्चदेवमयं वर्णं पञ्चप्राण-
मयं सदा । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा ।
चतुर्ज्ञानमयं वर्णमात्मादितत्त्वसंयुतम् । पीतविद्यु-
ल्लताकारं डकारं प्रणमाम्यहम्” इति कामधेनुतन्त्रम् ।
तस्य मात्रावृत्ते प्रथमोपन्यासे शोभा फलम् “डः शोभां
ढो विशोभां भ्रमणमथ च णस्तस्तु खं थस्तु युद्धम्” वृ०
र० टी० धृतवाक्योक्तेः ।

पु० डी--ड । १ शिवे २ शब्दे ३ त्रासे च एका० को० ।

४ वाडवाग्नौ ५डाकिन्यां स्त्री मेदि० ।

डकार पु० ड + कारप्रत्ययः । डस्वरूपे वर्णे ।

डगण पु० छन्दोग्रन्थोक्ते चतुर्मात्रकप्रस्तावे पञ्चभेदभिन्ने

गणभेदे तत्स्वरूपादिकं यथा (ऽऽ गजः १) (॥ऽ रथः २)
(।ऽ। तुरङ्गमः ३) (ऽ॥ पदातिः ४) (॥॥ पत्तिः ५)
इति ।

डङ्गरी स्त्री डं त्रासं गिरति गॄ--अच् पृषो० गौरा० ङीष् ।

दीर्घकर्कथाम् (काँकड़ी) राजनि० अण् । डङ्गारीत्यप्यत्रार्थे ।

डप संघाते (राशीकरणे) चु० आत्म०अक० सक० सेट् ।

डापयते अडीडपत । चुरादित्वेऽपि डित्करणादफलवत्-
कर्त्तर्य्यपि आत्म० । तेनास्य ञित्करणसामर्थ्यात् पाक्षि-
कचुरादित्वम् पक्षे भ्वादित्वम् । डपते अडपिष्ट ।

डप संहतौ उक्तौ डपवत् इदित् । डम्पयते अडिडम्पत ।

पक्षे भ्वा० डम्पते अडम्पिष्ट ।

डब लोकने चुरा० उभ० सक० सेट् । डम्बयति अडडम्बवत्

शब्दस्तोमे अस्य वा चुरादित्वोक्तिः प्रामादिकी ।

डभ संधे चुरा० इदित् उभ० सेट् । डम्भयति ते अडडम्भत् त ।

डम पु० डं त्रासं माति मा--क । चाण्डाल्यां नेटाज्-

जाते सङ्कीर्णजातिभेदे (डोम) ब्रह्मपु० । स्त्रियां--जाति-
त्वात् ङीष् ।

डमर पु० डमेति शब्दं राति रा--घञर्थे क । भीत्या पलायने हारा० ।

डमरु पु० डमिति शब्दमृच्छति ऋ--मृगया० कु० नि० । १ वाद्यभेदे

क्षीणमध्ये प्रान्ते दीर्घे, पुटिकाद्वयलम्बिते कापालि-
कयोगिवाद्ये अमरः । तत्रार्थे हारा० न० । “दत्त्वा डमड्-
डमरुडाङ्कृतिहूतभूतवर्गान्तु भर्गगृहिणीं रुधिरैर्धि-
नोमि” प्रबोधच० । (डमत् डमेति शब्दं कुर्वत्) ।

डमरुका स्त्री “मुष्टिञ्च शिथिलां बद्ध्वा ईषदुज्झतमध्यमम् ।

दक्षिणां तूर्द्धमुन्नस्य कर्णदेशे प्रधारयेत् । एषा मुद्रा
डमरुका सर्वविघ्नविनाशिनी” तन्त्र० उक्ते मुद्राभेदे ।

डम्बर पु० डपि--संहतौ बा० अरन् । १ समूहे आड़म्बरे २

आयोजने “अजायुद्धे ऋषिश्राद्धे प्रभाते मेघडम्बरः” चाणक्यः ।
३ धातृदत्ते कुमारानुचरभेदे । “डम्बराडम्बरी चैव ददौ
धाता महात्मने” भा० श० ४७ अ० ।
पृष्ठ ३१९०

डयन न० डी--भावे ल्युट् । खगानां नभोगतौ (ओड़ा)

करणे ल्युट् । २ कर्णीरथे हेमच० ।

डल्लक न० वंशनिर्भितपात्रभेदे (डाला) “त्रिशतञ्च षष्ट्यधिकं

डल्लकं वस्त्रसयुतम् । सभाज्य सौपवीतञ्च सोपहारं
मनोहरम्” ब्रह्मवै०

डवित्थ पु० “डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृगः” ।

सुपद्मोक्ते काष्ठमये १ मृगे २ द्रव्यवाचिसंज्ञाशब्दभेदे च
“द्रव्यशब्दाः एकव्यक्तिवाचिनो हरिहरडित्थडवित्थादयः”
सा० द० । शब्दकल्पद्रुमेऽयं वर्ग्यमध्यतया निटेशितस्तन्मूलं
चिन्त्यम् ।

डहु(हू) पु० दह उ वा ऊङ् मृगय्वादि० नि० । नकुचे

(मान्दार) “डहुर्गुरुश्च विष्टम्भी त्रिदोषबुक्रदोषहृत्”
भावप्र० तद्गुणोक्तिः शब्दरत्नाबल्यामयं दीर्थान्ततया
तदर्थे पठितः ।

डाकिनी स्त्री डस्य त्रासार्थम् अकति अक--वक्रगतौ णिनि

ङीप् । देव्या अनुचरीभेदे । “सार्द्धञ्च डाकिनीनां
च विकटानां त्रिकोटिभिः” ब्रह्मपु० ।(डान) इति ख्याते
दर्शनमात्रेण २ उपद्रवकारिस्त्रीजनभेदे । “डाकिनी
शाकिनी भूतप्रेतवेतालराक्षसाः काशीख० ३० अ० ।

डाङ्गरी स्त्री डङ्गरी पृषो० । दीर्घकर्कट्याम् (काँकड़ी) राजनि०

डामर पु० शिवप्रोक्ते तन्त्रशास्त्रविशेषे तच्च ष्यड्विधं तेषां

मानादिकं वाराहितन्त्रे उक्तं यथा
“डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः १ । श्लोकास्तत्र
त्रयस्त्रिंशत् तथा पञ्च शतानि ञ्च त्रिविशतिःसह-
स्राणि श्लोकाश्चैव हि संख्यया । एकादशसहस्राणि
सङ्घ्याताः शिवडामरे २ । श्लोकाः सप्तैव निश्चित्य ईश्वरे-
णैव भाषिताः । तावच्छ्लोकसहस्राणि पञ्च श्लोकशतानि
च । गुणोत्तराणि दुर्गाया डामरे ३ कथितानि च । नव
श्लोकसहस्राणि नव श्लोकशतानि च । सारस्वते ४
तथा श्लोकाः पञ्चैव परिकीर्त्तिताः शरसंख्यसह-
स्राणि श्लोकानां ब्रह्मडामर ५ । पञ्चोत्तरशतान्यत्र संख्या-
नि शिवेन तु षष्टिः । श्लोकसहस्राणि गान्धेर्वे ६ डामरो-
त्तमे । श्लोकाश्च षष्टिसंख्याता ब्रह्मणाऽव्यक्तयोनिनेति” ।

डालिम पु० दाडिम्ब + पृषो० । स्वनाप्रख्याते फलप्रधाने

वृक्षे भरतः ।

डाहन पु० त्रिपुरदेशे त्रिका० ।

डाहूक पुंस्त्री० डेति हूयते ह्वे--बा० डूक पृषो० । दात्यूहखगे

जटा० स्त्रियां जातित्वात् ङीष् ।

डिङ्गर पु० डङ्गर + पृषो० । १ डङ्गरशब्दार्थे २ क्षेपे ३ वने

४ धूर्त्ते ५ सेवके च शब्दर० ।

डिडिका स्त्री यौवनकालजाते पलिततासूचके रोगभेदे ।

“यौवने डिडिकास्वेव विशेषाच्छर्दनम् हितम्” सुश्रु० ।

डिडिमा पु० स्त्री सुश्रुतोक्ते प्रतुदे खगर्भेदे स्त्रियां जाति-

त्वात् ङीष् । प्रतुदशब्दे तद्मेदा दृश्याः ।

डिण्डिम पु० डिण्डेतिशब्दं माति । १ वाद्यभेदे (ढेँडरा)

अमरः । “आर्य्यबालचरितप्रस्तावनाडिण्डिमः” वीरच०
“भेरीश्चाभ्यहनन् हृष्टा डिण्डिमांश्च सहस्रशः” भा० द्रो०
१९६ अ० । २ कृष्णपाकफले पानीयामलके शब्दच० ।

डिण्डिमेश्वर पु० शिवपु० उक्ते तीर्थभेदे ।

डिण्डिर पु० हिडि--बा० किरच आदेर्हस्य डः । समुद्रफेने हेमच० ।

डिण्डिरमोदक न० डिण्डिर इव मोदकः मोदयति

मोदि--ण्वुल् । गृञ्जने (गाँजा) ख्याते मादक
द्रव्यभेदे राजनि० ।

डिण्डिश पु० डिण्डिक + पृषो० । (ढाँडश) इति ख्याते

रोमशफले वृक्षभेदे । “डिण्डिशो रुचिकृद्भेदी पित्तश्लेष्मा-
पहः स्मृतः । सुशीतो वातलोरूक्षो मूत्रलश्चाश्मरीहरः ।
निःशेषवीजं स्वतिवृत्तखण्डं सहिङ्गुकम् प्रोज्झित-
चण्डशब्दम् । स्नेहप्रतप्तं चलदार्वदण्डं रुचिप्रदं
डिण्डिशकं सपिण्डम्” वैद्यक० ।

डिण्डीर पु० हिडि--ईरच् आदेर्हस्य डः । समुद्रफेने हेमच० ।

डित्थ पु० डवित्थशब्दोक्ते काष्ठमये १ हस्तिनि एकव्यक्तिमात्र-

बोधके २ संज्ञाशब्दभेदे तत्प्रतिपाद्ये ३ अर्थभेदे च ।

डिप संहतौ बा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् ।

डेपयति--ते डेपते ऋदित् आडिडेपत् त ।

डिप प्रेरणे वा चु० उभ० पक्षे तुदा० पर० सक० सेट् ।

डेपयति--ते अडीडिपत्--त कुटा० डिपति अडिपीत् ।
दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत् ।

डिप संहतौ वा चुरा० उभ० पक्षे भ्वा० आत्म० अक० सेट् इदित् ।

डिम्पयति--ते डिम्पते । अडिडिम्पत्--त अडिम्पष्ट ।

डिब संघे प्रेरणे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट्

इदित् । डिम्बयति--ते अडिडिम्बत् डिम्बति अडिम्बीत् ।

डिभ हिंसे संहतौ वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् ।

इदित् । डिम्भयति--ते अडिडिम्भत्--त डिम्भति अडिम्भीत् ।

डिम हिंसने सौ० पर० सक० सेट् । डेसति अडेमीत् ।

पृष्ठ ३१९१

डिम पु० डिम--क । दृश्यकाव्यरूपनाटकभेदे । “मायेन्द्रजाल-

संग्रामक्रोधेदुभ्रान्तादिचेष्टितैः । उपरागैश्च भूयिष्ठो
डिमः ख्यातोऽतिवृत्तकः” सा० द० तल्लक्षणमुक्तम् ।

डिम्ब पु० डिबि--घज् अच् वा । १ भये २ कलले, ३ फुप्फुसे च

हारा० ४डमरे, अमरः ५ भयध्वनौ ६ अण्डे, ७ प्लीहनि,
८ विप्लवे च मेदि० ।

डिम्बाहव न० डिम्बं भयध्वनियुक्तमाहवम् युद्धम् ।

युद्धभेदे तस्य नृपतिशून्यतया भययुक्तध्वनिमत्त्वात्
तथात्वम् । “डिम्बाहवहतानां च विहितं पार्थिवेन च”
मनुना तद्युद्धमृतस्य सद्यःशौचमुक्तम् । जटाधरे
पुंस्त्वपाठः प्रामादिकः आहवशब्दान्तत्वात् द्वन्द्वतत्पुरुषयोः
परवल्लिङताविधानात् क्लीवत्वौचित्यात् । “डिम्बा-
हवार्दितानाञ्च असुराणां परायणम्” भा० आ० २१ अ० ।

डिम्बिका स्त्री डिबि--ण्वुल् । १ कामुक्यां २ जलबिम्बे

३ शोणाकवृक्षे च शब्दरत्ना० । अच् गौरा० ङीष् ।
डिम्बीत्यप्यत्र ।

डिम्भ त्रि० डिभि--अच् । १ शिशौ अमरः २ मूर्खे मेदि० ।

डिम्भक पु० डिम्भ + स्वार्थे क । १ बालके शब्दर० २ शाल्वदेशपति

ब्रह्मदत्तसुतभेदे । तत्कथा हरिवं० २९५ अध्यायादौ दृश्या
“हंसो ज्येष्ठो नृपसुतो डिम्भकोऽनन्तरोऽभवत्”
“हंसश्च डिम्भकश्चैव तपश्चर्तुं महामते!” ।

डिम्भचक्र न० स्वरोदयोक्ते शुभाशुभसूचके चक्रभेदे

चक्रशब्दे २८३० पृ० दृश्यम् ।

डी नभोगतौ (ओड़ा) भ्वा० आ० अक० सेट् । डयते अडयिष्ट

डिड्ये डीनः । प्राद्युपसर्गभेदे खगगतिभेदाः खगगतिशब्दे
२४१४ पृ० दृश्याः ।
गतौ दिवा० आ० सक० निधण्टुः । डीयते ।

डीतर त्रि० डी--क्विप् तत्स्तरप् । नभोगतियुक्ततरे “तस्मादि-

मा अजा अरा डीतरा आक्रममाणा इव यन्ति” शत०
ब्रा० ४ । ५ । ५ । ५ ।

डीन न० डी--भावे क्त । पक्षिगतिभेदे जटा० । खगगति-

शब्दे २४१४ पृ० दृश्यम् । २ आगमशास्त्रविशेषे च यथा
“डामरं डमरं डीनं श्रुतं कालीविलासकम् । सप्त-
कोटिमिता ग्रन्था मम वक्त्रात् विनिर्गताः” मुण्ड० त० ।

डीनडीनक न० पक्षिगतिभेदे खगगतिशब्दे २४१४ पृ०

दृश्यम् ।

डीनावडीनक न० खगगतिभेदे खगगतिशब्दे २४१४ पृ० दृश्यम् ।

डुण्डुभ पुंस्त्री० डण्डुइत्यनुकरणशब्दं भणति तेन भाति

वा भण--भा--वा ड । (ढाँड़ा) इति ख्याते सर्पभेदे
अमरः) स्त्रियां जातित्वात् ङीष् । “शयानं तत्र चापश्यत्
डुण्डुभं वयसान्वितम्” भा० आ० ९ अ० । पृषो० अन्त्य-
लोपे डुण्डुरपि तत्रार्थे पुंस्त्री० त्रिका० ।

डुण्डुल पुंस्त्री डुण्डु इति शब्दं लाति ला--क । क्षुद्र-

पेचके राजनि० स्त्रियां जातित्वात् ङीष् ।

डुल पु० डु इति शब्दं लाति ला--क । पेचकभेदे ततः

वरणा० चतुरर्थ्यां य । डुल्य तत्सन्निकृष्टदेशादौ त्रि० ।

डुलि स्त्री दुलि + पृषो० । कमथाम् दुलौ रायमुकुटः ।

डुलिका स्त्री डुलिरिव कायति कै--क । खञ्जनाकारे खगभेदे

जटाधरः ।

डोडिका स्त्री (करेरूआ) इति प्रसिद्धे फलशाकविशेषे ।

“डीडिका पुष्टिदा वृष्या रुच्या वह्निप्रदा लघुः ।
हन्ति पित्तकफार्शासि कृमिगुल्मविषामयान्” । “बल्यं
डोडीफलमविकलं स्विन्नमीषच्च तोये स्तेहे हिङ्गु-
प्रणयिनि ततो वेसवारेण सिद्धम् । गव्यं तक्रं
क्वथितनिहितं साधितं रामठेन खादन् खादन् निभृत-
ममृतं निन्दितं भोक्तृभिस्तत् । सन्धूय शुष्कं तरणेः प्रता-
पात् प्रतप्तमाज्येन च डोडिशाकम् । ससैन्धवं रामठ-
दत्तवासं खादन्नरो निन्दति व्यञ्जनानि । डोडिका
वांतला रूक्षा शीता गुर्वी विषापहा । सुस्विन्ना
रोचना हृद्या अखिन्ना कण्ठकर्त्तरी” शब्दार्थचि०
धृतवाक्यम् ।

डोडी स्त्री डोडिकायां क्षुपभेदे राजनि० । डोडिकाशब्दे दृश्यम् ।

डोम पु० स्त्री स्वतामख्याते सङ्कीर्णजातिभेदे स्त्रीयां ङीष् ।

तस्यास्पृश्यत्वमुक्तं मुत्स्यसूक्ततन्त्रे ३९ पटले
“चण्डालश्चैव डोमश्च खानकश्च तथा यतिः । दण्डीरश्चैव
भण्डीरो भूषुण्डश्च वृथाश्रमी । वृथा मुण्डी लिङ्गधारी
समा एते यशस्विनि! । स्पृष्ट्वा प्रमादतः स्नात्वा
गायत्र्यष्टशतं जपेदिति” ।

डोर न० दोष् + रा--ड पृषो० । हस्तबाह्वादौ बन्धनसूत्रे

“कोऽनन्त इत्युदीर्य्याथ धृत्वा तत्करपल्लवम् । हस्ता-
दाकृष्य तड्डोरं क्षिप्तवान् पावकोपरि” भविष्य० पु०
स्वार्थे क तत्रार्थे न० । तत्रैव “चतुर्दशग्रन्थियुक्तं कुङ्क-
माक्तं सुडोरकम् । स्त्रियश्च पुरुषश्चैव बन्धीयात्
वामदक्षिणे” ।

डोरडी स्त्री डोरमिव डयते डी--ड गौरा० ङीष् । वृहत्याम् राजनि० ।

पृष्ठ ३१९२

ड्वल मिश्नीकरणे चु० उभ० सक० सेट् । ड्वालयति ते अडि-

ड्वलत् त । कात्या० श्रौ० १६ । ३२० सूत्रभाष्ये “मिश्रयति
आड्वालयतीत्यर्थः” कर्कः । “मेक्षयतिराड्वालनार्थः”
कात्या० श्रौ० १० । ४ । ७ । कर्कः “पार्श्वेनाज्यं बसां च
मिश्रयत्याड्वालयति” ५ । ८ । १८ । कर्कः ।
इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यविरचिते
वाचस्पत्ये डकारादिशब्दार्थसङ्कलनम् ।

ढकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्द्यन्यः

टवर्गीयः । तस्योच्चारणे जिह्वामध्यभागेन मूर्द्ध्नः स्पर्शः
आभ्यन्तरप्रयत्नः । सवारनादघोषा महाप्राणश्च बाह्यप्र-
यत्नाः । मातृकान्यासेऽस्य दक्षपादाङ्गुलिमूले न्यस्यता ।
वर्णाभिधने अस्य वाचकशब्दा उक्ता यथा “ढो ढक्का
निर्णयः शूरो यक्षेशो धनदेश्वरः । अर्द्धनारीश्वर्स्तोयमो-
श्वरस्त्रिशिखोनरः । दक्षपादाङ्गुलीमूलं सिद्धिदण्डो विना-
यकः । प्रहासस्त्रिपुरा सन्धिर्निर्गुणो निधनो धनी । विघ्नेशः
पाशिनी तङ्कधारीणी क्रोड़पुच्छकः । एलापुरं च दुर्गात्मा
विशाखा भ्रामणोरतिः” । एतदधिष्ठातृदेवतारूपं वर्णो-
द्धारतन्त्रे उक्तं यथा । “रक्तोत्पलनिभां रम्यां रक्त-
पङ्कजलोचनाम् । अष्टादशभुजां भीमां महामोक्ष-
प्रदायिनीम् । एवं ध्यात्वा ब्रह्मरूपां तन्मन्त्रं दशधा
जपेत्” । अस्य स्वरूपं कामधेनुतन्त्रे उक्तं यथा
“ढकारः परमाराध्यो या स्वयं कुण्डली परा ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा । सदा त्रिगुण-
संयुक्तं आत्मादितत्त्वसंयुतम् । तक्तविद्युल्लताकारं ढकारं
प्रणमाम्यहम्” । मात्रावृत्तेऽस्य प्रथमोपन्यासे विशोभा
फलम् डशब्दे प्रमाणं दृश्यम् ।

पु० १ ढक्कायां २ शुनि ३ श्वलाङ्गूले च मेदि० । तस्य

तदाकृतित्वात् तथात्वम् । ४ निर्गुणे ५ ध्वनौ च एकाक्षरको०

ढकार पु० ढ + स्वरूपे कारप्रत्ययः । ढस्वरूपे वर्णे

“ढकारं प्रणमाम्यहम्” कामधेनुत० “ढकारस्य ढकारे
परे लोपः” सि० कौ० ।

ढक्का स्त्री ढगिति कायति कै--क । यशःपटहे (ढाक) ख्याते

वाद्यभेदे अमरः । “न ते हुडुक्केनन सोऽपि ढक्कया
न मर्द्दलैः सापि न तेऽपि ढक्कया” नैषधम् ।

ढक्कानादचलज्जला स्त्री ढक्काया नाद इव चलज्जलं

तद्रवो यस्याः । गङ्गायाम् । “ढक्कानादचलज्जलं”
काशी० गङ्गास्तवः ।

ढक्कारवा स्त्री ढक्काया एव इव रवो यस्याः । तारिणोदे-

व्याम् “ढक्कारवा च ढक्कारी” तारसहस्रनाम ।

ढक्कारी स्त्री ढगिति शब्दं करोति कृ--अण् उपप० स०

गौरा० ङीष् । तारिणीदेव्याम् “ढक्कारवा च ढक्कारी
ढक्कारवरवाढ्यका” तारासहस्रनाम ।

ढगण पु० मात्रावृत्ते त्रिमात्रिकप्रस्तावभेदे तद्भेदाश्च त्रयः

“तत्स्वरूपादिकं यथा (ऽ।) १ ध्वजः । (।ऽ) २ तालः ।
(॥।) ३ ताण्डवम् ।

ढण्टी स्त्री वाक्यभेदे “ढण्टीवाक्यस्वरूपा च ढकाराक्षर-

रूपिणी” रुद्रया० अन्नपूर्णासहस्रनाम ।

ढामरा स्त्री हंस्याम् शब्दार्थचि० ।

ढाल न० स्वनामख्याते चर्म्ममयादौ फलके तद्विद्यतेऽस्य

इनि ढालिन् तद्युक्ते त्रि० । “ढालिपक्षजयकरी
ढकारवर्णरूपिणी” अन्नपूर्णास्तवः । स्त्रियां ङीप् ।

ढुण्ढ अन्वेषणे भ्वा० सक० पर० सेट् । ढुण्टति अढुण्ढीत् ।

डुढुण्ढ । ढुण्ढिः ।

ढुण्ढि पु० ढुण्ढ--इन् । काशीस्थे गणेशभेदे तग्रामनिरुक्त्या-

दिकं काशीख० ५७ अ० उक्तं यथा “अन्वेषणे दुण्ढिरयं
प्रथितोऽस्ति धातुः सर्वार्थढुण्ढिततया भव ढुण्ढिनामा ।
काशीप्रवेशमपि को लभतेऽत्र देही तोषं विना तव
विनायक! ढुण्ढिराज!” तन्माहात्म्यं तत्रैव यथा “ढुण्ढे
प्रणम्य पुरतस्तव पादपद्मं यो मां नमस्यति पुमानिह
काशिवासी । तत्कर्णमूलमधिगम्य पुरा दिशामि तत्कि-
ञ्चिदत्र न पुनर्भवतास्ति येन । यः प्रयहं नमति ढुण्ढि-
विनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसंघः । नो
तस्य जातु जगतीतलवर्त्तिनस्तु दुष्प्रापमत्र च परत्र च
किञ्चनापि । प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतो-
मनाक् । आढुण्ढ्य सर्वभक्तेभ्यः सर्वार्थान् संप्रयच्छसि” ।
तस्य यात्राविधानमुक्तं तत्रैव यथा “माघशुक्लचतुर्थ्यान्तु
नक्तव्रतपरायणाः । ये त्वां ढुण्ढेऽर्चयिष्यन्ति तेऽर्च्च्याः स्यु-
रसुरद्विषाम् । विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य
तापसीम् । शुक्लां शुक्लतिलैर्बद्धान् प्राश्नीयाल्लडडुकान्
पृष्ठ ३१९३
व्रती । कार्य्या यात्रा प्रयत्नेनं क्षेत्रसिद्धिमभीप्सुभिः ।
तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे! सर्वोपसर्गहृत् । तां
यात्नां नात्र यः कुर्य्यानिवेद्य तिल्लड्डुकान् । उपवास
सहस्रन्तु स हन्तास्मिन् ममाज्ञया । होमं तिलाज्यद्र-
व्येण यः करिष्यति भक्तितः । तस्यां चतुर्थ्यां मन्त्रज्ञस्तथ
मन्त्रः प्रसेत्स्यति” ।

ढोल पु० गले दोलायमानतया वादनीये स्वनामख्याते

वाद्यभेदे । “ढक्काढोलप्रिया नित्या ढोलवाद्यप्रमोदिनी ।
ढोलरूपा ढोलधरा ढोलशब्दस्वरूपिणी” इति रुद्र-
जामले अन्नपूर्णासहस्रनामस्तोत्रम् ।

ढक्काढोलप्रिया स्त्री ढक्काढोलौ तच्छब्दः प्रियोऽस्याः ।

अन्नपूर्णायाम् ढोलशब्दे दृश्यम् ढोलरूपादयोऽप्यत्र ।

ढौक प्रेरणे गत्याञ्च भ्वा० आत्म० सक० सेट् । ढौकते

अढौकिष्ट डुढ़ोके । “तं विप्रदर्शं कृतधातयत्ना यान्तं
वने रात्रिचरी डुढौके” भट्टिः । “शकुन्तला वक्त्रं
ढौकते” शकु० । णिनि ढौकयति ते “राक्षसोऽतर्जयत्
सूतं पुनश्चाढौकयद्रथम्” भट्टिः । ऋदित् अडुढौकत् त ।
इति वाचस्पत्ये ढकारादिशब्दार्थसङ्कलनम् ।


णकारो व्यञ्जनवर्णभेदोऽर्द्ध मात्राकालोचार्य्यः मूर्द्धन्यः
टवर्गीयः । अस्योच्चारणे जिह्वामध्येन मूर्द्ध्नः स्पर्शः
नासिकायत्नप्रमेदश्च आभ्यन्तरप्रयत्नः । संवारनादघोषाः
अल्पप्राणश्च वाह्यप्रयत्नाः । सातृकान्यासेऽस्य दक्षपादाङ्गु-
ल्यग्रेस्यस्यता । अस्य वाचकशब्दावर्णाभिधाने उक्ता यथा
“णो निर्मुणं रतिर्ज्ञानं जम्भलः पक्षिबाहनः । जया जम्भो
नरकजित् निष्कलो योगिनीप्रियः । द्विमुखं कोटवी
श्रोत्रं समृद्धिर्बोधनी मत । त्रिनेत्रो मानुषी व्योम
दक्षपादाङ्गुलीमुखम् । माधवः शङ्घिनी वीरो नाराय-
णश्च निर्णयः” । एतदधिष्ठातृदेवतारूपं वर्णोद्धारतन्त्रोक्तं
यथा “ध्यानमस्य णकारस्य प्रवक्ष्यामि च तत् शृणु ।
द्विभुजां वरदां रम्यां भक्ताभीष्टप्रदायिनीम् । राजीव-
लोचनां नित्यां धर्मकामार्थमोक्षदाम् । एवं ध्यात्वा
ब्रह्मरूपां तन्मन्त्रं दशधा जपेत्” । एतत्स्वरूपं
कामधेनुतन्त्रोक्तं यथा “णकारः परमेशानि! या स्वयं परकु-
ण्डली । पीतविद्युल्लताकारः पञ्चदेवमयः सदा । पञ्च
प्राणमयं देवि! सदा त्रिगुणसंयुतम् । आत्मादितत्त्वसं-
युक्तं । महामोहप्रदायकम्” । मात्राघृत्तेऽस्य प्रथमोप-
न्यासे मरणं फलम् मूलं डशब्दे दृश्यम् ।

पु० णख--गतौ ड पृषो० णत्वम् । १ विन्दुदेवे, २ भूषणे,

३ गुणवर्ज्जिते, ४ पानीयनिलंये मेदि० । ५ निर्णये, ६ ज्ञाने
च न० एकाक्षरको० ।

णख गतौ भ्वा० पर० सक० सेट् । णोपदेशत्वात् सति निमित्ते

णत्वम् । नखति प्रणखति । अनखीत्--अनाखीत् ।
ननाख नेखतुः । एवं णादिधातूनां गणपाठे णादि-
त्वं प्रयोगे नादित्वं सति निमित्ते णत्व्मिति बोध्यम् ।

णट नृत्ये साभिनये नटकार्य्ये हिंसायामयं न णोपदेशी

भ्वा० षर० अक० सेट् । नटति प्रणटति अनाटीत्
अनटीत् । ननाट नेटतुः । हिंसायात् प्रनटति । नटः
नाट्यम् ।

णट नटकृत्ये भ्वा० पर० अक० सेट् । नटति प्रणटति अनाटीत्-

अनटीत् ननाट नेटतुः घटा० । नटयति अनीनटत् ।
“नट नृत्ये । इत्थमेव पूर्वमपि पठितम् । तत्रायं
विवेकः । पूर्वपठितस्य नाट्यमर्थो यत्कारिषु नटव्यप-
देशो वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्तं नृत्यं
चार्थो यत्कारिषु नर्त्तकव्यपदेशः पदार्थाभिनयो नृत्यम्
गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ णटनताविति
पठन्ति । मतावित्यन्ते । णोपदेशपर्य्युदासवाक्ये भाष्य-
कृता नाटीति दीर्थपाठात् घटादिर्णोपदेश एव” सि० कौ०

णद अव्यक्तशब्दे भ्वा० पर० अक० सेट् । नदति प्रणदति

अनादीत् अनदीत् । ननाद नेदतुः नेदतुः । नादः नदन्
नदितुम् । सति निमित्ते एतत्पूर्ववर्त्तिनः न्युपसर्गस्य
णत्वम् । प्रणिनदति परिणिनदति ।
“वासवश्चानदद्घोरम् रुधिरञ्चाभ्यवर्षत” हरिवं० १८३ अ० ।
“नदति मही गम्भीरम्” वृ० स० ५४ अ० । “शब्दं घोरं
नदन्ति” भा० व० २६७ अ० “शिवाश्चैवाशिवान्नादान्नदन्ते”
हरिवं० १९३ अ० । आर्षस्तङ् । णिचि नादयति “नदय-
पृष्ठ ३१९४
न्नेति पृथिवीमुत द्याम्” ऋ०९ । ९७ । १३ । “आ सानु-
शुष्मैर्नदयन् पृथिव्याः” ऋ० ७ । ७ । २ । छान्दसो ह्रस्वः ।
लोके तु न ह्रस्वः । “नादयन्रथघोषेण सर्वाः सविदिशो
दिशः” भा० व० २५३३ श्लो० । अन्तर्भूतण्यर्थे तु अस्य
सकर्मकता “नृत्याबसाने नटरजराजो ननाद ढक्कां
नव पञ्च वारान्” शब्दे न्दुशेखरधृतवाक्यम् ।
  • अनु + नादेनानुकरणे सक० । “तथा च तेषां रुदतां
महात्मनां दिशं च खञ्चानुननाद निस्वनः” रामा० २ । १११ अ० ।
  • अभि + आभिमुख्येन शब्दकरणे । “पुत्रेति तन्मयतया
तरवोऽभिनेदुः” भाग० १ । २ । २ ।
  • उद् + उच्चैःशब्दकरणे । “कालमेघैवोन्नदन्” भा० द्रो० ६८१४
  • प्रति + प्रतिशब्देन अनुकरणे सक० । “वयं प्रति नदन्तस्तान्”
भा० भी० ४५१८ ।

णद भाषे चु० उभ० सक्० सेट् । नादयति ते प्रणादयति

अनीनदत्--त । ननाद नेदतुः ।

णभ हिंसे भ्वा० आत्म० सक० सेट् । नभते प्रणभते ल्तृदित्

अनभत् अनभिष्ट । नेभे । “नभन्तामन्यकेषां ज्याका
अधिधन्वसु” ऋ० १० । १६३ । १ । “नभन्तां हिंसयन्ताम्”
भा० आर्षस्तङ् “नाभाकस्य प्रशस्तिभिः” निरुक्तधृता
ऋक् । वेदेऽस्य क्वचित् नुम् । “उन्नम्भय पृथिवीं भिन्धीदं
दिव्यं नभः” तैत्ति० स० २ । ४ । ८ । २ ।

णभ हिंसे दिवा० क्य्रा० च पर० सक० सेट् । नभ्यति

प्रणभ्यति नभ्राति । अनाभीत्--अनभीत् । ननाभ नेभतुः ।

णम शब्दे अक० नतौ सक० भ्वा० पर० अनिट् । नमति

प्रणमति अनं सीत् । ननाम नेमतुः नेमिथ नमन्थ ।
नतः नतिः नामः नत्वा नन्ता नम्यः आनाम्यः । अस्य
अमन्तत्वेन घटादित्वे प्राप्तेऽपि अनुपसर्गाद्वेति नियमात्
वा तथात्वम् । नमयति नामयति उपसर्गात्तु उन्नमय-
तीत्येव । नतिश्च स्वाकर्षबोधकव्यापारभेदः स च करशिरः
संयोगादिः स्वापकर्षबोधशालिनः कर्मता । नमति गुरुम्
ढुण्ढिशब्दे उदा० । ण्यग्भावे (नोया) अकर्म्म० । ततः
कर्मकर्त्तरि न यक्चिणौ नमते अनंस्त । “सुम्नेभिरस्मे
वसवो नमध्वम्” ऋ० ७ । ५६ । १७ । “एवे द्यूने युवतयो
ऽनमन्त” १० । ३० । ६ । न्यग्भावे “अनंसीद्भूर्भरेणास्य” भट्टिः ।
“उन्नमति नमति वर्षति गर्ज्जति मेघः करोति तिमि-
रौघप्त् । प्रथमश्रीरिव पुरुषः करोति रूपाण्यनेकानि”
मृच्छ० “नतभ्रुवो नव्यजनापनेयः” उद्भटः “पुष्पभारनता
लता” रामा० २ । ९६ अ० । “तवाभिधानाद् व्यथते
नताननः” किरा० । यङि नंनम्यते । “नंनम्यमाना
फलदित्सयेव” भट्टिः ।
  • अभि + आभिमुख्येन नमने । “देवान् वै यज्ञो नाभ्यनमत्”
  • अव + न्यग्भावे अधोभवने (नीचे नोअओया) अक० । “त्व-
य्यादातुं जलमवनते” मेघ० । णिच् अवनमयति
“अवनामितमेढ्रस्य मेढ्रे” सुश्रु० । “शिरः सुकृष्णो
जग्राह स्वहस्तेनावनाम्य च” हरिवं० ६९ अ० ।
केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे” भ० आ० १३४ अ० ।
आर्षो न ह्रस्वः आम्बभावश्चार्षः ।
  • उद् + ऊर्द्धगतौ उच्चभवने उत्थाने च अक० । “उन्नम्योन्नम्य
तत्रैव दरिद्राणां मनोरथाः । हृदयेषु विलियन्ते
विधवास्त्रीस्तनाविव” पञ्चत० । “स्थितः सर्वोन्नतेनोर्वीम्” रघुः
  • अभि + उद् + आभिमुख्ये नोन्नतौ अक० । “अभ्युन्नताङ्गुष्ठ-
नखप्रभाभिः” कुमा० । “अभ्युन्नता परस्तादवगाढ़ा
जघनगौरवात् पश्चात्” शुकु० ।
  • उप + प्राप्तौ सक० स्वयमुपस्थितौ अक० । “यं सत्रिया
दीक्षोपनमेत” । अभ्याशो ह यदेनं साधवो धर्मा
आ च गच्छेयुरुपच नमेयुः” छा० उ० । “यदा तु
परबाधयान्ध आत्मने नोपनमति” भाग० ५ । १४ । १४ श्लो० ।
“मत्संयोगः कथमुपनमेत् स्वप्नजोऽपि प्रियायाः”
मेघ० । “परलोकोपनतं जलाञ्जलिम्” कुमा० ।
  • परि + तुल्यरूपसत्तया वस्तुनोऽन्यथाभवने अक० आत्म० । यथा
दुग्धपरिणामः दधि मृत्परिणामः घटादिः । “तथा
तैजसमन्तःकरणमपि चक्षुरादिद्वारा घटादिविषयदेशम्
गत्वा घटादिविषयाकारेण परिणमते” “समसत्ताककार्य्यो
त्पादः परिणामः इति” वेदा० प० । कर्मकर्त्तरि आत्मनेपद-
मित्यन्ये “परिणामस्वभावा हि गुणा नापरिणम्य
क्षणमवतिष्ठन्ते” सा० त० कौ० । गजानां तिर्य्यग्धन्तप्रहारे
सक० । “विष्के नागः पर्य्यणंसीत् स्व एव” माघः । पर्य्यणं-
सीत् तिर्य्यक् प्रजहारेत्यर्थः । “तिर्य्यग्दन्तप्रहारैस्तु गजः
परिणतो मतः” वैजयन्ती । शेषताप्राप्तौ अक० ।
“दिवसा परिणामरमणीयाः” शकु० । “ता एवौषधयः
कालपरिणामात् परिणतवीर्य्या भवन्ति” सुश्रु० ।
परिपाके च “आहारस्य सम्यक्परिणतस्य” सुश्रु० सम्यक्नमने
सक० । “यस्तं परिणमेच्च तत्” भा० उ० ११०७ ।
  • प्र + प्रकर्षेण नतौ । “प्रणमेद्दण्डवड्मूमौ” भाग० ६ । १९ । ९ ।
“प्रणेमुर्भुवि मूर्द्धभिः” भाग० ३ । ३ । २८ । “उरसा
शिरसा दृष्ट्या वचसा मनसा तथा । पद्भ्यां कराभ्यां
पृष्ठ ३१९५
जानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” नृसिह पु० उक्ते
नतिभेदे च ।
  • प्रति + प्रतीपनतौ ।
  • वि + विशेषेण नतौ ।
  • वि + परि + भावस्य विकारभेदे अक० आत्म० “घट्भावविकारा
भवन्तीति वार्द्धायणिः । जायतेऽस्ति विपरिणमत वर्द्धते
अपक्षीयते नश्यतीति, जायत इति पूर्वभावस्यादिमाचष्टे
नापरभावमाचष्टे नो प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्व-
स्यावधारणं, विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं,
वर्द्धत इति स्वाङ्गाभ्युच्चगं, सांयौगिकानां वाङ्गानां, वर्द्धते
विजयेनेति वा, वर्द्धते शरीरेणेति वा । अपक्षीयत इत्ये-
तेनैव व्याख्यातः प्रतिलोमं, विनश्यतीत्यपरभावस्यादिमा-
चष्टे न पूर्वभावमाचष्टे न प्रतिषेधति” निरु० १ । २ ।
अन्यविभक्त्यन्ततया श्रुतस्य शब्दस्य अन्यविभक्त्यन्ततया
परिकल्पने “कर्त्तरि शबित्यतः कर्तृग्रहणमनुवर्तते । तच्च
प्रथमया विपरिणम्यते” पा० सू० व्याख्या । “अर्थवशात्
विभक्तेर्विपरिणामः” परिभाषा ।
  • सम् + सम्यग्नतौ । “धीरः संनमेत बलीयसे” भा० उ०
११३० । “संनताः फलभारेण पुष्पभारेण च द्रुमाः”
रामा० आ० ३ । १६ अ० ।

णय गतौ रक्षणे च भ्वा० पर० सक० सेट् । नयति प्रणयति अनयीत् । ननाय नेयतुः ।

णर्द्द शब्दे भ्वा० पर० अक० सेट् । नर्द्दति अनर्द्दीत । ननर्द्द

प्रणर्द्दति । नर्द्दनम् नर्द्दतः ।
“दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्द्दं
नर्टतः सम्यक् तदा सूत्यं भविष्यति” भा० उ० १४० अ० ।
“उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा” १४२ अ० ।
“नर्दमानो महानादं प्रावृषीव वलाहकः” भा० भी०
१०१ अ० । “मत्ता नर्दन्तु कुञ्जराः” रामा० २ । १०५ अ० ।

णल बन्धे भ्वा० पर० सक० सेट् । नलति प्रणलति ।

अनालीत् । ज्वला० नलः नालः ।

णश अदर्शने ध्वंसे च दिवा० पर० अक० सेट् । नश्यति प्रणश्यति

अनेशत् पा० अन्यमते नशत् अशान्तत्वे न णत्वम्
प्रनष्टः । “फलभोग्यो न नश्यति” “प्रनष्टखामिकं द्रव्यम्”
याज्ञ० । “चेष्टा वय्नेशन्निखिलास्तदास्याः स्मरेषुपातैरिवता
विधूताः” नैषध० “एतेन लुङुत्तमपुरुष एव नेशादेशोक्ति-
श्चिन्त्या “ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च”
हितो० “आ पाप! स्वयं नष्टः परानपि नाशयितु-
मिच्छसि” प्रबो० च० ।

णस कौटिल्ये भ्वा० आत्म० अक० सेट् । नसते प्रण-

मते । अनसिष्ट । नेसे

णह बन्धने दिवा० उभ० सक० अनिट् । नह्यति--ते प्रणह्य-

ति--ते । अनात्सीत् अनद्ध ननाह नेहे । नद्ध्वा नद्धः नद्ध्री ।
“यथा युगं वरत्रया नह्यन्ति” ऋ० १० । ६० । ८ “खर्जूरी-
स्कन्धनद्धानाम्” रघुः । “अमृतोत्पादने नद्धो
भुजगेनेव मन्दरः” रामा० सुन्द० २४ अ० ।
  • अपि + धारणे वा आदेरल्लोपः । पिनह्यति अपिनह्यति ।
“वितत्या शार्ङ्गं कवचं पिनह्य” भट्टिः । “आमुच्य
कम्बूपरिहाटके शुभे विमुच्य वेणीमपिनह्य कुण्डले”
भा० वि० ११ अ० । विशेषेण बन्धने निबन्धने च ।
“पिनद्धां धूमजालेन प्रभामिव विभावसोः” भा० व० ६८ अ०
“बहुध तु पिनद्धार्ङ्गैर्हिमवच्छिखरैरिव” भा० आ०
१८५ अ० ।
  • अव + समन्ताद्बन्धने । “चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरी-
षयोः” मनुः ।
  • आ + सम्यग्बन्धने “वरत्रायां दार्व्यानह्य मानः” ऋ० १० । १०२ । ८
“आनद्धावरणैः कामैः” भा० भी० ११९ अ० । “आनह्यते
यस्य विधूप्यते च पापच्यते क्लिद्यति चापि नासां” सुश्रु०
  • परि + आ + परितो बन्धे सक० । “सोमपर्य्याणहनेन पर्य्या-
णह्यति” शत० व्रा० ३ । ३ । ४ । ६
  • उद् + उत्तोल्य बन्धने । “अस्थ्यवयवोऽस्थिमध्यमनुप्रविश्य
मज्जानमुन्नह्यति” “सास्रावमुन्नह्यति मांसपिण्डम्”
सुश्रु० अतिवन्धने च । “ते नेह शक्याः सहसा विजेतुं
वीर्य्योन्नद्धाः कृतवैरास्त्वया ते” भा० भी० ८१ अ० ।
  • सम् + उद् + समुग्बन्धने । “बल्मीकवत् सभन्नद्धमन्तः कुर्बन्ति
विद्रधिम्” सुश्रु० । पण्डित्याभिमाने गर्वे च “अतस्त्रिषु
समुन्नद्धौ पण्डितम्मन्यगर्वितौ” अमरः । तत्र पाण्डित्यमाने
“अश्रुतश्च समुन्नद्धौ डरिद्रश्च महामनाः” भा० उ० ३२ अ० ।
गर्वे “अर्थं महान्तमासाद्य विद्यामैश्वर्य्यमेव वा ।
विचरत्यसमुन्न्द्धो यः स पण्डित उच्यते” भा० उ०
३२ अ० । समुद्नवे च “परोक्षेण समुन्नद्धप्रणयोतकण्ठ्य
कातरः” भाग० १ । १५ । ४
  • उप + उपरिबन्धने । “विस्रावयेत् स्विन्नमतन्त्रितश्च शुद्धं व्रणं
चाप्युपनाहयेत्तु” सुश्रु० । उपानद् क्विपि पूर्वस्वरदीर्घः ।
  • नि + निवन्धने । “इषधिः पृष्ठे निनद्धः” ऋ० ६ । ७५ । ५
  • परि + परितो बन्धने । “न तां बध्री परिणहेच्छतचर्मा
भहातनुम्” भा० आ० २९ अ० । विस्तारे “परिणाहो
पृष्ठ ३१९६
विशाकता” अमरः । “कपाटवक्षाः परिनद्धकन्धरः”
रघुः । क्विपि घञि परे वा दीर्थः परी(रि) णाहः ।
  • सम् + सम्यग्बन्धने कवचादिधाऋअणे च ।
“श्लथद्दुकूलं कवरीं च विच्युतां संनह्यतीं वामकरेण
वलगुना” भाग० ८ । १२ । १६ । “कवचेन महार्हेण
समनह्यद्वृहन्नलाम्” भा० वि० ३७ अ० ।

णास ध्वनौ भ्वा० आत्म० अक० सेट् । नासते प्रणासते

अनासिष्ट ननासे । ऋदित् अननासत्--त ।

णिक्ष चुम्बने भ्वा० पर० सक० सेट् । निक्षति प्रणिक्षति ।

कृत्सु वा णत्वमिति पाणिनिः । सर्वत्र वा णत्वम् मुग्ध०
“निक्ष दर्भ सपत्नान् मे” अथ० १९ । २९ । १ आर्षगनपदयो-
र्वात्यागः । “याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पुष्टीः”
अथ० ९ । ८ । १५ “प्रणिक्षिष्यति नो भूयः प्रनिन्द्या-
स्मान् मधून्ययम्” भट्टिः । “किमीदिनं प्रत्यञ्चमर्चिषा
जातवेदो विनिक्ष्य” अथ० ९ । ३ । २५
  • वि + नाशने “शिशीते शृङ्गे रक्षमे विनिक्षे” ऋ० ५ । २ । ९
“विनिक्षे नाशाय” भा० आर्षस्तङ् ।

णिज शोधने अदा० आत्म० सक० सेट् इदित् । निङ्क्ते

प्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे । शुद्धौ अक० ।
“अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः” अथ० ।
३ । ५ । २ । (निजः शुद्धः) “यस्य नास्ति निजा प्रज्ञा केवलं तु
बहुश्रुतः” भा० स० ५४ अ० । “बुद्धिः सततमन्वेति
च्छायेव पुरुषं निजा” भा० व० ३० अ० । “सुज-
न्मनस्तस्य निजेन तेक्षसा” रघुः । निजेन शुद्धेन ।

णिज शोधने सक० शुद्धौ अक० जु० उभ० अनिट् । नेनेक्ति

प्रणेनेक्ति । नेनिजानि नेनिक्ते अनेन्क् अनेनिजम्
अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त ।
“शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः” मनुः
“सूरो निनिक्त रश्मिभिः ऋ० १० । १३२ । ६
  • अव + समन्तात् जलप्रोक्षणेन शोधने । “यद्द्यस्य क्रूरमभूत्
तद्ध्यस्या एतदहार्षीत्तस्मात् पाणी अवनेनिक्ति” । शत०
ब्रा० १ । २ । ५ । २३ ।
“अथोदपन्धषमादाबापनेजयति! असाववनेनिक्ष्वेत्येव
यजमानस्य पितरमसावयनेनिक्ष्येति पितामहमसाव-
वनेनिक्ष्वेति प्रपितापहं तद्यवा शिष्यतेऽभिषिञ्चेदेवं
तत्” शत० ब्रा० २ । ४ । २ । १६ । “अवनेविक्ष्य दास्तमानं पिण्डं
भोक्तुमात्मीगौ षाष्णी षोभयेति” भा० । पिण्डदानार्थ-
मसृतकुशे जलप्रोक्षणे तत् प्रकारः श्रा० ष० उक्तो यथा
“प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् । अपः क्षिपेन्
मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः द्वितीयञ्च तृतीयञ्च
मधयदेशाग्रदेशयोः” इत्याभ्युदयिकप्रकरणीयछन्दोग-
परिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्र
सतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च । “सपुष्पं जलमादाय
तेषां पृष्ठे पृथक् पृथक् । अप्रदक्षिणं नेनिज्याद्गोत्र-
नामानुमन्त्रितम्” इति ब्रह्मपुराणवचनात् “अपसलवि
पितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि
“अपसव्यं वा तेन पितृभ्यो निदधातीति” भट्टभाप्यधृतगृह्या-
न्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेव
वचनात् तथा च मनुः प्राचीनावीतिना सम्यगपसव्य-
मतन्त्रिणा” इत्यादि तत्र तु मण्डलोपरि असाविति
सम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम्
अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्व-
वदित्युक्तं आद्यं पितरं पूर्ववत् “गोत्रनामभिरामन्त्र्य
पितॄनर्घ्यं प्रदापयेत्” इतिवत् । पितुरवनेजनं मूलदेशे
पितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोः
द्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोग-
प्ररिशिष्ठात् मातामहादीनामप्येवम् । “मातामह-
प्रभृतीस्तु एतेषामेव वामतः” इति छन्दोगपरिष्ठात् ।
एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम् । अन्यत्र
तु दक्षिणतः कर्त्तुर्वामोपचारत्वट् । अतएव पार्वणे
प्रागुक्तब्रह्मपुराणे “अप्रदक्षिणं नेनिज्यादित्युक्तम् । तेन
सतिलपुष्पोदकपात्रं वामहस्ताद्दक्षिणहस्तेन वामान्वा-
रन्धेन मृहीत्वा अमुकगौत्र! पितरमुकदेषशर्मन्नप-
नेनिक्ष्य ये चात्र त्वाक्मनुयांश्च त्वमनु तस्मै ते स्वधा” इति
पितृतीर्थेनावनेजयेत् । “अप उपस्पृश्य जलं स्पृष्ट्वा
एवं पूर्बोक्तरीत्या पितामहाय प्रतितामहाय पिण्ड-
दानसूत्रं जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम्” । पिण्ड-
पितॄयज्ञे तत्प्रकारः कात्या० श्रौ० ४ । १ । १० । उक्तो यथा
“उदपात्रेणावनेजयत्यपसव्यं सव्येन बोद्धरणसानर्थ्या
दसाववनेनिक्ष्येति यजमानस्य पितृप्रभृति त्रीन्” सू० ।
“उदकस्य पात्रसुदपात्रं पूर्णपात्रादि तेनाध्यर्य्युः
यजमानस्य पितृप्रभृति पितुरारभ्य त्रीन् पुरुषान्
पितृषितामहप्रपितामहान् अपसव्यं यथा स्याद्दस्तस्य
स्तव्यप्रदेशाद्दक्षिनैकदेशेनोदकनिनयनं यथा स्यात्
तषाङ्गष्ठप्रदेशिन्योरन्तरालेन अवनेजयति अवनि-
क्षान् शुचीन् करोति पिण्डदानाय । असाविति
पृष्ठ ३१९७
सम्बुद्द्यान्तगोत्रनामादेशपूर्वकम् अमुकगोत्र! यजमानस्य
पितरसुकशर्मन्नवनेनिक्ष्वेति रेखायामूलमध्याग्रप्रदेशेषु
दक्षिणसंस्थमवनेजनं कार्य्यम् । अग्रेण देवानां होमः
कनिष्ठिकाप्रदेशेन मनुष्याणाम्, उद्धरणं परिवेषणापर-
पर्य्यायम् अङ्गुष्ठप्रदेशिन्योरन्तरालमेव पितॄणां परिशिष्यते
अत इदमाह अपसव्यमिति” कर्कः । “अवनेज्य पूर्ववन्नीविं
विस्रंस्य नमो व इत्यञ्जलिं करोति” कात्या० श्रौ० १५ ।
निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति । अवनेज्येति
प्रयोग इति बोध्यम् । शोधनम्परत्वे नेनिज्यादिति
अवनेजने चन तन्त्रता यथाह छन्दोगप० “अर्ष्ये
ऽक्षय्योदके चैव पिण्डदानेऽवनेजने । तन्त्रस्य विनिवृत्तिः
स्यात् स्वधावाचन एव च” अवनेजनशब्दे ४२९ पृ० कृत्य
प्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम्
अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम् ।
  • निर् + निःशेषेण क्षालनेन शोधने “पात्राणि निर्णेनिजानि”
शत० ब्रा० १ । ३ । १ । २ “पात्राणि निर्णेनिक्ते” तैत्ति० स० ।
“अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते” मनुः “तोय-
निर्णिक्तपाणिः” रघुः “तेषामपेततृष्णानां निर्णिक्तानां
शुभात्मनाम्” भा० शा० २७१ अ० ।

णिद सन्निधाने अक० निन्दने सक० भ्वा० उभ० सेट् ।

नेदति--ते प्रणेदति--तै । अनेदीत् अनेदिष्ट निनेदनिनिदे ।

णिद कुत्सने भ्वा० पर० सक० सेट् इदित् । निन्दति प्रणि-

न्दति अनिन्दीत् । कृत्सु वा णत्पमिति पाणिनिः ।
सर्वत्र वा णत्वम् मुग्ध०
“निनिन्द रूपं हृदयेन पार्वती” कुमा० । “निन्दन्तस्तव
सामर्य्यम्” गीता । “अनिन्द्यं निन्दते यो हि”
भा० व० २५२ अ० । आर्षस्तङ् । “न निन्दा निन्द्यं
निन्दति किन्तु विधेयं स्तौति” भीमांसा ।

णिल दुर्बोधे तुदा० पर० सक० सेट् । निलति प्रणिलति ।

अनेलीत् निनेल ।

णिव सेके भ्वा० पर० सक० सेट् । इदित् । निन्वति ।

अनिन्वीत् । निनिन्च ।

णिश समाधौ भ्वा० पर० सक० सेट् । नेशति प्रणेशति अनेशित् निनेश ।

णिष सेके भ्वा० पर० सक० सेट् । नेषति प्रणेषति अणेषीत् ।

निनेष ।

णिस चुम्बने अदा० आत्म० सक० सेट् इदित् । {??} प्रणिंस्ते

अनिंसिष्ट निनिंसे । कृत्सु वा णत्वमिति पापिर्यनः ।
सर्वत्य वा णत्वम सग्ध० । निंस्ते दन्तच्चब्दं न व” भट्टिः ।
“अभि स्रु चः क्रमते दक्षिणावृत्ये या अस्य धाम प्रथमं
ह निंसते” ऋ० १ । १४४ । १ “अभि स्वरन्ति बहवो मनीषिणो
राजानमस्य भुवनस्य निंसते” ९ । ८५ । ३

णी प्रापणे भ्वा० उभ० द्विक० अनिट् । नयति प्रणयति

अनैषीत्” । प्रधाने कर्म्मणि लादयः । अजा ग्रामं नीयते ।
अनेष्ट निनाय निनयिथ निनेथ निन्ये नेता न्येष्यति ते
नेतव्यः । नेयः नीतः नीतिः नीत्वा विनीय ।
“सर्वान्नेष्यामि वः सदा । वृजिनात्तारयिष्यामि” भा०
आ० ६०५२ श्लो० “गमनाय मतिं चक्रे ताश्चैनं नित्यु-
रङ्गनाः” रामा० बा० ९ अ० । “नयिष्यामि च वाहि-
नीम्” रामा० ५ । ९१ । अ० । आर्ष इट् । “दैवेन
किलयस्यार्थः स नीतोऽपि विपद्यते” भा० वि० २० अ० ।
यापने च “निनाय सात्यर्थहिमोत्किरानिलाः । सहस्य
रात्रीरुदवासतत्पराः” कुमा० ।
सम्मानने आत्म० “शास्त्रे नयते शास्त्रस्थं सिद्धान्तं
शिष्येभ्यः न्प्रापयतीत्यर्थः तेन च सम्माननं फलितम्” सि० कौ०
ज्ञाने निश्चये आत्म० । “तत्त्वं नयते निश्चिनोति” सि० कौ०
  • अति + अतिक्रम्य नयने । “न स्वर्गं लोकमतिनयेत्” छा० उ०
  • बि + अति अपवाहने सक० । “व्यतिनीय कालमुपसदां
चतुर्थम्” आश्वा० श्रौ० १२ । ८ । ३५ । “व्यतिनीय अपोह्य” नारा०
  • अनु + स्वाभीष्टप्रवेशनाय सान्त्ववाक्यादिप्रयोगे सक० । “भवतो-
ऽनुनयाम्येवं पुरूराज्येऽभिषिच्यताम्” भा० आ० ८४ अ० ।
“प्रणिपातेन सान्त्वेन दानेन च महायशाः । ऋत्बिजो-
ऽनुनयामास” भा० आ० २२३ अ० । आर्ष आमुः ।
“अनुनीता त्वमस्माभिश्चिरं सान्त्बेन मैथिलि!” रामा०
सु० २५ अ० ।
  • अप + अपहरणे अन्यत्रनयने “यत्र संसप्तकाः पाथैमपनिन्थू-
रणाजिरात्” भा० आ० ५३० श्लो० ।
  • अभि + २९२ पृ० अभिनयशब्दोक्तार्थे सक० । “गीतानि
रम्याणि जगुः प्रहृष्टा कान्ताभिनीतानि मनोहराणि”
हरि० ८४४८ अ० । “तदुक्तेमभिक्नीयाभियुक्तैः” वेदा० सा०
आभिमुख्येन नयने च । “दृष्ट्वा शरं ज्यामभिनीयमानम्”
भा० व० ७६९ श्लो० । प्रधाने कर्म्मणि शानच् ।
  • अव + अधोनयने । “मन्थे सम्पातमवनयेत्” छा० उ० ।
“ऋवोषो अत्रिमवनीतसुन्निन्थथुः” ऋ० १ । ११६ । ८ ।
  • आ + दूरस्थस्यान्तिकप्रापणे । “दूरादिन्द्रमनयन्ना सुतेन” ऋ०
७ । ३३ । २ “रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम्” भा० द्रो०
१४७ अ० । “पुत्रीयता तेन वराङ्गनाभिरानायि विद्वान्
पृष्ठ ३१९८
क्रतुषु क्रियावान्” (पुरीमृष्यशृङ्गः) संयोजने च
“तप्ते पयसि दध्यानयति सा वैशदेव्यामिक्षा भवति” श्रुतिः
  • अभि + आ + आभिमुख्येन नयने “दधिमधुसर्पिरातपवर्ष्या
आपो ऽभ्यानीय” ऐत० ब्रा०
  • परि + आ + परित आनयने । “पाञ्चालराजं द्रुपदं गृहीत्वा
रणमूर्द्धनि । पर्य्यनयत भद्रं वः सा स्यात्
परमदक्षिणा” भा० आ० १३८ अ० ।
  • प्रति + आ + प्रतिकूलतया आनयने गतस्य पुनराननयने “प्रत्या-
नेष्यति शुत्रुभ्यो वन्दीमिव जयश्रियम्” कुमा०
  • उद् + ऊर्द्धं नयने “किं स्विदादित्यमुन्नयति” भा० व० १७३
अ० । “रेतोधाः पुत्र उन्नयति नरदेव! यमक्षयात्”
भा० आ० ७४ अ० । उद्भावने लिङ्गदर्शनेनानुमाने च
“नीचासन्तमुदनयः परावृजम्” ऋ० २ । १३ । १२ ।
उत्सञ्जने उत्क्षेपे आत्म० । “दण्डमुन्नयते उत्क्षिपती-
त्यर्थः” सि० कौ० ।
  • उप + उपस्थापने “उपनिन्थुर्महाभागं दुहितृत्वेन जाह्न-
वीम्” हरिवं० १४२१ । “महत्या सेनया राजा दमयन्तो-
मुपानयत्” भा० व० ३०६३ श्लो० । दिव्जानामसाधारणे
संस्कारभेदे आत्म० । आचार्य्यः शिष्यमुपनयते । “गर्भा-
ष्टमेऽष्टमे वाऽव्दे ब्राह्मनस्थोपनायनम्” “उपनीय ददद्
वेदानाचार्य्यः स उदाहृतः” मनुः । “आचार्य्य
उपनयमानो ब्रह्मचारिणम्” अथ० ११ । ५ । ३ “तथेति तं
होपनित्ये” शत० ब्रा० ११ । ५ । ३ । १३ । “समिधमाहर
उप त्वा नेष्ये” छा० उ० । स च संस्कारः वेदार्हता
प्रयोजकः । तस्य परगामिफलकत्वात् परस्मैपदे प्राप्ते
सम्मानोत्सञ्जनाचार्य्यकरणेत्यादिना पा० तङ् विहितः ।
“न हि उपनयनमात्रेणाचार्य्यत्वं किन्तु तत्पुर्वकाध्यापनेन
“उपनीय दददु वेदान् आचार्य्यः स उदाहृतः इति
स्मृतेः” इत्याशयेन उपनयनपूर्वकेनाध्यापनेन हि उप
नेतरि आचार्य्यतं क्रियते इति” सि० कौ० उक्तम् । “यस्य
प्रपितामहादेर्नानुस्मर्य्यते उपनयनम्” आपस्तम्बः भृतिदानेन
समीपप्रापणे आत्म० । “कर्म्मकरानुपनयते भृतिदानेन
स्वसमीपं प्रापयतीत्यर्थः” सि० कौ०
  • नि + उत्सर्जने । “उदकं निनयेच्छेषं शनैः पिण्डान्तिके
पुनः” मनुः । “निनयेत् उत्सृजेत्” कुल्लू० ।
“ओषधिभ्यो वृष्टिं निनयति” तैचि० २ । ४ । ९२३ । नितरा
नयने च “पूर्णपात्रमन्तर्वेदि निनयति” तैत्ति० १ । ७ । ५ । ३
“दासी कुम्भं वहिर्ग्रामान्निनयेयुः स्वबान्धवाः । पतितस्य
बहिः कुर्य्युः सर्वकार्य्येषु चैव तम्” “चरितव्रत आयाते
निनयेरन्नवं घटम्” याज्ञ० ।
  • निर् + निश्चये अवधारणे तदभावाप्रकारकत्वे सति तत्
प्रकारके ज्ञानभेदे । “देवःपतिर्विदुषि! नैषधराजगत्या
निर्णीक्यते न किम्, न व्रियते भवत्या” नैष० “पुरावृत्तकथो-
द्गारैः कथं निर्णीयते परः” हितो० ।
  • परा + पुनरानयने गतस्य पुनः स्वस्थानप्रापणे “पुनः कृत्यां
कृत्याकृते हस्तगृह्य पराणय” अथ० ५ । १४ । ४ ।
  • परि + परितो नयने “तेषां वृत्तं परिणयेत् सम्यग्राष्ट्रेषु
तच्चरैः” मनुः । प्रदक्षिणीकरणे “तौ दम्पतीः त्रिः
परिणीयं वह्निम्” कुमा० । “अगृह्णां यच्च ते पाणिमग्निं
पर्य्यणयं च यत्” रामा० अयो० ४२ अ० । विवाहरूप
संस्कारभेदे च “वरयित्वा यथान्यायं मन्त्रवत्
परिणिय च” भा० आ० ६१३४ श्लो० । “सर्वाः परिणयेत्
विप्रः” स्मृतिः “परिणेष्यति पार्वतीं यदा” कुमा० ।
  • वि + क्षेपे उपसम्पत्तौ प्रवेशने विधाने च “प्रणीतः
संस्कृताग्नौ ना यज्ञपात्रन्तरे स्त्रियाम् । त्रिषु क्षिप्तोप-
सम्पन्नविहितेषु प्रवेशिते” मेदि० । तत्र क्षेपे “तेन
सम्यक् प्रणीतानि शरक्जालानि भागशः” भा० भी० ८७ अ० ।
विधाने “प्रणोय दारिद्र्यदरिद्रतां नृपः” नैष० ।
“मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते” सुग्ध० “स एव
“धर्मो मनुना प्रणीतः” रघुः “यदि न प्रणय्द्दण्डं राजा
दण्डेष्वतन्त्रितः” मनुः ।
अग्निसंस्कारभेदे । “अग्निपणयनं कृत्वा” स्मृतिः ।
अग्न्याधेय शब्देदृश्यम् “महाध्वरे वह्निरभिप्रणीतः” भट्टिः ।
उपसम्पत्तिः स्नेहभेदः । प्रणयः । प्रणयिजनः । “प्रणयस्व
यथाश्रद्दं राजन्! किं कारवाणि ते” भा० व० २१६० श्लो० ।
“सञ्चये च विनाशान्ते मरणान्ते च जीविते । “संयोगे
च वियोगान्ते को नु विप्रणयेन् मनः” भा० शा० ३८९१
श्लो० “भक्तिप्रोतिप्रणयसहितं मानदम्भाद्युपेतम्” उद्ध० दू०
  • प्रति + पुनः प्रापणे यतो गतिस्तत्रैव पुनर्नयने ।
“प्रतिनेतुमयोध्याम्” रामा० २ । ९० अ० । “तेभ्यः
एनान् प्रतिनयामि बद्ध्वा” अ० ८ । ८ । १० “भद्रं न सर्व-
मेतद्वित्तं गृहं प्रतिनेतुं युज्यते” पञ्चत० ।
  • वि + अपसरणे “अहं हि ते विनेष्यामि युद्धश्रद्धामितःपरम्”
भा० उ० ३४७५ श्लो० । भारमेनं विनेष्यामि पाण्ड-
वानां महात्मनाम्” भा० भी० ५० अ० । शिक्षाविशेषे
“विनितैस्तु व्रजेन्नित्यमाशुगैः” “नाविनितैर्ब्रजेद्धुर्यैः”
पृष्ठ ३१९९
मनुः । “तपस्विसंसर्गविनीतसत्त्वे” (तपोवने) “वन्यान्
विनेष्यन्निव दुष्टसत्वान्” रघुः । “स्वधर्माच्चलितान् राजा
विनीय स्थापयेत् पथि” याज्ञ० आनुकूल्यार्थमनुनये विनयः ।
ऋणादेर्निर्यातने आत्म० । करं विनयते राज्ञे देयं
भागं परिशोधयतीत्यर्थः” सि० कौ० । व्यये विनियोगे
आत्म० । शतं विनयते धर्म्मार्थं विनियुङ्क्ते इत्यर्थः
सि० कौ० । अपनयने कर्तृशरीरभिन्ने कर्मणि
कर्त्तृस्थे क्रियाफले आत्म० । क्रोधं विनयते अपगमयति
क्रोधापसारणफलस्य चित्तप्रसादस्य कर्तृस्थत्वात् “स्व-
रितञितः” इत्येव सिद्धे नियमार्थमिदं तेनेह न गण्डं
विनयति, गण्डस्य शरीरावयवत्वात् कर्तृस्थत्वेऽपि
न तङ् । कर्त्तृस्थे इत्युक्तेः गुरोः क्रोधं विनयतित्येव ।
  • सम् + संयोजने । “ब्रह्मण्यात्मानं संनयन्” भाग० ६ । १० । १
“ओषधिभ्योऽध्यात्मन् समनयन्” तैत्ति० व्रा० २ । ५ । ३ । ३ स्था-
पने च “कंसे पृषदाज्यं संनीय” वृह० उ० ६ । ४ । २४ मिश्रणे
“दधिमधुहविषा धृतं संनीय” वृह० उ० वैदिकहविः ।
संस्कारभेदे सांनाय्यं हविः “नासोमया संनयेत्” तैत्ति०
स० २ । ५ । ५ । १ ।

णील नीलताकरणे भ्वा० पर० सक० सेट् । नीलति प्रणी-

लति अनीलीत् । निनील

णीव स्थौल्ये भ्वा० पर० सक० सेट् । नीवति प्रणीवति

अनीवीत् निनीव ।

णु स्तुतौ अदा० पर० सक० वेट् । नौति प्रणौति अनावीत्-

अनौषीत् नुनाव नुनुविथ नुनुविव । नोता नविता
नविष्यति नोष्यति नोतव्यं नवितव्यं नुतः । नुतिः
नुत्वा प्रणुत्य । “येन नुवन्तमहिंसं पिणक्” ऋ०
६ । १७ । १० । “द्विधाप्रयुक्तेन च वाङ्मयेन सरस्वती
तन्मिथुनं नुनाव” कुमा० । “सादरं नैमि तं भक्त्या
श्रीगोपीजनवल्लभम्” स्क० पु० । “सैन्यं नीलं नुनाव
च” भट्टिः । णिच् नावयति णिच् सन् । नुनावयिषति
सन् नुण्णूषते यङ् नोनूयते ।
  • आ + सम्यग्स्तवने आत्म० । “पतत्त्रिणः शुभामन्दमानु-
बानास्त्वजिह्लदन्” भट्टिः ।
  • प्र + प्रकर्षेण स्तवभे “एददेवं विद्वानक्षरं प्रणौति” छा० उ० ।

णु गतौ भ्वा० आत्म० सक० अमोट् निघण्टुः । गवते नवते

इत्यादि गतिकर्मसु मिरुक्तोक्तेः नवते । “अभीनवन्ते
अदूहः प्रियमिन्द्रस्य काम्यम्” ऋ० ९ । १० । १ ।
“अभीनवन्ते अभिगच्छन्ति” भा० । “हरिं नवन्ते अवता
उदन्यवः” ऋ० ९ । ८६७२७ “नवन्ते गच्छन्ति” भा० ।
“गावो न धेनवोऽनवन्त” १० । ९५ । ६

णुद प्रेरणे तुदा० उभ० सक० अनिट् । नुदति--ते प्रणुदति

अनौस्मीत् अनुत्त । नुनोद नुनुदे नोत्ता नोत्स्यति ते
नोदनम् नोत्तुम् । नुन्नः नुत्तः । “मन्दं मन्दं
नुदति पवनश्चानुकूलो यथा त्वाम्” मेघ० । खण्डने
अपसारणे च नुनुदे तनुकण्डु पण्डितः” नैष० ।
अदस्त्वया नुन्नमनुचमं तमः” माघः । “प्रणुद्यान्मे
वृजिनं देवदेवः” हरिवं १३१ अ० । “विधिना संप्रणु-
दितः” भा० व० १ अ० । अनुदात्तेत्त्वेऽपि इट् आर्षः ।
नोदं करोतीति णिच् । नोदयति नोदितः नोद्यमानः ।
“ते नोद्यमाना विधिवत् बाहुकेन हयोत्तमा” भा० व०
७१ अ० । “अङ्कुशाङ्गुष्ठनोदिताः” भो० १९ अ० ।
धातुपाठे स्वरित्सु णुद प्रेरण इति पाठेऽपि
पुनस्तथैबोत्तरत्र पाठः कर्त्रभिप्राये क्रियाफलेऽपि परस्मै-
पदार्थः” सि० कौ० ।
  • अप + अपसारने “जरां रोगमपनुद्य शरिरात्” साङ्ख्या० गृ०
“आच्छाद्य च महाबाहुर्वलात्तृष्णानपानुदत्” भा० आश्व०
६२ अ० । “अलक्ष्मीं व्यपनोत्स्यथ” भा० व० ११५ अ० ।
“अभिद्रवार्जुन! क्षिप्रं कुरून् द्रोणदापानुद” भा० द्रो०
१९० अ० ।
  • परा + अपसारणे “तन्न पराणुद विभो! कश्मलं मानसं
महत्” भाग० ३ । ७ । ७ श्लो० ।
  • प्र + प्रकर्षेण नोदने चालने च । “स शत्रुसेनां तरसा प्रणुद्य”
भा० वि० ६४ अ० । अपसारणे “ततोऽन्धकारं प्रणुदन्नुद-
तिष्ठत चन्द्रमाः” भा० व० ३३ अ० ।
  • वि + विशेषणे नोदने । “चोदयामास तानश्वात् विनुन्नाद्भीष्म-
सायकैः” भा० भी० ४८४६ श्लो० । णिजन्तस्य दुःखा-
द्यपसारणे “लक्ष्मीविर्नोदयति येन दिगन्तलम्बी” रघः
मल्लिनाथस्तु तत्करोतीत्यर्थे नामधातुरयमित्याह ।
“पुष्पं फलं चार्त्तवमाहरस्व । विनोदयिष्यन्ति नवाभि-
षङ्गादु” रघुः । “कथं वा देवी सरुजत्वात् विनोद्यते”
मालविकाग्नि० । “लोलं विनोदय मनः सुमनोलतासु” ।
सा० द० ।

णू स्तुतौ तु० कु० सक० प० सेट् । नुवति प्रणुवति अनुवीत् नुनाव

“समिन्द्रगर्दभं मृण नुवन्तं पापयामुया” ऋ० १ । २९ । ५
“महामनूषत श्रुतम्” ऋ० १ । ६ । ६ “अबुषत स्तुतबन्तः
आर्षः इडभावः । अयं ह्रस्वान्त इति षिररुचिः । नुव-
मानाश्च मर्त्ताः” ऋ० १ । १९०१ नवमानास्तुवानाः” भा०
वेदे आत्म० गणव्यात्यासश्च ।

णेद सन्निधाने उभ सक० सेट् । नेदति--ते प्रनेदति--ते ।

अनेदीत् अनेदिष्ट निनेद निनेदे ।

णेष गतौ भ्वा० आत्म० सेट् । नेषते प्रणेषते । अनेषिष्ट

ऋदित् अनिनेषत्--त ।
एते घातवः नादिका अपि सति हेतौ णत्वार्थं गणे
णोपदेशितया पठिताः प्रयोगे तु दन्त्यनादय एव पुनः
प्रादियोगे णत्वमुपयान्ति । नन्दनाथनाधनक्क नृनाटिधात
यस्तु णोपदेशत्वाभावात् निमित्तेऽपि न णत्वमुपयान्तीति भेदः

ण्य पु० ब्रह्मलोकस्थे सरोवरभेदे

“अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्य्यमेव तदरश्च ह
वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम-
दीयम्” छा० उ० । “तत्तत्र हि ब्रह्मलोके अरश्च ह वै प्रसिद्धो
ण्यश्चार्णवौ समुद्रौ । समुद्रावपामेव सरसी तृतीयस्याम्
भुवमन्तरिक्षञ्चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितो-
ऽस्माल्लोकादारभ्य गण्यमानायां दिवि । तत्तत्रैव चैरं
इराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुप-
योगिनां मदकरं हर्षोत्पादकं सरः” शाङ्करभा० ।
इति वाचस्पत्ये णकारादिशब्दार्थसंकलनम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/झ-ण&oldid=85301" इत्यस्माद् प्रतिप्राप्तम्