पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
कुमारसम्भवे

कुमारसम्भवे प्रत्येकं विनियुक्तात्मा कथं न ( १ ) ज्ञास्यसि प्रभो ॥३१॥

(१)भवल्लभ्ववरोदौर्णस्तारकाख्यो महासुरः । उपल्पवाय​ लोकानां धूमकेतुरिवोत्थितः ॥३२॥ पुरे तावन्तमेवास्य (२) तनोति रविरातपम् । दौर्घिकाकमलोन्मेषोयावन्मात्रेण साध्यते ॥३३॥

नवद्दा" इति वर्तमानप्रयोगः ॥ वामनस्तु भ्रान्तोऽयं प्रयोग इत्याह । आहेति भूतं णलन्त​भ्रमवदिति । आईत्युपलक्ष- णम् ॥ तदेवं सत्यम् | नोऽस्माकं पदमधिकारः परैः शत्रुभि रामृष्टमाक्षिप्तम् । हे प्रभो प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरूपः । सर्वान्तर्यामौत्यर्थः । कथं न ज्ञास्यसि म वेत्सि ॥ वर्तमानेऽपि वचनभया भविष्यनिर्देशः प्रसिद्धः ॥ "अपडवे : " "अकर्मकाञ्च" इत्यात्मनेपदविकल्पः ॥ ३१ ॥ उक्तमेव प्रपश्यति भवदिति ॥ भवतस्त्वत्तो लब्धेन​ वरेण उदौर्ण उद्दतः । तारक इत्याख्या नामधेयं यस्य म तारकाख्यः । महानसुरो महासुरः ॥ "सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानेः" इति तत्पुरुषः ॥ धूमकेतुरुत्पातविशेष इव लोकानामुपवायोप द्रवायोत्थित उत्पन्नः ॥३२॥ पुर इति ॥ भस्थ तारकस्य पुरे रविः सूर्यस्तावन्तं ताव- मानमेवातपं तनोति । यावाभावेण यावतैव । यावतौ मात्रा मितिर्यस्य यावन्माव तेन वा । अल्पपरिमाणेनेत्यर्थः । “मावा परिच्छेदे। अल्पे च​ परिमाणे सा मावं मार्त खोऽवधारणे" इत्यमरः ॥ दौर्घिकास क्रौडावापौषु कमलामामुन्भेषो विका- शः साध्यते निष्यायते। कठोरकिरणोऽपि मन्दोष्णः सरोव तहौत्या पुरे प्रकाशत इत्यभिप्रायः ॥३३॥

(e) ज्ञास्यति प्रभुः । (१) त्वया दत्त, भवदत्त । (२) करोति ।