सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/सत्रपर्व/प्रथमादशतिः/रायोवाजीयम्

विकिस्रोतः तः
रायोवाजम्.

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।

स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥ १७४३ ॥

अत्यायातमश्विना तिरो विश्वा अहं सना ।

दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवं ॥ १७४४ ॥

आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवं ।

रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवं ॥ १७४५ ॥ ऋ ५.७५.१

४. रायोवाजः । पङ्क्तिः । अश्विनौ ॥
एप्राती ॥ प्रियतमꣲरथं वृषणं वसुवाऽ२हनाम् । इडा । स्तोतावामश्विनाऽ१वाऽ३र्षीः । स्तोमेभिर्भूषताऽ३इ । प्राताइ ॥ श्रीः ॥ एआत्या ॥ यातमश्विनातिरोविश्वाअहाऽ२ ꣲसना । इडा । दस्राहिरण्यवाऽ१र्ताऽ३नी
सुषुम्णासिन्धुवाऽ३ । हासा ॥ श्रीः ॥ एआनाः ॥ रत्नानिबिभ्रतावश्विनागच्छताऽ२म्युवाम् । इडा । रुद्राहिरण्यवाऽ१र्ताऽ३नी । जुषाणावाजिनाऽ३इ । ॥ वासू ॥ माध्वीममश्रुताऽ२३ꣲहोइ ॥ हावमाऽ३१उवाऽ२३ ॥ इट्स्थिइडाऽ२३४५ ॥
दी. २१. उ. ३. मा. १३. गि. ॥ १२३ ॥

[सम्पाद्यताम्]

टिप्पणी

लौशम् (प्रति प्रियतमं इति) (ग्रामगेयः)