सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.6 षष्ठी दशतिः

विकिस्रोतः तः

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे।। ३४२।।

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः।
रथीतमं रथीनां वाजानां सत्पतिं पतिं।। ३४३।।
शैखण्डिनानि, आष्टादंष्ट्रे, महावैश्वामित्रे

इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदं।
शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने।। ३४४।।

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः।
राधस्तन्नो विदद्वस उभयाहस्त्या भर।। ३४५।।

श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति।
सुवीर्यस्य गोमतो रायस्पूर्धि महां असि।। ३४६।।

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि।
आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः।। ३४७।।

एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं।
दिवो अमुष्य शासतो दिवं यय दिवावसो।। ३४८।।

आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः।
अभि त्वा समनूषत गावो वत्सं न धेनवः।। ३४९।।

एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना।
शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु।। ३५०।।

यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः।
सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः।। ३५१।।