सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.1 प्रथमा दशतिः

विकिस्रोतः तः

उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतं ।
इन्दुं देवा अयासिषुः ॥ ४८७ ॥
यामानि त्रीणि

पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
शुम्भन्ति विप्रं धीतिभिः ॥ ४८८ ॥
अंकतेः साम, वैरूपं

आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।
इन्दुरिन्द्राय धीयते ॥ ४८९ ॥

असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
कार्ष्मन्वाजी न्यक्रमीत् ॥४९० ॥

प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
घ्नन्तः कृष्णामप त्वचं ॥ ४९१ ॥

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
नुदस्वादेवयुं जनं ॥ ४९२ ॥

अया पवस्व धारया यया सूर्यमरोचयः ।
हिन्वानो मानुषीरपः ॥ ४९३ ॥

स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
वव्रिवांसं महीरपः ॥ ४९४ ॥

अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
अवाहन्नवतीर्नव ॥ ४९५ ॥

परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा ।
स्वानो अर्ष पवित्र आ ॥ ४९६ ॥