सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३ वर्ग:]
369
सर्वे मेतद्धयगणयन् सीतां लड्डो निनाय सः

 [१] निमेपान्तरमात्रेण विना [२] भ्रात्रा महावने ।
राक्षसा निहता येन सहस्राणि चतुर्दश || २३ ||

 विना भ्रात्रेति । एकाकिनेति यावत् ॥ २३ ॥

स कथं राघवो वीरः सर्वास्त्रकुशलो बली ।
न त्वां हन्यात् शरैस्तीक्ष्णैः [३] इष्टभार्यापहारिणम् ॥ २४ ॥
एतच्चान्यच्च [४] परुषं वैदेही रावणाङ्कमा ।
भयशोकसमाविष्टा करुणं विललाप ह ।। २५ ।।
[५] तथा भृशार्ता [६] बहु चैव भाषिणीं
[७] विलापपूर्व करुणं च भामिनीम् ।
जहार पापः [८] करुणं [९] विवेष्टत
नृपात्मजां आगतगात्र [१०] वेपथुम् ।। २६ ।।

इस्यायें श्रीमरामायणे बाल्मीकीये अरण्यकाण्डे त्रिपञ्चाशः सर्गे


 विलापः -परिदेवनम् । अचारु (२६ १-२) मानः सर्गः ॥

इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे त्रिपञ्चाशः सर्ग:


  1. निमेषान्तरमात्रेण – निमेषावकाशमात्रेण-गो.
  2. भ्रातर माहवे-ज.
  3. दृष्ट्वा भार्या - ङ.
  4. परुष करुणं व विकलाप | पर उक्ता करुगं विललापेति वा ।
  5. वदा-ज.
  6. बहुरूप-ख
  7. केविलापपूर्व करुणं च यथा तथा भाषिणीं, करुणं था तथा त्रिवेष्टत-गो.
  8. तरुणीं-अ.
  9. बिचेटती-ज.
  10. वेपथुः-अ.