सामग्री पर जाएँ

पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३ सर्ग:]
365
मिनिन्द बहुधा सीता रोषात दुःखाच रावणम् :

त्रिपश्चाशः सर्गः

[रावणगईणम् ]

[१] खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।
दुःखिता [२] परमोद्विग्ग्रा भये महति वर्तिनी ॥ १ ॥

 अथ सीतया क्रियमाणपारुष्य एव तां हरति स्म रावणः । खामेत्यादि । वर्तिनीति । असुप्यपि णिनिरार्षः ॥ १ ॥

रोपरोदनताम्राक्षी मीमाक्षं राक्षसाधिपम् ।
रुदन्ती करुगं सीता ह्रियमाणेदमब्रवीत् || २ ||

 रोषरोदनाभ्यां हेतुभ्यां ताम्राक्षी ॥ २ ॥

न व्यपत्रपसे, नीच ! कर्मणाऽनेन, रावण !
'ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे |॥ ३ ॥

 विरहितां इति । रामलक्ष्मणाभ्यामिति शेषः ॥ ३ ॥

त्वयैव नूनं, दुष्टात्मन् ! भीरुणा हर्तुमिच्छता ।
ममापवाहितो भर्ता मृगरूपेण मायया ।। ४ ।।
यो हि मां उद्यतः त्रातुं सोऽप्ययं विनिपातितः ।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ ५ ॥

 पुराण:- वृद्धः ॥ ५॥


  1. नात्र वर्ण्यमानवृत्तानां अत्यन्ताव्यवधानं विवक्षितमिति गतसमें ३१ श्लोक-
    टिप्पण्यामेवोक्तम् । आइस्य वृत्तानां वृतान्तानां कथनमिदम् । अत एवात्र खमुत्प
    तन्तं' इत्युक्तेर्न विशेषः । तत्कालवृत्तान्तवादस्य ॥
  2. परमोदिमा-कम्पिता-गो.