मया सदृशोऽन्यो धन्यतरो नास्तीति योजना । [१]वर (२४) मानः सर्गः ? ॥ २२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तचत्वारिंशः सर्गः
अथ अष्टचत्वारिंशः सर्गः
[अहल्याशापः]
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
कथाऽन्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥
अथाहल्याशापमोक्षणं, दिव्यरामचरितप्रतिपादनशेषतया अहल्याशापहेतूपदेशादिस्सर्गद्वयेन । पृष्ट्वा त्वित्यादि । कथाऽन्ते व्याजहारेति । अनेन प्रसङ्गान्तरे चिन्ताव्याक्षेपपरिहरेण रामस्वरूपादिविषयप्रश्नादरातिशयो द्योत्यते ॥ १ ॥
इमौ कुमरौ, [२]भद्रं ते, देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ २ ॥
गजसिंहगती शार्दूलवृषभोपमाविति च क्रमेण रामलक्ष्मणयोर्ग मनाकारविषयकोपमाने। 'गजगती रामः, प्रभुत्वात्; अन्यगतिर्लक्ष्मणः ; अत एव शार्दूलोपमो रामः, अन्यः अन्योपमः ॥ २ ॥
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ ३ ॥
समुपस्थितयौवनौ । अत एव रूपेण अश्विनाविव स्थितौ ॥