पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
358
[बालकाण्डः
अहल्याशापः

 यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
 कथं पद्भ्यामिह प्राप्तौ ? किमर्थं ? कस्य वा ? मुने !॥ ४ ॥

 यदृच्छया-दैववशसम्पन्ननिमित्तविशेषेणेति यावत् । इदं तु वास्तवं किमर्थं-किं प्रयोजनमुद्दिश्य । कस्य वेति । सुताविति शेषः ॥

 भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम् ।
 परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ ५ ॥

 भूषयन्ताविति। निजतेजसेति शेषः । तादृशपुरुषान्तरस्याभावात्–परस्परस्येति । प्रमाणं-आकारप्रमाणम् । इङ्गितं-आन्तराशय बोधकस्मितादिः । चेष्टा-वचनगमनादि ॥ ५ ॥

 किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि ।
 वरायुधधरौ वीरौ,श्रोतुमिच्छामि तत्त्वतः ॥ ६ ॥

 किमर्थं प्राप्ताविति । आदरातिशयात् पुनः प्रश्नः ॥ ६ ॥

 [१]तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
 सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७ ॥

 यथावृत्तं न्यवेदयदिति । दशरथकुमारावस्मद्यज्ञविघ्ननिवारणार्थं अस्मदा [२]करणात्-सिद्धाश्रममागताविति सिद्धाश्रमनिवासपर्यन्तवृत्तान्तः -राक्षसानामिति । तदूध रूपयज्ञविघ्ननिवृत्तिप्रयोजनम्, चकाराज्जनक-धनुर्दिदृक्षयैतद्देशगमनं च न्यवेदयदित्यर्थः ॥ ७ ॥

 विश्वामित्रवचःश्रुत्वा राजा [३]परमहर्षितः ।
 अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ॥ ८ ॥


  1. एतदनन्तरं-अयोध्याधिपतेः पुत्रो राशो दशरथस्य हि । मम यज्ञसमाप्त्यर्थमागतौ रामलक्ष्मणौ ॥ सिद्धाश्रममनुप्राप्य राक्षसानभिहत्य च । इमं देशमनुप्राप्तौ वीरौ
    दशरथात्मजौ ॥-इत्यधिकं ङ.
  2. आकरणं-आह्वानम् ।
  3. परमविस्मितः-ङ.