पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८ सर्गः]
357
तदा तत्र वसन् राजा सुमतिस्तानपूजयत्

 मया सदृशोऽन्यो धन्यतरो नास्तीति योजना । [१]वर (२४) मानः सर्गः ? ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तचत्वारिंशः सर्गः


अथ अष्टचत्वारिंशः सर्गः
[अहल्याशापः]

 पृष्ट्वा तु कुशलं तत्र परस्परसमागमे ।
 कथाऽन्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १ ॥

 अथाहल्याशापमोक्षणं, दिव्यरामचरितप्रतिपादनशेषतया अहल्याशापहेतूपदेशादिस्सर्गद्वयेन । पृष्ट्वा त्वित्यादि । कथाऽन्ते व्याजहारेति । अनेन प्रसङ्गान्तरे चिन्ताव्याक्षेपपरिहरेण रामस्वरूपादिविषयप्रश्नादरातिशयो द्योत्यते ॥ १ ॥

 इमौ कुमरौ, [२]भद्रं ते, देवतुल्यपराक्रमौ ।
 गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ २ ॥

 गजसिंहगती शार्दूलवृषभोपमाविति च क्रमेण रामलक्ष्मणयोर्ग मनाकारविषयकोपमाने। 'गजगती रामः, प्रभुत्वात्; अन्यगतिर्लक्ष्मणः ; अत एव शार्दूलोपमो रामः, अन्यः अन्योपमः ॥ २ ॥

 पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ ।
 अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ ३ ॥

 समुपस्थितयौवनौ । अत एव रूपेण अश्विनाविव स्थितौ ॥


  1. खरमान इति स्याद्वा। खकार-वकारयोः ग्रन्थलिप्यामक्षरसाम्यात् ।
  2. दृष्टिदोषो मामूदित्याह-भद्रं त इति-गो॥ एकवचनं तु जात्या वा एतादृश-कुमारानयितृमुन्यभिप्रायेण वा स्यात् ।