[१]भक्तस्त्वयि स्थिरतरः स हि गान्दिनेय- |
भक्त इति । का[२]पथे कुत्सिते मार्गे हिंसादौ । उदीर्णम् उत्पन्नम् ॥ १० ॥
यातं भयेन कृतवर्मयुतं पुनस्त- |
यातमिति । सत्राजि [४]द्धन्तुर्वधात् तत्प्रयोजकयोर।वयोरपि वधः कृष्णेन भावीति भयेन यातं विदेशगतं कृतवर्मसहितं तम् अक्रूरं पुनर्दूतमुखेन आहूय अनीय शतधन्वना तस्मिन्नक्रूरे विनिहितं प्रकाश्य अग्रजादिभ्यः प्रदर्श्य तत्र अक्रूर एव विनिधाय तुप्यन् कृतकृत्यः सन् ॥ ११ ॥
इति स्यमन्तकोपाख्यानमशीतितमं दशकं सैकम् ।
स्निग्धां मुग्धां सततमपि तां लालयन् सत्यभामां |
स्निग्धामिति । स्निग्धां प्रणयिनीं मुग्धां मोहनरूपाम् । संविधाय विश्वकर्मणा कारयित्वा ॥ १ ॥
भद्रां भद्रां भवदवरजां कौरवेणार्थ्यमानां |