पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
[स्कन्धः - १०
नारायणीये


ही गान्दिनेयकृतवर्मगिरा निपात्य
 सत्राजितं शतधनुर्मणिमाजहार ॥ ७ ॥

 व्रीडाकुलामिति । जतुगेहे कौन्तेया दग्धा इति कथा लोकवादः, तया त्वयि कुरून् हस्तिनपुरं प्रयाते सति ही कष्टं गान्दिनेयस्य अक्रूरम्य कृतवर्मणश्च प्रतिश्रुतस्यादातारं जहीति गिरा शतधन्वा सत्राजितं निपात्य हत्वा[१] मणिमाजहार ॥ ७ ॥

शोकात् कुरूनुपगतामवलोक्य कान्तां
 हत्वा द्रुतं शतधनुं समहर्षयस्ताम् ।
रत्ने सशङ्क इव मैथिलगेहमेत्य
 रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥ ८ ॥

 शोकादिति [२] तां सत्यभामां पितृहन्तुर्वधेन समहर्षयः प्रसादितवान् । रत्ने मणौ सशङ्क इव मणिहेतोः शतधन्वानं निहतवानिति ख्यापयितुं तद्वाससि माणिमन्विष्टवानित्यर्थः।‘त्वं पुरीं गत्वा मणिमन्विच्छे'ति कृष्णमुक्त्वा रामो मैथिलस्य गेहंमेत्य धार्तराष्ट्रं सुयोधनं गदां समशिशिक्षत ॥ ८ ॥

 नन्वक्रूरो भक्तः कथं सत्यभापायाः पितरं हन्तुं शतधन्वानं नियुक्तवानित्याशङ्कयास्य भक्तम्मन्यतागर्वापनयनाय कुबुद्धिस्त्वयैवोत्पादितेत्याह अक्रूर इति द्वाभ्याम् ----

अक्रूर एष भगवन् ! भवदिच्छयैव
 सत्राजितः कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिमनाहृतवान् पुनस्त्वं
 तस्यैव भूतिमुपधातुमिति ब्रुवन्ति ॥ ९ ॥

 अक्रूर इति । अक्रूरतः शतधन्वना श्रीकृष्णभीत्या पलायने सति न्यस्तं मणिं त्वमनहृतवान् । तस्याक्रूरस्य भूतिम् ऐश्वर्यम् उपधातुम् उत्पादायितुमिति ब्रुवन्ति । अभिज्ञा इति शेषः ॥ ९ ॥


  1. 'त्वा ॥' क. पाठः.
  2. 'ति । मणि' क. पाठः.