पुरेति । षष्ठान्तरस्य चाक्षुषमन्वन्तरस्यान्तेऽवसाने उद्यत्युद्भूते अत एवाकाण्डकल्पेऽवान्तरप्रलये । अघित्सः विधातुमैच्छः ॥ १ ॥
सत्यव्रतस्य द्रमिलाधिभर्तुर्नदीजले तर्पयतस्तदानीम् । |
सत्येति । नद्या कृतमालाया जले ॥ २ ॥
क्षिप्तं जले त्वां चकितं विलोक्य निन्थेऽम्बुपात्रेण मुनिः स्वगेहम् । |
क्षिप्तमिति । आनशिषे व्याप्तोऽभूः ॥ ३ ॥
योगप्रभावाद् भवदाज्ञयैव नीतस्ततस्त्वं मुनिना पयोधिम् । |
योगेति । मुनिना राजर्षिणा | योगप्रभावात् तपश्शक्त्या | भवदाज्ञया महामत्स्यं मामपी[१]दानीमुदधिजले प्रक्षिपेत्येवंरूपया । कल्पदिदृक्षुं प्रलयार्णवदर्शनोत्सुकम् ॥ ४ ॥
प्राप्ते त्वदुक्तेऽहनि वारिधारापरिप्लुते भूमितले मुनीन्द्रः । |
प्राप्त इति । अपारवारिणि प्रलयाब्धौ | उद्घूर्णमानः सम्भ्रान्तः ॥ ५ ॥
धरां त्वदादेशकरीमवाप्तां नौरूपिणीमारुरुहुस्तदा ते । |
धरामिति । ततस्त्वदादेशकरीं त्वत्प्रेरितां नौरूपिणीं भूमिम् । तेषु सत्यव्रतसप्तर्षिषु ॥ ६ ॥
झषाकृति योजनलक्षदीर्घा दधानमुच्चैस्तरतेजसं त्वाम् । |
झषाकृतिमिति । तरणिं नावम् ॥ ७ ॥
- ↑ 'प्युद' क. पाठः.