पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
[स्कन्धः-८
नारायणीये

आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।
संस्तूयमानो नृवरेण तेन ज्ञानं परं चोपदिशन्नचारीः ॥ ८ ॥

 आकृष्टेति । मुनिमण्डलाय सत्यव्रतसप्तर्षिभ्यः । ज्ञानं परं च शास्त्रज्ञानं ब्रह्मज्ञानं च ॥ ८ ॥

कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपं तम् ।
वैवस्वताख्यं मनुमादधानः क्रोधाद्धयग्रीवमभिद्रुतोऽभूः ॥ ९ ॥

 कल्पेति । वैवस्वताख्यमिदानीन्तनम् ॥ ९ ॥

स्वतुङ्गशृङ्गक्षतवक्षसं तं निपात्य दैत्यं निगमान् गृहत्विा ।
विरिञ्चये प्रीतह्टदे ददानः प्रभञ्जनागारपते ! प्रपायाः ॥ १० ॥

 स्वेति । विरिञ्चये ब्रह्मणे ॥ १० ॥ ७१ ॥

इति मत्स्यावतारवर्णनं द्वात्रिंशं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायाम्

अष्टगस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्खया ३३४.