पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ नवमस्कन्धपरिच्छेदः ।

वर्णिते रामचरिते किमन्यैश्चरितैरिति ।
तत्प्रधानेशानुकथा लक्ष्यते नवमोदिता ॥

 अथाम्बरीषचरितमुपक्रमते-

वैवस्वताख्यमनुपुत्रनभागजात-
 नाभागनामकनरेन्द्रसुतोऽम्बरीषः ।
सप्तार्णवावृतमहीदयितोऽपि रेमे
 त्वत्सङ्गिषु त्वयि च मग्नमनाः सदैव ॥ १ ॥

 वैवस्वतेति । ब्रह्मगः पुत्रो मरीचिः, तत्पुत्रः काश्यपः, तत्पुत्रो विवस्वान्, तत्पुत्रः श्राद्धदेवोऽयं वैवस्वताख्यमनुः, तत्पुत्रो नभागः, तत्पुत्रो नाभागः, तस्य पुत्रोऽम्बरीषः, स सप्तार्णवावृतायाः सप्तद्वीपवत्या दयितः सार्वभौमोऽपि त्वयि ईश्वरे त्वत्सङ्गिषु त्वद्भक्तेषु[१] च रेमे ॥ १ ॥

त्वत्प्रीतये सकलमेव वितन्वतोऽस्य
 भक्त्यैव देव ! नचिरादभृथाः प्रसादम् ।
येनास्य याचनमृतेऽप्यभिरक्षणार्थं
 चक्रं भवान् प्रविततार सहस्रधारम् ॥ २ ॥

 त्वदिति । सकलं लौकिकं वैदिकं च कर्म त्वत्प्रीतये वितन्वतः कुर्वतोऽस्य भक्त्यैव त्वं नचिरादल्पेन कालेन प्रसादमभृथाः, येन प्रसादेनास्याभिरक्षणार्थ शत्रुनिवारणार्थं भवान् चक्रं सुदर्शनं प्रविततार दत्तवान् ॥ २ ॥

स द्वादशीव्रतमथो भवदर्चनार्थे
 वर्षे दधौ मधुवने यमुनोपकण्ठे ।
पत्न्या समं सुमनसा महतीं वितन्वन्
 पूजां द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ ३ ॥


  1. 'षु परेषु च'.ग. पाठः.