पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[स्कन्धः - ९
नारायणीये

 स इति । अथो अनन्तरं सोऽम्बरीषो भवदर्चनार्थं वर्षं संवत्सरं द्वादशीव्रतं दधौ । यमुनोपकण्ठे यमुनाया उपकण्ठे तीरे सुमनसा भक्तियुक्तया महतीं सर्वोपहारमहाभिषेकयुक्तां पूजां वितन्वन् । विसृजन् ददत् ॥ ३ ॥

तत्राथ पारणदिने भवदर्चनान्ते
 दुर्वाससास्य मुनिना भवनं प्रपेदे ।
भोक्तुं वृतश्च स नृपेण परार्तिशीलो
 मन्दं जगाम यमुनां नियमान् विधास्यन् ॥ ४ ॥

 तत्रेति । भवदर्चनस्यान्तेऽवसाने । पारणदिन इत्यवसानदिने विप्रान् भोजयित्वा स्वयं भोक्तुकामे सतीत्यर्थः । श्रीदुर्वाससा मुनिनास्य भवनं प्रपेदे प्रापद्यत । परार्तिशील: परपीडानिरतः । अतः पारणकालातिक्रम एव नियमान् विधायागमिष्यामीति मन्दं जगाम ॥ ४ ॥

 राज्ञस्तत्सङ्कटमाह

राज्ञेति पारणमुहूर्तस्य समाप्तिखेदाद्
 वारैव पारणमकारि भवत्परेण ।
प्राप्तो मुनिस्तदथ दिव्यदृशा विजानन्
 क्षिप्यन् क्रुधोद्धृतजटो विततान कृत्याम् ॥ ५ ॥

 राज्ञेति । पारणमुहूर्तस्य समाप्तिर्भविष्यति प्रतिपालने, अप्रतिपालने च मुनिकोपः स्यादिति खेदाद् वारा जलेनैव पारणमकारि । तत् पारणं विजानन् क्षिप्यन् बह्वाक्षेपवादान् कुर्वन्, क्रुधोद्घृतजटः जटया कृत्यां विततान ॥ ५ ॥

कृत्यां च तामसिधरां भुवनं दहन्ती-
 मग्रेऽभिवीक्ष्य नृपतिर्न पदाच्चकम्पे ।
त्वद्भक्तवाधमभिवीक्ष्य सुदर्शनं ते
 कृत्यानलं शलभयन्मुनिमन्वधावीत् ॥ ६ ॥

 कृत्यामिति । ते सुदर्शनं त्वद्भक्तस्य बाधं पीडाम् । कृत्यानलं शलभयद् अनलपतितशलभमिव कुर्वद् मुनिमन्वधावीद् धावतो मुनेः पृष्ठतो धावनमकरोत् ॥ ६ ॥</poem>