स इति । अथो अनन्तरं सोऽम्बरीषो भवदर्चनार्थं वर्षं संवत्सरं द्वादशीव्रतं दधौ । यमुनोपकण्ठे यमुनाया उपकण्ठे तीरे सुमनसा भक्तियुक्तया महतीं सर्वोपहारमहाभिषेकयुक्तां पूजां वितन्वन् । विसृजन् ददत् ॥ ३ ॥
तत्राथ पारणदिने भवदर्चनान्ते |
तत्रेति । भवदर्चनस्यान्तेऽवसाने । पारणदिन इत्यवसानदिने विप्रान् भोजयित्वा स्वयं भोक्तुकामे सतीत्यर्थः । श्रीदुर्वाससा मुनिनास्य भवनं प्रपेदे प्रापद्यत । परार्तिशील: परपीडानिरतः । अतः पारणकालातिक्रम एव नियमान् विधायागमिष्यामीति मन्दं जगाम ॥ ४ ॥
राज्ञस्तत्सङ्कटमाह
राज्ञेति पारणमुहूर्तस्य समाप्तिखेदाद् |
राज्ञेति । पारणमुहूर्तस्य समाप्तिर्भविष्यति प्रतिपालने, अप्रतिपालने च मुनिकोपः स्यादिति खेदाद् वारा जलेनैव पारणमकारि । तत् पारणं विजानन् क्षिप्यन् बह्वाक्षेपवादान् कुर्वन्, क्रुधोद्घृतजटः जटया कृत्यां विततान ॥ ५ ॥
कृत्यां च तामसिधरां भुवनं दहन्ती- |
कृत्यामिति । ते सुदर्शनं त्वद्भक्तस्य बाधं पीडाम् । कृत्यानलं शलभयद् अनलपतितशलभमिव कुर्वद् मुनिमन्वधावीद् धावतो मुनेः पृष्ठतो धावनमकरोत् ॥ ६ ॥</poem>