इन्दुरिन्द्रदिशि लोचनोत्पलैः
सेवितो रसनयाथवासवः ।
अस्तु वो मदविशेष इत्यमुं
कः प्रसादमकरोन्मृगीदृशाम् ॥ ३८ ॥
पीतमाशु मधु रागमुत्कटं
किं गुणान्तरमसूत योषिताम् ।
घू[१]र्णितं तदिह भाज[२] ने[३] चिरं
घू[४] र्णयदेपि दृशौ निजैर्गुणैः ॥ ३९ ॥
कामिनोऽथ परिरेभिरे वधू-
र्वक्षसि प्रथितपीवरस्तनम् ।
पीडितैरिव विमर्दनिर्भरै-
र्भूषणैररमरावि तत्क्षणम् ॥ ४० ॥
या पुरा हृदि बभूव कामिनो-
र्मानशल्यशकलावलिः स्थिरा |
सा समागमरसायनोक्षिता
निर्ययौ पु[५] लकसंहतिच्छलात् ॥ ४१ ॥
योषितां प्रियतमोपगृहने
तुङ्गमप्यवनतं कुचद्वयम् ।
उन्नतस्य महतो गरीयसः
सन्नतिः प्रियज[६]नेषु युज्यते ॥ ४२ ॥