पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
षष्ठः सर्गः ।


पद्मरागरुचिरुज्ज्वलोज्ज्वला
 नैव कुङ्कुमरसेन र[१] ज्यते ॥ ३३ ॥
हारचन्दनधरौ पयो[२]धरौ
 योषितामुरसि पुष्पधन्वनः ।
रेजतुः स्फुटमुदस्त मस्त कौ
 वारणाविव रणाय स[३]ज्जितौ ॥ ३४ ॥
जातिदाम कबरीषु लध्वपि
 प्राप्तमेव निदधुस्तदङ्गनाः ।
जातितोऽथ गुणगौरवेण वा
 यस्य न त्यजति वासनां जनः ॥ ३५ ॥
हृद्यगन्ध[४]कुसुमाधिवासितं
 भेजिरे तुहिनषण्डपाण्डरम् ।
तुङ्गमद्रिपतिशृङ्गसन्निभं
 तल्पमुत्पलदृशः सकामुकाः ॥ २६ ॥
कामिभिः सह मनोनुगामिभिः
 शीथुपानमबलाः प्रचक्रिरे ।
प्रस्तुते सुरतघोरसङ्गरे
 वीरपाणमिव मन्मथानुगाः ॥ ३७ ॥


 * इह वारणशब्दस्य तत्सम्बन्विनि लक्षगा कल्पनीया । मन्मथ- युद्धसज्जीकृतगजसंबन्धिनौ उत्क्षिप्तौ मस्तकाविवेत्यर्थः समर्थनीयः ।


  1. ‘यु' ग. पाठ:.
  2. 'योनिधो यो' क. पाठ:.
  3. 'संयतौ' ग. पाठ:.
  4. 'न्धि' क. पाठः.