पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
षष्ठः सर्गः ।


[१]विश्लथन्निबिडनीवि योषिता-
 मम्बरं मृदु रहस्यरक्ष्यपि ।
तां जगाद दयिताङ्गसङ्गमे
 मुद्रया हृदि परां रिरंसुताम् ॥ ४३ ॥

प्रेषितः प्रणयिनोपमेखलं
 पाणिराकुलमरोधि बालया |
वारितोऽपि मुहुरुत्सुकश्चिरं
 नाभिमानगणनां चकार सः ॥ ४४ ॥

विस्तृतं जघनमेदिनीतलं
 कामिनी हृतदुकूलमाकुला ।
अक्षमा स्वयममुष्य गोपने
 प्रेयसे मदनसाक्षिकं ददौ ॥ ४५ ॥

मुक्तमौक्तिकमनोज्ञमेखला
 निर्गल[२] न्निबिडनीविबन्धना ।
गाढमाशु परिरभ्य सत्रपा
 पर्यधत्त रमणाङ्गमङ्गना ॥ ४६ ॥

गाढदष्टरदनच्छदं मुहुः
 सीत्कृतार्धमुकली कृतेक्षणम् ।
वक्रमासबसुगन्धि योषितां
 चुम्ब्यमानमपि चुम्बितं प्रियैः ॥ ४७ ॥

कृत्स्नमेव र[३]दनच्छदामृतं
 पातुमुत्सुकधियापि योषितः ।


  1. 'प्र' ग. पाठः.
  2. 'म',
  3. 'दशन' क. पाठ:.