पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
भरतचरिते

बिन्दुमात्रमधरेऽवशेषितं
 कामिना दशनपातमुद्रया ॥ ४८ ॥

पूगनागलतिकादलं प्रियः
 प्रेयसीललितदन्तखण्डितम् ।
आचकर्ष ध[१]नसारसौरमं
 रागसारमिव कामिनीमुखात् ॥ ४९ ॥

पञ्चभिर्नखमुखैर्वि[२]लेखितं
 प्रेयसा स्तनयुगं मृगीदृशः ।
व्यज्यमानदलभेदमाबभौ
 जृम्भमाणमिव पङ्कजद्वयम् ॥ ५० ॥

सीत्कृतानि सरसानि योषि[३]तः
 श्रोतुमुत्सुकतमेन कामिना ।
वर्तुलं गलपुटं प्रवर्तितं
 दं[४]शनेन मणिदाममण्डनम् ॥ ५१ ॥

गद्गदेन शकलीकृताक्षरं
 भाषितं तदनु योषितामभूत् ।
सूक्ष्मलक्ष्मभिदुरैरभङ्गुरैः
 खण्ड्यमानमिव कामसायकैः ॥ ५२ ॥

ऊरुतोरणयुगे मृगीदृशः
 श्रोणिचक्रमधिकर्तुमिच्छता ।
कामिना नखमुखैर्निवेशिता
 मन्मथस्य महिताः प्रशस्तयः ॥ ५३ ॥


  1. 'दशनच्छदच्छलादाचितं घनरसेन भूयसा' क. पाठ:.
  2. ‘रलङ्ककृतं’,
  3. ‘तां,
  4. 'दर्शने' ग. पाठ:.