पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
षष्टः सर्गः ।


सोपचारमुपगृह्य निर्दयं
 वक्षसा स्तनतटे शयालुना |
लज्जितापि कुशलेन कामिना
 मज्जिता नववधूः स्मरार्णवे ॥ ५४ ॥

योषितश्चपलमक्षि चुम्बत
 श्चापलं हृदि बभूव कस्यचित् ।
नूनमन्यगुणसंक्रमो नृणां
 जायते परिचयेन भूयसा ॥ ५५ ॥

कान्त ! सीदसि यादे प्रसीद मे
 भारमेनमहमुद्रहामि ते ।
इत्यकाण्डरतिभङ्गभीतया
 कस्यत्तिद दयितया नरायितम् ॥ ५६ ॥

कान्तकण्ठकुहरे वि[१]वर्तितं
 मञ्जुलं मणितमातुमिच्छती ।
अन्तरुत्सुकतमा [२] प्रियानने
 नूतना सुतनुराननं ददौ ॥ ५७ ॥

नोपगूढमचिरोढया वपुः
 श्लिष्यतोऽपि दयितस्य लज्जया ।
विक्रिया हृदि तया न संवृता
 सा च तस्य रतये पदं ददौ ॥ ५८ ॥

अन्यया रतिविधौ नरायिते
 पीवरोरुजघनस्तनं वपुः ।


  1. प्र',
  2. 'या' ख. ग. पाठ:.