पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६६
भरतचरिते


शैलवद् गुरुतरीकृतं क्वचित्
 तूलव लघुतरीकृतं क्वचित् ॥ ५९ ॥

कुण्डलोल्लिखितगण्ड रेखया
 हारहीरलुठितस्तनाग्रया ।
उत्सुकोऽपि दयितोऽनुरक्तया
 नान्वगृह्यत रते महेलया ॥ ६० ॥

अन्ययोरभिनवानुरागयो-
 र्मुग्धयोरनतिरू[१]ढदाक्ष्ययोः ।
मन्मथेन गुरुणोपदर्शिता
 नैपुणी रतिविधौ तयोरभूत् ॥ ६१ ॥

स्रस्त कुन्तला विकीर्णमालया
 घृष्टचन्दन पयोधरान्तथा ।
श्रान्तया श्रमजवारिसिक्तया
 कान्तवक्षसि सुषुप्तमेकया ॥ ६२ ॥

वक्षसि श्वसितकम्पितौ[२] स्तनौ
 रेजतुर्निधुवने मृगोदृशः ।
मारुतक्षुभितवी चिचञ्चलौ
 चक्रवाकविहगाविवाम्भसि ॥ ६३ ॥

योषितां प्रियतमोपगूहने
 मौक्तिकैर्हृदि निवेशितैरिव ।
स्वेदवारिपृषतैर्विनिस्सृतं
 गण्डयोर्गलितपत्रलेखयोः ॥ ६४ ॥


  1. 'तू' क. पाठः.
  2. 'गू' ग. पाठः.