यस्यां हरेभींत इवाविवेश
मन्थाचल: सौधगणच्छलेन ॥ २० ॥
प्रासादवातायन (सल्लि ? जालि) काभि-
र्ज्योत्स्रा[१] गृहीत्वेव कृतानि धात्रा |
यस्या कलङ्केन विना विरेजु
र्वक्रेन्दुबिम्बानि पुराङ्गनानाम् ॥ २१ ॥
वक्रश्रियं वीक्ष्य पुराङ्गनानां
निशासु मन्दाक्षभरादिवेन्दुः ।
विवेश यस्यां प्रतिमाच्छलेन
तिरोबुभूषुर्मणिधामभित्तीः[२] ॥ २२ ॥
कर्णाञ्चलारित्रविधूतपार्श्वै-
र्नागेन्द्र पोतैरतुलैरुपेता ।
सवेगवाहोर्भिविमुक्तफेना
नदीव यस्यां विशिखा विरेजे ॥ २३ ॥
उषेव यान्तर्गतचित्रलेखा
वेश्येव सत्यानृतसञ्चितार्था ।
शैलस्थलीवोद्धतवाहिनीका
नागास्तृता भोगवतीव रेजे ॥ २४ ॥
तूणीव पूर्णा विशिखावलीभि
र्गङ्गेव विख्यातवसुप्रसूतिः ।
लङ्केव सालाग्रविलम्बितर्षा
या रत्नमालेव महापणाढ्या[३] ॥ २५ ॥