पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


आक्रष्टुकामेव विभूतिमन्या
 डीपान्तरस्थामपि सारभूताम् ।
चक्रे स्वयं या भृशमुन्नताभि-
 रुद्ग्रीविकां सौधपरम्पराभिः ॥ १५ ॥

यत्सालमालम्बितमम्बुवाहा-
 स्तुङ्गाग्रमारोढुमशक्नुवन्तः ।
निम्ने पतित्वा परिखाम्बुपूरे
 ममज्जुरम्बुग्रहणेच्छयेव ॥ १६ ॥

तुङ्गानि यस्या[१] मणिगोपुराणि
 विष्वक्कृत द्वारपरम्पराणि ।
महेन्द्रवज्रक्षतजातरन्ध्र-
 शैलेन्द्रशङ्कामदिशञ्जनानाम् ॥ १७ ॥

नितम्बबिम्बादिव रत्नसालाइ
 गङ्गाम्बुवासो गलितं पुरस्तात् ।
दधार या रत्नकरप्रसारैः
 क्ष्लथतरङ्गाश्चलनीविबन्धम् ॥ १८ ॥

विकस्वरा वज्रकरैरसङ्ख्यैः
 सौधेषु सौधेषु सुधाभिरामा ।
नोत्तुङ्गभावान्नपरं श्रियापि
 या लङ्घयामास पुरीं सुराणाम् ॥ १९ ॥

लक्ष्मीगृहीत्वा जलधेः स[२]रत्नाः
 पौ[३]राङ्गनाव्याजवतीरसङ्ख्याः ।


  1. 'स्यां' ख. पाठ:.
  2. 'सु',
  3. 'व' क. पाठ:.