पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।


सुव्यञ्जितार्थः सुभगावगाहो
 गवां[१] निधिः केन निवेशनीयः ॥ ९ ॥

यतो न गृह्णन्ति सतोऽपि दोषा-
 नतो दुराराध्यतमा हि सन्तः ।
कामं खलाश्चेदनुरञ्जनीया-
 स्ते दोषलोला: सुलभाव दोषाः ॥ १० ॥

सचेतसः सन्ति विमत्सराचेद्
 गुणाश्च काव्ये यदि नाम सन्ति ।
मिथो मिलन्त्येव न याचनीया
 [२] चेद् इये कः कथमर्थनीयः ॥ ११ ॥

आसीदनल्पोपलहेम शिल्पा
 पुरी प्रतिष्ठानमिति प्रसिद्धा ।
स्वर्वाहिनीनीरगृहीतपार्श्वा
 या रत्नभूषेव भुवो बभासे ॥ १२ ॥

चिरानुभूतं सुरलोकसख्यं
 सम्भावयन्ती सुरनिम्नगायाः |
रराज या पार्श्वनिविष्टपार्श्वा
 भुवं गतेवामरराजधानी ॥ १३ ॥

स्तम्भोपमानां मणिगोपुराणां
 तुङ्गेषु शृङ्गेषु निवेशितस्य ।
आकाशधाम्नो मणिभित्तिकेव
 प्राकारमाला विरराज यत्र ॥ १४ ॥


  1. 'पानू दुःखानुरोध्यास्तत एव स',
  2. 'नो' ग. पाठः.