पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


पद्माननावर्जितराजहंसाः
 पुष्पेषु लोलैर्भ्रमरैः परीताः ।
यस्यां विरेजुर्मणिहेमक्ऌप्ताः
 शुद्धान्तनार्यो गृहदीर्घिकाश्च ॥ २६ ॥

सौघस्थिताभिः पुरसुन्दरीभि-
 र्नम्रीकृता निष्कुटचूतशाखा ।
रराज यस्यां सशिलीमुखालिः
 सज्जीकृतेव स्मरचापयष्टिः ॥ २७ ॥

यत्रेन्दुकान्तोपलभित्तिभाभि
 राविष्कृतानामभिसारिकाणाम् ।
स्थूलेन्द्रनीलोत्पलतोरणानां
 छाया बभूवावरणं रजन्याम् ॥ २८ ॥

हरिन्मणिश्यामतृणोलपाढ्यैः
 सौवर्णभाण्डोज्ज्वलरश्मिकीर्णैः
तुङ्गैर्गृहैर्विश्रमितुं ददौ वा
 या मन्दुरामर्कतुरङ्गमाणाम् ॥ २९ ॥

सन्नायकोत्कृष्टगुणा महार्था
 लोकोत्तमालङ्कृतिरस्तदोषा ।
विशुद्धवर्णाश्रमगुम्फिता या
 हारावली काव्यक (था? ला) भिरामा ॥ ३० ॥

तस्यां नगर्यां निजपादपातैः
 सम्भावयन् भूमिभृतां शिरांसि ।
आसीत् त्रिलोक्यामिव तिग्मधामा
 दुष्षन्तनामा नरपालमौलिः ॥ ३१ ॥