एते हि[१] कामनिभृतोन्नतयोऽपि तृप्त्यै
मुञ्चन्ति चातक पयो न पयोमुचस्ते ॥ १७४ ॥
योऽयं वारिधरो धराधरशिरस्यभ्युन्नतः केवलं
गर्जत्येव गभीरधीरनिनदैर्नायं सखे वारिदः ।
तत्ते चातक पातकस्य कतमस्यैतत्फलं पठ्यते
येनासौ न ददाति याति न भवच्चेतोऽपि निर्विघ्नताम् ॥ १७५ ॥
अन्येऽपि सन्ति बत तामरसावतंसा
हंसावलीवलयिनो जलसंनिवेशाः ।
कोऽप्याग्रहो गुरुरयं हतचातकस्य
पौरंदरींं समभिवाञ्छति वारिधाराम् ॥ १७६ ॥
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये
भ्रातश्चातक किं वृथात्र रणितैः खिन्नोऽसि विश्राम्यताम् ।
मेघः शारद एष काशधवलः पानीयरिक्तोदरो
गर्जत्येव हि केवलं भृशमपां नो बिन्दुमप्युज्झति ॥ १७७ ॥
यः कृष्णं कुरुते मुखं जनयति त्रासं तडिद्भिस्तु यो
यश्च प्रार्थयते परं दलयति श्रोत्राणि यो गर्जितैः ।
सत्यं चातक तं तथाविधमपि भ्रातस्त्वया याचता
जीमूतं कृतमेव तुल्यमनयोरर्थित्वतिर्यक्त्वयोः ॥ १७८ ॥
धिग्वारिदं परिहृतान्यजलाशयस्य
यश्चातकस्य कुरुते न तृषः प्रशान्तिम् ।
धिक् चातकं तमपि योऽर्थितयास्तलज्ज-
स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ १७९ ॥
अनुसर सरस्तीरं वैरं किमत्र महात्मना
कतिपयपयः पानं मानिन्समाचर चातक ।
प्रलयपवनैरस्तं नीतः पुरातनवारिदो
यदयमदयं कीलाजालं विमुञ्चति नूतनः ॥ १८० ॥
- ↑ ‘एतेऽभिकामविवृतोन्नतयोऽपि तृप्त्यै' इति पाठः.