येनोषितं रुचिरपल्लवमञ्जरीभिः
श्रीखण्डचम्पकरसालवने सदैव ।
दैवात्स कोकिलयुवा विचचार निम्बे
तत्रापि रुष्टबलिपुष्टकुलैर्निनादः ॥ ११४ ॥
तावन्मौनेन नीयन्ते कोकिलैरिव वासराः ।
यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ ११५ ॥
अथ काकान्योक्तयः ।
तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः ।
केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ११६ ॥
आमरणादपि विरुतं कुर्वाणा: स्पर्धया सह मयूरैः ।
किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ११७ ॥
उषितः कोकिलयापि समं तदपि वराकः काकः ।
लभतेऽद्यापि न सुस्वरतां गुरुरिह कर्मविपाकः ॥ ११८ ॥
कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे
माकन्दं मकरन्दसुन्दरमिदं गाहस्व काक स्वयम् ।
भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालति[१]लके पङ्कं न शङ्केत कः ॥ ११९ ॥
गात्रं ते मलिनं तथा श्रवणयोरुद्वेषकृत्क्रेङ्कितं
भक्ष्यं सर्वमपि स्वभावचटुलं दुश्चेष्टितं ते सदा ।
एतैर्वायससङ्गतोऽस्य विनयैर्दोषिकमूलैः परं
यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव वन्द्यो भवान् ॥ १२० ॥
पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
दधिभृतघटीं गर्वोन्नद्धः समुद्धतकंधरः ।
- ↑ 'पतिते पङ्के' इति कुवलयानन्दे विकस्वरालंकारोदाहरणभूतेऽस्मिन् पद्ये स्थितः पाठः.