पराशरश्च ।
गजाश्वयमलप्रसवे तत्स्वामिविनाशं विन्द्यात् ।
वृद्धगर्गसंहिताबार्हस्पत्यविष्णुधर्मोत्तरेषु ।
वडवां हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।
विजातिं विकृतं वाऽपि षण्मासैर्म्रियते नृपः ॥
भीष्मपर्वणि कुरुक्षयनिमित्तम् ।
"स्त्रियः काश्चित् प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्ति च हसन्ति च”[१] ॥
वराहसंहितायां तु ।
वडवोष्ट्रगोमहिषहस्तिनीषु यमलोद्भवे मरणमासाम् ।
षण्मासान् सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ ॥
नार्यः परस्य विषये त्यक्तव्यास्तु हितार्थिना ।
तर्पयेच्च द्विजान् कामैः शान्तिं चैवात्र कारयेत् ॥
चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु ।
नगरं स्वामिनं यूथमन्यथा तु विनाशयेत् ॥
पराशरः ।
फलं तद्दुष्टगर्भाणां मातृगर्भविवासनात् ।
यस्मात् तस्मात् स्वविषये क्षितिं तत्र न धारयेत् ॥
औशनसे ।
विशन्ति येषु तान्याशु व्यक्तव्यानि शुभार्थिना ।
तस्मादेतानि सत्त्वानि राजा शीघ्रं प्रवासयेत् ॥
वृद्धगर्गसंहिताबार्हस्पत्ययोः ।
परभूमिषु तान्याशु त्यक्तव्यानि शुभार्थिना ।
शान्तयश्चापि कर्त्तव्या ब्राह्मणैर्वेदपारगैः ॥
- ↑ ३ अ. ७ श्लो ।