पृष्ठम्:अद्भुतसागरः.djvu/५६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६२
अद्भुतसागरे ।

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "गर्भिण्यो राजपुत्राँश्च जनयन्ति विभीषणान्"[१]
 "त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥
 तथैवान्यानि दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
 वैनतेयान् मयूराँश्च जनयन्ति पुरे तव"[२]। ॥

औशनसे ।

 गौरश्वं वडवा गावो यस्मिन् देशे प्रसूयते ।
 अभ्यन्तरेण वर्षात् तु राज्ञो मरणमादिशेत् ॥

मौशले वृष्णिक्षयनिमित्तम् ।

 “व्यजायन्त खरा गोषु करभाऽश्वतरीषु च ।
 शुनीषु विडालाश्च मूषिका नकुलीषु च [३]

औशनसे ।

 अश्वा किशोरं जनयेत् शृङ्गिणं यत्र तत्र तु ।
 आदिशेन्मरणं राज्ञस्तद्वर्षाभ्यन्तरेण तु ॥

भीष्मपर्वणि कुरुक्षयनिमित्तम् ।

 "गोवत्सं वडवा सूते श्वा शृगालं महीपते ।
 कुकुरान् करभाँश्चैव शुकाँश्च शुभवादिनः"[४]
 “त्रिविषाणाश्चतुर्नेत्राः पञ्चशीर्षा द्विमेहनाः ।
 द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥
 जायन्ते विकृतास्याश्च व्याहरन्तोऽशिवा गिरः”[५]

वृद्धगर्गसंहिताबार्हस्पत्ययोः ।

 जङ्गमं स्थावरे जायेत् स्थावरं जङ्गमे तथा ।
 अस्मिन् जन्मविपर्यासे परचक्रागमं वदेत् ॥


  1. ३ अ, २ श्लो. ।
  2. ३ अ. ४-५ श्लो.
  3. २ अ. ९ श्लो.।
  4. ३ अ.६ श्लो. ।
  5. ३ अ, ३-४ श्लो. ।