बृहत्संहितायां च ।
अशनिः स्वनेन महता नृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयन्ती धरातलं चक्रसंस्थाना ॥
काश्यपस्तु ।
नरेभतुरगाश्वाश्मवृक्षेषु पतते सदा ।
ज्वलन्ती चक्रवत् पश्येदशनीमभ्रसंस्थिताम् ॥
बार्हस्पत्ये तु।
तत्र शब्देन महता विवरेण विकर्षिणा ।
महाचक्रमिवागच्छेदायताङ्गा नभस्तलात् ॥
मनुष्यमृगहस्त्यश्ववृक्षाश्मपथि वेश्मसु ।
पतन्त्यशनयो दीप्ताः स्फोटयन्त्यो धरातलम् ॥
अथोल्कालक्षणम् । तत्र काश्यपः ।
बृहच्छिरास्तु सूक्ष्माङ्गा नतमानशिखोज्ज्वला ।
पौरुषी तु प्रमाणेन उल्का नानाविधा भवेत् ॥
वटकणिकायाम् ।
उल्काग्रतो विशाला बहुप्रकारा पुरुषमात्रा ।
बृहत्संहितायाम् ।
उल्का शिरसि विशाला निपतन्ती वर्धते प्रतनुपुच्छा।
दोर्घा च भवति पुरुषं भेदा बहवो भवन्त्यस्याः ॥
बार्हस्पत्ये तु ।
सूक्ष्माऽमूला विशालाग्रा पतन्ती वाऽपि वर्धते ।
कृशा नारीव दीप्तास्या सविषाङ्गारवर्षिणी ॥
उद्योतयन्ती गगनं काञ्चनेनैव कर्मणा
पीतेन चापि वर्णेन धूमधूम्राऽरुणेन वा ॥
नरप्रमाणा विज्ञेया उल्का बहुविधा तु सा ।