ततो दहति शीतांशुः सर्वान्नानि दिवाकरः ॥
मृयन्ते च तदा गावः श्वापदाश्च विशेषतः ।
विषं च प्रबलं तत्र सर्वदंष्ट्रिषु दारुणम् ॥
उदये सूर्यपुत्राणामेतद्भवति लक्षणम् ।
मार्गशीर्षे च पौषे च वह्निपुत्रान् विनिर्दिशेत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
अग्निर्दहति राष्ट्राणि हरितश्च वनानि च ॥
विद्रवन्ति ततो देशाः समन्ताद्भयपीडिताः ।
कस्मिँश्चिज्जायते क्षेमं कस्मिँचिज्जायते भयम् ॥
उदये वह्निपुत्राणमेतद्भवति लक्षणम् ।
माघफाल्गुनयोर्मध्ये यमपुत्रान् विनिर्दिशेत् ॥
तेषां चैव तु कर्माणि लक्षणैः शृणु यादृशैः ।
शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् ॥
छर्दिज्वरातिसाराश्च ग्लानिश्चैवाक्षिवेदना ।
उदये यमपुत्राणामेतद्भवति लक्षणम् ॥
देवलस्त्वाग्नेयाद्या नवविधा अष्टोत्तरशतकेतवः । कृत्तिकादिषु त्रिषु नक्षत्रेषु स्थिता उदयन्ते इत्याह ।
तद्यथा ।
कृत्तिका रोहिणी सौम्यं पृथिवीमध्यमुच्यते ।
केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च ॥
आग्नेयेषु च दृष्टेषु लोकानां च क्षयो ध्रुवम् ।
नित्योद्विग्नाश्च राजानो जनमारस्तदा भवेत् ॥
रौद्रं पुनर्वसुः पुष्यः पृथिव्या पूर्वमुच्यते ।
केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः ॥