तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधिविधानवत् ॥
चन्द्रोपरागं संप्राप्य कृत्वा ब्राह्मणवाचनम् ।
संगृह्य चतुरो विप्रान् शुक्लमाल्यानुलेपनैः ॥
पूर्वमेवोपरागस्य समासाद्यौषधादिकम् ।
स्नापयेच्चतुरः कुम्भान् ब्रह्मणान् सागरानिति[१]॥
गजाश्वरथ्यावाल्मीकसङ्गमाद्ध्रगोकुलात् ।
राजद्वारप्रवेशाच्च मृदमानीय निःक्षिपेत् ॥
पञ्चगव्येन कुम्भेषु शुद्धमुक्ताफलानि च ।
रोचनापद्मशङ्कौ च पञ्चभङ्गसमन्वितौ ।
पञ्चगव्येनेति पञ्चगव्येन सह निःक्षिपेदित्यर्थः ।
अथ पञ्चभङ्गः ।
पालाशाश्वत्थकपित्थविल्वोदुम्बरपल्लवैः ।
पञ्चभङ्ग इति ख्यातो बालानां शान्तिकारकः - इति ॥
स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् ।
गजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् ॥
एतत्सर्वं विनिःक्षिप्य कुम्भेष्वावाहयेत् सुरान् ।
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ॥
आयान्तु यजमानस्य दुरितक्षयकारकाः ।
योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः ॥
सहस्रनयनश्चन्द्रग्रहपीडां व्यपोहतु ।
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः ॥
चन्द्रोपरागसम्भूतामग्निपीडां व्यपोहतु ।
- ↑ मागधानपि इति च।